________________
३७२
तत्त्वार्थश्लोकवार्तिके
[सू० ४
वचनात् चतुर्थस्यादित्वासंभवात्, अंत्यत्वात्पंचमादिनिकायानुपदेशात् । आद्येषु पीतांतलेश्या इत्यस्तु लघुत्वादिति चेन्न, विपर्ययप्रसंगात् । आदौ निकाये भवा आद्या देवास्तेषु पीतांतलेश्या इति विपर्ययो यथा न्यासं सुशकः परिहर्तुं निःसंदेहार्थं चैवं वचनं । अथ पीतांतवचनं किमर्थं ? लेश्यावधारणार्थं । कृष्णा नीला कपोता पीता पद्मा शुक्ला लेश्येति पाठे हि पीतांतवचनात् कृष्णादीनां संप्रत्ययो भवतीति, पद्मा शुक्ला च निवर्तिता स्यात् । तेन त्रिष्वादितो निकायेषु देवानां कृष्णा नीला कपोता पीतेति चतस्रो लेश्या भवतीति ॥ अन्यथा कस्मान्न भवति तेषु देवा इत्युच्यते;
त्रिष्वाद्येषु निकायेषु देवाः सूत्रेण सूचिताः । संति पीतांतलेश्यास्ते नान्यथा बाधितत्वतः ॥ १ ॥ न तावद्देवाः सूत्रोक्ताः संतोन्यथा भवंति, सुनिश्चितासंभवद्बाधकत्वात्सुखादिवत् । नापि त्रिषु निकायेषु पीतांतलेश्याः सूत्रेणोक्तास्तदन्यथा पद्मलेश्याः शुक्ललेश्या वा भवति, तत एव तद्वत् ॥
दशाष्टपंचद्वादशविकल्पाः कल्पोपपन्नपर्यंताः ॥ ३ ॥
---
देवाश्चतुर्णिकाया इत्यनुवर्तमानेनाभिसंबंधोस्य चतुर्णी निकायानामंतर्विकल्पप्रतिपादनार्थत्वात् न पुनरादितस्त्रिष्वित्यादीनां पीतांतलेश्यानां कल्पोपपन्नपर्यंतत्वाभावात् । तेन चतुर्णी देवनिकायानां दशादिभिः संख्याशब्दैर्यथासंख्यमभिसंबंधो विज्ञायते, तेन भवनवासिव्यंतरज्योतिष्कवैमानिका दशाष्टपंचद्वादश विकल्पा इति । वैमानिकानां द्वादशविकल्पांतः पातित्वे प्रसक्ते तद्व्यपोहनार्थं कल्पोपपन्नपयैतवचनं, ग्रैवेयकादीनां द्वादशविकल्पवैमानिक बहिर्भावप्रतीतेः । एतदेवाभिधीयते -
चतुर्ष्वपि निकायेषु ते दशादिविकल्पकाः । कल्पोपपन्नपर्यंता इति सूत्रे नियामतः ॥ १ ॥
चतुर्निकाया देवा दशादिविकल्पा इत्यभिसंबंधे हि वैमानिकानां द्वादशविकल्पांतः पातित्वप्रसक्तौ कल्पोपपन्नपर्यंता इति वचनान्नियमो युज्यते, नान्यथा । इंद्रादयो दशप्रकारा एतेषु कल्प्यत इति कल्पाः सौधर्मादयो रूढिवशान्न भवनवासिनः । कल्पेषूपपन्नाः कल्पोपपन्नाः 'साधनं कृता बहुलमिति वृत्तिः मयूरव्यंसकादित्वाद्वा, कल्पोपपन्नाः पर्यंते येषां ते कल्पोपपन्नपर्यंताः प्राग्ग्रैवेयकादिभ्य इति यावत् ॥ इंद्रसामानि कत्रायस्त्रिंशपारिषदात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्य किल्बिषकाचैकशः ॥ ४ ॥
अन्यदेवासाधारणाणिमादिगुणपरमैश्वर्ययोगादिदंतीतींद्राः । आज्ञैश्वर्यवर्जितमायुर्वीर्य परिवारभोगोपभोगादिस्थानमिंद्रैः समानं तत्र भवाः सामानिका इंद्रस्थानार्हत्वात् समानस्य तदादेश्चेति ठक् । त्रयस्त्रिंशति जाताः त्रायस्त्रिंशाः 'दृष्टेशानि च जाते च अणिद्विधीयत' इत्यभिधानमस्तीति अणिद्विधीयते, कथं वृत्तिर्भेदाभावात् महत्तरपितृगुरूपाध्यायतुल्याः । मंत्रिपुरोहितसंस्थानीया हि ये त्रयस्त्रिंशदेवास्त एव त्रायस्त्रिंशा न तत्र जाताः केचिदन्ये संतीति दुरुपपादा वृत्तिः । नैतत्सारं, संख्यासंख्येयभेदविवक्षायामाधाराधेयभेदोपपत्तेः, त्रयस्त्रिंशत्संख्या तदाधारः संख्येयास्तु यथोक्तास्तदाधेया इति सूपपादा वृत्तिः । अथवा त्रयस्त्रिंशद्देवा एव त्रायस्त्रिंशाः 'स्वार्थिकोपि हृत' इति बहुत्वनिर्देशात् । अंतिमादिवत् परिषद्वक्ष्यमाणा तत्र जाता भवा वा पारिषदाः, परिषत्तद्वतां कथंचिद्भेदात्ते च वयस्यपीठमर्दतुल्याः । आत्मानं रक्षंती - तीत्यात्मरक्षास्ते शिरोरक्षोपमाः । लोकं पालयंतीति लोकपालास्ते चारक्षिकार्थचरसमाः । अनीकानीवानीकानि तानि दंडस्थानीयानि गंधर्वानीकादीनि सप्त । प्रकीर्णा एव प्रकीर्णकाः ते पौरजानपदकल्पाः । वाहनादिभावेनाभिमुख्येन योगोभियोगस्तत्र भवा अभियोग्यास्त एव आभियोग्याः इति स्वार्थिकः घणु
Jain Education International
For Private & Personal Use Only
L
www.jainelibrary.org