________________
तृतीयोऽध्यायः ।
३६९ दृष्टकृत्रिमविलक्षणतापेक्ष्यमाणश्च स्यात् कृत्रिमश्च स्यात् संनिवेशविशिष्टो लोको विरोधाभावात् । ततोसिद्धमस्य हेतोः साध्येनाविनाभावित्वमिति मन्यमानं प्रत्याह;
नान्यथानुपपन्नत्वमस्यासिद्धं कथंचन । कृत्रिमार्थविभिन्नस्याकृत्रिमत्वप्रसिद्धितः ॥ ६९ ॥
न हि कृत्रिमार्थविलक्षणो गगनादिः कृत्रिमः सिद्धो येन साध्यव्यावृत्तौ साधनव्यावृत्तिनिश्चितान्यथानुपपत्तिरस्य हेतोर्न सिद्ध्येत् ॥
असिद्धताप्यस्य हेतोर्नेत्यावेदयति;नासिद्धिर्मणिमुक्तादौ कृत्रिमेतरतो कृते । कृत्रिमत्वं न संभाव्यं जगत्स्कंधस्य तादृशः ॥७॥ मणिमुक्ताफलादीनां केषांचित्कृत्रिमत्वं व्रीहिसंमर्दनादिना रेखादिमत्त्वप्रतीत्या स्वयमुपयन् परेषां समुद्राकरोत्थानात्तथा रेखादिमत्त्वसंप्रत्ययेनाकृत्रिमत्वं च तद्वैलक्षण्यमालक्षयत्येव । तद्वद् दृष्टकर्तृकप्रासादादिभ्यः काष्टेष्टकादिघटनाविशेषाश्रयेभ्यस्तद्विपरीताकारप्रतिपत्त्या भूभूधरादीनां वैलक्षण्यं प्रतिपत्तुमहति च । न चेदभिनिविष्टमना इति नासिद्धो हेतुर्मणिमुक्तादौ कृत्रिमत्वव्यवहारक्षतिप्रसंगात् तद्वैलक्ष. ण्यस्यापि तद्वदसिद्धेः । न हि वयं दृष्टकृत्रिमकूटादिविलक्षणतयेक्षमाणत्वमकृत्रिममपेक्ष्यमाणत्वं वच्मो येन साध्यसमो हेतुः स्यादनित्यः शब्दो नित्यधर्मानुपलब्धेरित्यादिवत् । नापि भिन्नदेशकालाकारमात्रतयेक्षमाणत्वं तदभिदध्महे येन पुराणप्रासादादिनानैकांतिकः । किं तर्हि ? घटनाविशेषानाश्रयापेक्षमाणत्वं जगतः प्रतीतकृत्रिमकूटादिविलक्षणतयेक्षमाणत्वमभिधीयते । ततो निरवद्यमिदं साधनं । ननु चेदस्मदादिकर्तृककूटादिविलक्षणतयेक्षणं जगतोमदादिकत्रपेक्षयैवाकृत्रिमत्वं साधयेत् मणिमुक्ताफलादीनामिव समुद्रादिप्रभवानां न पुनरस्माद्विलक्षणमहेश्वरकर्तृविशेषापेक्षया तदुपभोक्तृप्राण्यदृष्टविशेषापेक्षयाप्यकृत्रिमत्वप्रसंगात् । न च तदपेक्षयाकृत्रिमत्वेपि तेषां सर्वत्र कृत्रिमाकृत्रिमत्वव्यवहारविरोधः प्रतीतकर्तृव्यापारापेक्षया केषांचित्कृत्रिमत्वेन व्यवहरणात् परेषामतींद्रियकत्वं व्यापारापेक्षणेनाकृत्रिमतया व्यवहृतेरनीश्वरवादिनाप्यभ्युपगमनीयत्वात् , अन्यथास्य सर्वत्रोत्पत्तिमति तदुपभोक्तृप्राण्यदृष्टविशेषाहेतुके कथमकृत्रिमव्यवहारः क्वचिदेव युज्येत । ततोस्सदादिकत्रपेक्षया जगतोकृत्रिमत्वसाधने सिद्धसाधनमस्मद्विलक्षणेश्वरकर्तृविशेषापेक्षया तु तस्य साधने विरुद्धो हेतुः साध्यविपरीतस्यास्मदादिकपेक्षयैवाकृत्रिमत्वस्य ततः सिद्धेरिति केचित् । तेपि न न्यायविदः, अनित्यः शब्दो नित्यविलक्षणतया प्रतीयमानत्वात् कलशादिवदित्यादेरप्येवमगमकप्रसंगात् । शक्यं हि वक्तुं यदि निरतिशयनित्यविलक्षणतयेक्षणात्सातिशयनित्यत्वमनित्यत्वं साध्यते तदा सिद्धसाध्यता तेनेयं व्यवहारात् स्यादकौटस्थ्येपि नित्यत्वेपि खयं मीमांसकैरभिधानात् । अनेकक्षणत्रयस्थायित्वमनित्यत्वं साध्यं तदा विरुद्धो हेतुस्तद्विपरीतस्य सातिशयनित्यलक्षणस्यैवानित्यत्वस्य ततः सिद्धेरिति । यदि पुनर्नित्यमात्रविलक्षणतापेक्षणादिति हेतुरिष्टमेव क्षणिकत्वाख्यमनित्यत्वं साधयति, ततो न सिद्धसाधनं परस्य, नापि विरुद्धो हेतुरिति मतं तदा दृष्टाकृत्रिमसामान्यविलक्षणतयेक्षणादिति हेतुरस्मदादिकत्रपेक्षयास्मद्विलक्षणेश्वरादिकत्रपेक्षयापि वा कृत्रिमत्वं साधयतीति कथं नैयायिकस्यापि सिद्धसाधनं विरुद्धो वा हेतुः स्यात् । यथैव हि निरतिशयनित्यात् सातिशयनित्याच्च वैलक्षण्यमुत्पादकविनाशकारणकत्वं प्रतीयमानं शब्दे खेष्टं क्षणिकत्वं साधयेत् , तथैवास्मदादिकृतात्कूटप्रासादादेरीश्वरादिकृताच्च त्रिपुरदाहांधकासुरविध्वंसनादेः सामान्यतो वैलक्षण्यघटनादिविशेषानाश्रयत्वं जगति समीक्ष्यमाणं सकलबुद्धिमत्कञपेक्षयैवाकृत्रिमत्वं साधयतीति सर्व निरवयं । न हीश्वरनारायणादयः स्याद्वादिनामप्रसिद्धा एव, नापि तत्कृतत्रिपुरदाहादिकवत्स विध्वं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org