________________
अथ चतुर्थोऽध्यायः ॥ ४॥
देवाश्चतुर्णिकायाः ॥१॥ देवगतिनामकर्मोदये सति दीव्यंतीति देवाः व्युत्पत्त्याविरोधात् । बहुत्वनिर्देशोंतर्गतभेदप्रतिपत्यर्थः । खधर्मविशेषोपपादितसामर्थ्यान्निचीयंत इति निकायाः चत्वारो निकायाः येषां ते चतुर्निकायाः । कुतः पुनश्चत्वार एव निकाया देवानामितिचेत् , निकायिनां तेषां चतुःप्रकारतया वक्ष्यमाणत्वात् । ते हि भवनवासिनो व्यंतरा ज्योतिष्का वैमानिकाश्चेति चतुर्विधान्निकायिभेदाच्च निकायभेदा इति । नैक एव देवानां निकायो नापि द्वावेव त्रय एव वा, पंचादयोप्यसंभाव्या एव तेषामत्रांतर्भावात् । ननु च ब्राह्मसौम्यप्राजापत्यऐंद्रयक्षराक्षसभूतपिशाचानामष्टप्रकाराणामष्टौ निकायाः कुतो न परोक्ता इति चेत् , परागमस्य तत्प्रतिपादकस्य प्रमाणत्वासंभवादित्यसकृदभिधानात् ॥
ननु च नारकमनुष्याणामिवाधारवचनपूर्वकं देवानां वचनं किमर्थं न कृतमित्याशंकमानं प्रत्यावेदयति;-. देवाश्चतुर्णिकाया इत्येतत्सूत्रं यदब्रवीत् । नारकाणामिवाधारमनुक्तं देवसंविदे ॥१॥ सूत्रकारस्तदेतेषां लोकत्रयनिवासिनां । सामथ्योदूह्मलोकस्य संस्थानं वक्तुमैहत ॥२॥
न हि यथा नारकाणामाधारः प्रतिनियतोऽधोलोक एव मनुष्याणां च मानुषोत्तरान्मध्यलोक एव, तथा देवानामूललोक एव श्रूयते । भवनवासिनामधोलोकाधारतयैव श्रवणात् , व्यंतराणां तिर्यग्लोकाधारतयापि श्रूयमाणत्वात् । ततो लोकत्रयनिवासिनां सामर्थ्यादूर्ध्वलोकस्य संस्थानं च मृदंगवद्वक्तुमैहत सूत्रकारः आधारमनुक्त्वा निकायसंवित्तये सूत्रप्रणयनात् ॥
आदितस्त्रिषु पीतांतलेश्याः ॥२॥ संक्षेपार्थमिहेदं सूत्रं लेश्याप्रकरणस्य वचने विस्तरप्रसंगात् । तेन भवनवासिव्यंतरज्योतिष्कनिकायेषु देवाः पीतांतलेश्या इति । इह तु देवा इत्यवचनमनुवृत्तेर्भवनवास्याद्यवचनं च तत एव । कथमिह निकायेष्वित्यनुवर्तयितुं शक्यं, तेषामन्यपदार्थे वृत्तौ सामर्थ्याभावात् । चत्वारश्च ते निकायाश्चतुर्णिकाया इति स्वपदार्थायामपि वृत्तौ देवा इति सामानाधिकरण्यात् उपपत्तिरिति चेन्न, उभयथापि दोषाभावात् । अन्यपदार्थायां वृत्तौ तावन्निकायेष्विति शक्यमनुवर्तयितुं । त्रिष्विति वचनसामर्थ्यात् त्रित्वसंख्यायाश्च संख्येयैर्विना संभवाभावादन्येषामिहाश्रुतत्वात् प्रकरणाभावाच्च त्रिनिकायैरेव तैर्भवितव्य मित्यर्थसामर्थ्यान्निकायानुवृत्तिः । खपदार्थायामपि वृत्तौ तत एव तदनुवृत्तिः प्रधानत्वाच्च निकायानां चतुःसंख्याविशेषणरहितानामनुवृत्तिघटनात् त्रित्वसंख्यया चतुःसंख्यया बाधितत्वात् । देवा इति इति सामानाधिकरण्यं तु निकायनिकायिनां कथंचिदभेदान्न विरुध्यते । त्रिनिकायाः पीतांतलेश्या इति युक्तमिति चेन्न, इष्टविपर्ययप्रसंगात् । आदित इति वचने त्वत्र सूत्रगौरवमनिवार्य । ततो यथान्यासमेवास्तु किमर्थमिहादित इति वचनं ? विपर्यासनिवृत्त्यर्थ, अंतेन्यथा वा त्रिप्विति विपर्यासस्यान्यथा निवारयितुमशक्तेः । येकनिवृत्त्यर्थस्तु निष्विति वचनं । चतुर्निवृत्त्यर्थ कस्मान्न भवति ? आदित इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org