________________
तत्त्वार्थश्लोकवार्तिके
[सू० ४० सनाश्रयो येन तद्विलक्षणं साधनमुपादीयमानं विरुद्ध्येत महेश्वरादेरखिलजगत्कारणस्यैव तेषामनभिमतत्वात् तादृशो महतो जगत्स्कंधस्य सकलघटनाविशेषानाश्रयस्येश्वरापेक्षयापि कर्तृमत्त्वमसंभाव्यं सन्निवेशविशिष्टत्वादेः साधनस्य तत्प्रयोजकत्यायोगस्य समर्थनात् । एतेन समुद्राकरसंभूतमणिमुक्ताफलादिदृष्टांतस्य साध्यधर्मविकलत्वं साधनधर्मविकलत्वं च निराकृतं, तत्रापि सकलकृत्रिमविलक्षणतयेक्षणस्य महेश्वरकृतत्वासंभवस्य च कृतानेश्चयत्वात् । तदेवं निखिलबाधकरहितात् प्रवचनादनुमानाच्चाकृत्रिमलो- । कव्यवस्थानान्नैकबुद्धिमत्कारणो लोकः शंकनीयः कालादिवत् । ततो मध्यलोकस्य निवेशः कथितः । द्वीपसमुद्रपर्वतक्षेत्रसरित्प्रभृतिविशेषः सम्यक् सकलनैगमादिनयमयेन ज्योतिषा प्रवचनमूलसूत्रैर्जन्यमानेन कथमपि भावयद्भिः सद्भिः वयं पूर्वापरशास्त्रार्थपर्यालोचनेन प्रवचनपदार्थविदुपासनेन चाभियोगाविशेषविशेषेण वा प्रपंचेन परिवेद्यो अधोलोकसन्निवेशविशेषवदित्युपसंहरन्नाह;इति कथितविशेषो मध्यलोकस सम्यक् सकलनयमयेन ज्योतिषा सन्निवेशः । प्रवचनभवसूत्रैर्जन्यमानेन सद्भिः कथमपि परिवेद्यो भावयद्भिः प्रपंचात् ॥ ७१ ॥
इति तृतीयाध्यायस्य द्वितीयमाह्निकम् । अधोलोकश्चित्रो नरकगणना नारकजनस्तथा लोको मध्यो बहुविधविशेषो नरगणः । तदायुर्भेदश्च प्रतिनियतकालो निगदितस्तिरश्चामध्याये स्थितिरपि तृतीयेत्र मुनिना ॥ १ ॥
इति श्रीविद्यानंदिआचार्यविरचिते तत्त्वार्थश्लोकवार्तिकालंकारे तृतीयोऽध्यायः ॥ ३ ॥
CGHTTA
UNNY
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org