________________
चतुर्थोऽध्यायः ।
३७३
चातुर्वर्ण्यादिवत्, अथवा अभियोगे साधवः आभियोग्याः अभियोगमर्हतीति वा आभियोग्यास्ते च दाससमानाः । किल्बिषं पापं तदेषामस्तीति किल्बिषिकाः तेंत्यवासिस्थानीयाः । एकैकस्य निकायस्यैकश इति वीप्सा शस् ॥ कुतः पुनरेकैकस्य निकायस्येंद्रादयो दशविकल्पाः प्रतीयंत इत्यावेदयति
इंद्रादयो दशैतेषामेकशः प्रतिसूत्रिताः । पुण्यकर्मविशेषाणां तद्धेतूनां तथा स्थितेः ॥ १ ॥ यथैव हि देवगतिनामपुण्यकर्मसामान्या देवास्तद्विशेषभवनवासिनामादिपुण्योदयाच्च भवनवास्यादयस्तथैवेंद्रादिनामपुण्यकर्मविशेषेण इंद्रादयोपि संभाव्यंते, तेषां तद्धेतूनां युक्त्यागमाभ्यां व्यवस्थितेर्बा - धकाभावात् ॥
त्रायस्त्रिंशलोकपालवर्ज्या व्यंतरज्योतिष्काः ॥ ५ ॥
इंद्रादिदश विकल्पानामुत्सर्गतोऽभिहितानां चतुर्षु निकायेष्वविशेषेण प्रसक्तौ तदर्थमिदमुच्यते । कुतः पुनर्व्यतरा ज्योतिष्काः त्रायस्त्रिंशैर्लोकपालैश्च वर्ज्या येन तेष्टविकल्पा एव स्युरित्यारेकायामिदमाह;
तत्रापि व्यंतरा वर्ज्या ज्योतिष्काश्चोपवर्णिताः । त्रायस्त्रिंशैस्तथा लोकपालैस्तद्धेत्वसंभवात् ॥ १॥ न हि व्यंतरज्योतिष्का निकायास्त्रयस्त्रिंशल्लोकपालनामपुण्यकर्म विशेषास्त्रायस्त्रिंशलोकपालदेव विशेषकल्पनाहेतुरस्ति यतस्तयोस्त्रायस्त्रिंशलोकपालाश्च स्युरिति तद्वर्ज्यास्ते देवाः तदतिशयविशेषस्य प्रतीतिहेतोर्निकायांतरवत्तत्रासंभवात् ॥
पूर्वयोन्द्राः ॥ ६ ॥
भवनवासिव्यंतरनिकाययोः पूर्वयोर्देवा द्वींद्रा न पुनरेकेंद्रा निकायांतरवदिति प्रतिपत्त्यर्थमिदं सूत्रं । पूर्वयोरिति वचनं प्रथमद्वितीयनिकाय प्रतिपत्त्यर्थे, तृतीयापेक्षया द्वितीयस्य पूर्वत्वोपपत्तेः द्विवचनसामर्थ्याच्चतुर्थापेक्षया तृतीयस्य पूर्वत्वेप्यग्रहणादप्रत्यासत्तेः । द्वौ द्वौ इंद्रौ येषां ते द्वींद्रा इत्यंतनतवीसार्थो निर्देशः । द्विपदिका त्रिपदिकेति यथा वीप्सायां वुनो विधानादिह वीप्सागतिर्युक्ता न प्रकृतेः किंचिद्विधानमस्ति । तर्हि सप्तपर्णादिवद्भविष्यति वीप्साविधानाभावेपि वीप्सा संप्रत्ययः । पूर्वयोर्निकाययो द्वाविंद्र देवानामिति निकायनिकायिभेदविवक्षावशादाधाराधेयभावो विभाव्यते ॥
द्राः निकाययोर्देवाः पूर्वयोरिति निश्चयात् । तत्रैकस्य प्रभोर्भावो नेति ते स्तोकपुण्यकाः ॥१॥ भवनवासिनिकाये असुराणां द्वाविंद्रौ चमरवैरोचनौ, नागकुमाराणां धरणभूतानंदौ, विद्युत्कुमाराणां हरिसिंहहरिकांतौ, सुपर्णकुमाराणां वेणुदेववेणुधारिणौ, अग्निकुमाराणां अग्निशिखामिमाणवौ, वातकुमाराणां वैलंबनप्रभंजन, स्तनितकुमाराणां सुघोषमहाघोषौ, उदधिकुमाराणां जलकांतजलप्रभौ, द्वीपकुमाराणां पूर्णवशिष्टौ दिक्कुमाराणां अमितगत्यमितवाहनौ । तथा व्यंतरनिकाये किन्नराणां किन्नरकिंपुरुषौ, किंपुरुषाणां सत्पुरुष महापुरुषौ, महोरगाणामतिकायमहाकायौ, गंधर्वाणां गीत रतिगीतयशसौ, यक्षाणां पूर्णभद्रमाणिभद्रौ, राक्षसानां भीममहाभीमौ, पिशाचानां कालमहाकालौ, भूतानां प्रतिरूपाप्रतिरूपौ । एवमेतेषामेकैकस्य प्रभोरभावात्ते स्तोकपुण्याः प्रभवो निश्चीयते ॥
कायप्रवीचारा आ ऐशानात् ॥ ७ ॥
प्रतिपूर्वाच्चरेः संज्ञायां घणु तु प्रवीचरणं प्रवीचारो मैथुनोपसेवनं । काये प्रवीचारो येषां ते कायप्रवीचाराः । असंहितानिर्देशोऽसंदेहार्थः । ऐशानादित्युच्यमाने हि संदेहः स्यात् किमादंतर्भूत उत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org