________________
३७४ तत्त्वार्थश्लोकवार्तिके
[ सू०९ दिक्छब्दोध्याहार्य इति विपर्ययो वा स्यात् । ऐशानात् पूर्वयोरित्यनुवर्तमानेनाभिसंबंधात् । असंहितानिर्देशे तु नायं दोषः ॥
देवाः कायप्रवीचारा आ ऐशानादितीरणात् । चतुर्वपि निकायेषु सुखभेदस्य सूचनं ॥१॥
चतुर्णिकाया देवाः कायप्रवीचाराः इति संबंधाच्चतुर्वपि निकायेषु सुराणां सुरतसुखविशेषस्य कथनं गम्यते आ ऐशानादिति वचनात् । न हि वैमानिकनिकाये सर्वसुराणां कायप्रवीचारप्रसक्तौ तन्नि- । वृत्त्यर्थ ऐशानादिति वचनमभ्युपगंतुं युक्तं ॥
शेषाः स्पर्शरूपशब्दमनःप्रवीचाराः॥८॥ शेषा इति वचनं उक्तावशिष्टसंग्रहाथै, ते चोक्तावशिष्टाः सानत्कुमारादयः कल्पोपपन्ना एवाच्युतान्ताः परेऽप्रवीचारा इति वक्ष्यमाणत्वात् कल्पोपपन्नपर्यतानामेव द्वादशविकल्पत्वेन निर्दिष्टानां प्रकरणाच । नन्वेवं के स्पर्शप्रवीचाराः के च रूपादिप्रवीचारा इति विषयविवेकापरिज्ञानादगमकोऽयं निर्देश इत्याशंकायामिदमभिधीयते
ते स्पर्शादिप्रवीचाराः शेषास्तेभ्यो यथागमं । ज्ञेयाः कामोदयाः पापतारतम्यविशेषतः ॥१॥ .. ते देवाः शेषाः सानत्कुमारादयो यथागमं स्पर्शादिप्रवीचाराः प्रतिपत्तव्याः । सानत्कुमारमाहेंद्रयोः स्पर्शप्रवीचारा देवास्तेषामुत्पन्नमैथुनसुखलिप्सानां समुपस्थितखदेवीशरीरस्पर्शमात्रात्रीत्युत्पत्तौ निवृत्तेच्छत्वोपपत्तेः । ब्रह्मब्रह्मोत्तरलांतवकापिष्ठेषु रूपप्रवीचाराः, खदेवीमनोज्ञरूपावलोकनमात्रादेव निराकांक्षतया प्रीत्यतिशयोपपत्तेः । शुक्रमहाशुक्रसतारसहस्रारेषु शब्दप्रवीचाराः, खकांतामनोज्ञशब्दश्रवणमात्रादेव संतोषोपपत्तेः । आनतप्राणतारणाच्युतकल्पेषु मनःप्रवीचाराः, खांगनामनःसंकल्पमात्रादेव परमसुखानुभवसिद्धेरिति हि परमागमः श्रूयते । ततस्तदनतिक्रमेणैव विषयविवेकविज्ञानान्नागमकोऽयं निर्देशः । पुनः प्रवीचारग्रहणादिष्टाभिसंबंधप्रत्ययादन्यथाभिसंबंधे चार्थविरोधात् । संभाव्यते यथागमं स्पर्शादिप्रवीचारा देवाः कामोदयाः पापस्य चारित्रमोहक्षयोपशमविशेषस्य तारतम्यभेदान्मनुष्यविशेषवत् ॥
परेऽप्रवीचाराः ॥९॥ परे ग्रहणं कल्पातीतसर्वदेवसंग्रहार्थ । ततोऽनिष्टकल्पनानिवृत्तिः । अप्रवीचारग्रहणं प्रकृष्टसुखप्रतिपत्त्यर्थ, ते न मनःप्रवीचाराः । तेभ्यः परे कल्पातीताः सर्वदेवाः प्रवीचाररहिता इत्युक्तं भवति ॥
कुतः पुनरुक्तेभ्यः परेऽप्रवीचारा इत्याह;तेभ्यस्तु परे कामवेदनायाः परिक्षयात् । सुखप्रकर्षसंप्राप्तेः प्रवीचारेण वर्जिताः ॥१॥ संभाव्यते च ते सर्वे तारतम्यस्य दर्शनात् । नराणामिह कैषांचित् कामापापस्य तादृशः ॥२
विवादापन्नाः सुराः कामवेदनाक्रांताः सशरीरत्वात् प्रसिद्धकामुकवत् इत्युक्तं कामवेदनापापस्य शरीरत्वेन विरोधाभावात् । केषांचिदिहैव मनुष्याणां मंदमंदतमकानां विनिश्चयात् कामवेदनाहानितारतम्ये शरीरहानितारतम्यदर्शनाभावात् प्रक्षीणशेषकल्मषाणामपि शरीराणां प्रमाणतः साधनात् । एतेन कामित्वे साध्ये सत्त्वप्रमेयत्वादयोपि हेतवः संदिग्धविपक्षव्यावृत्तिका इति प्रतिपादितं, ततः संभाव्या एव केचिदप्रवीचाराः ॥
इत्येवं नवभिः सूत्रैः निकायाातरस्य या । कल्पना संशयश्चात्र केषांचित्तनिराकृतिः ॥३॥ प्रथमेन सूत्रेण तावत्केषांचिन्निकायांतरस्य कल्पना तत्संदेहः चात्र निराकृतिः । द्वितीयेन लेश्यांतरस्य,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org