________________
•
चतुर्थोऽध्यायः ।
३७५
तृतीयेन संख्यांतरस्य चतुर्थेन कल्पांतरस्य, पंचमेन तदपवादांतरस्य, षष्ठेनेंद्रसंख्यांतरस्य, सप्तमेनाष्टमेन चानिष्टप्रवीचारस्य, नवमेन सर्वप्रवीचारस्येति नवभिः सूत्रैर्निकायाद्यंतरकल्पनसंशयनिराकृतिः प्रत्येतव्या ॥ ||१०||
भवनवासिनोऽसुरनागविद्युत्सुपर्णानिवातस्तनितोदधिदीपदिकुमाराः
भवनवासिनामकर्मोदये सति भवनेषु वसनशीला भवनवासिन इति सामान्यसंज्ञा प्रथम निकाये देवानां । असुरादिनामकर्मविशेषोदयादसुरकुमारादय इति विशेषसंज्ञा । कुमारशब्दस्य प्रत्येकमभिसंबंधात् तेषां कौमारवयोविशेषविक्रियादियोगाः केचिदाहुः । देवैः सहास्यतीति असुरा इति, तदयुक्तं, तेषामेवमवर्णवादात् । सौधर्मादिदेवानां महाप्रभावत्वादसुरैः सह युद्धायोगात् तेषां तत्प्रातिकूल्येनावृत्तेर्वैरकारणस्य च परदारापहारादेरभावात् ॥ अथैतेषां भवनवासिनां दशानामपि निरुक्तिसामर्थ्यादाचा - रविशेषप्रतिपत्तिरिति प्रदर्शयति
दशासुरादयस्तत्र प्रोक्ता भवनवासिनः । अधोलोकगतेष्वेषां भवनेषु निवासतः ॥ १ ॥
क्व पुनरधोलोके तेषां भवनानि श्रूयंते ? रत्नप्रभायाः पंकबहुलभागे भवनान्यसुरकुमाराणां, खरपृथिवीभागे चतुर्दशयोजनसहस्रेषु नागादिकुमाराणां । तत्रोपर्यधश्चैकैकस्मिन् योजनसहस्रे तद्भवनाभावश्रवणात् । तत्र दक्षिणोत्तराधिपतीनां चमरवैरोचनादीनां भवनसंख्याविशेषः परिवारविभवविशेषश्च यथागमं प्रतिपत्तव्यः ॥
व्यंतराः किंनर किंपुरुषमहोरगगंधर्वयक्षराक्षसभूतपिशाचाः ॥ ११ ॥
व्यं तरनामकर्मोदये सति विविधांतरनिवासित्वाद्व्यंतरा इत्यष्टविकल्पानामपि द्वितीय निकाये देवानां सामान्यसंज्ञा । किन्नरादिनामकर्मविशेषोदयात् किन्नरादय इति विशेषसंज्ञा । किंनरान् कामयंत इति किंनराः, किंपुरुषान् कामयंत इति किंपुरुषाः, पिशिताशनात् पिशाचा इत्याद्यन्वर्थसंज्ञायामवर्णवादप्रसंगात्; देवानां तथाभावसंभवात् । पिशाचानां मत्स्यादिप्रवृत्तिदर्शनात् पिशिताशित्वसंभव इति चेत् न तस्याः क्रीडासुखनिमित्तत्वात् तेषां मानसाहारत्वात् ॥ क पुनर्व्यतराणां विविधान्यंतराण्यवकाशस्थानाख्यानि यतो निरुक्तिसामर्थ्यादेतेषामाधारप्रतिपत्तिरित्याह;
अष्टभेदा विनिर्दिष्टा व्यंतराः किन्नरादयः । विविधान्यंतराण्येषामधोमध्यमलोकयोः ॥ १ ॥ अधोलोके तावदौपरिष्टे खरपृथ्वीभागे किंनरादीनामष्टभेदानां व्यंतराणां दक्षिणाधिपतीनां किंपुरुषादीनां चोत्तराधिपतीनामसंख्येयनगरशतसहस्राणि श्रूयंते, मध्यलोके च द्वीपादिसमुद्र देशग्रामनगरत्रिकचतुष्कचतुरस्रगृहांगणे रथ्याजलाशयोद्यानदेवकुलादीनां वासशतसहस्राणां संख्येयानि तेषामाख्यायंते । तद्विशेषसंख्यापरिवारविभूतिविशेषो यथागमं प्रतिपत्तव्यः पूर्ववत् ॥
ज्योतिष्काः सूर्याचंद्रमसौ ग्रहनक्षत्रप्रकीर्णकतारका ॥ १२ ॥
ज्योतिष एव ज्योतिष्काः को वा यावादेरिति स्वार्थिकः कः । ज्योतिःशब्दस्य यावादिषु पाठात् तथाभिधानदर्शनात् प्रकृतिलिंगानुवृत्तिः कुटीरः समीर इति यथा । सूर्यचंद्रमसा इत्यत्रानदु देवताद्वंद्ववृत्तेः । ग्रहनक्षत्रप्रकीर्णकतारका इत्यत्र नानदु । ननु द्वंद्वग्रहणात्तस्येष्टविषये व्यवस्थानादसुरादिवत् किंनरादिवच्च कथं ज्योतिष्काः पंचविकल्पाः सिद्धा इत्याह; -
ज्योतिष्काः पंचधा दृष्टाः सूर्याद्या ज्योतिराश्रिताः । नामकर्मवशात्तादृक् संज्ञा सामान्य भेदतः १ ज्योतिष्क नामकर्मोदये सतीराश्रयत्वाज्योतिष्का इति सामान्यतस्तेषां संज्ञा सूर्यादिनामकर्मविशेषो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org