________________
३७६ तत्त्वार्थश्लोकवार्तिके
[ सू० १३ दयात्सूर्याद्या इति विशेषसंज्ञाः । त एते पंचधापि दृष्टाः प्रत्यक्षज्ञानिभिः साक्षात्कृतास्तदुपदेशाविसंवादान्यथानुपपत्तेः ॥ सामान्यतोऽनुमेयाश्च छद्मस्थानां विशेषतः । परमागमसंगम्या इति नादृष्टकल्पना ॥ २ ॥
मेरुप्रदक्षिणा नित्यगतयो नृलोके ॥ १३ ॥ ज्योतिष्का इत्यनुवर्तते । नृलोक इति किमर्थमित्यावेदयति;निरुक्त्या वासभेदस्य पूर्ववद्गत्यभावतः । ते नृलोक इति प्रोक्तमावासप्रतिपत्तये ॥१॥
न हि ज्योतिष्काणां निरुत्तयावासप्रतिपत्तिर्भवनवास्यादीनामिवास्ति यतो नृलोक इत्यावासप्रतिपत्त्यर्थ नोच्यते । क पुनर्नूलोके तेषामावासाः श्रूयंते ?--
अस्मात्समाद्धराभागावं तेषां प्रकाशिताः । आवासाः क्रमशः सर्वज्योतिषां विश्ववेदिभिः२ योजनानां शतान्यष्टौ हीनानि दशयोजनैः । उत्पत्य तारकास्तावच्चरंत्यध इति श्रुतिः ॥ ३॥ ततः सूर्या दशोत्पत्य योजनानि महाप्रभाः। ततश्चंद्रमसोशीति भानि त्रीणि ततस्त्रयः ॥४॥ त्रीणि त्रीणि बुधाः शुक्रा गुरवश्वोपरि क्रमात् । चत्वारोंगारकास्तद्वच्चत्वारि च शनैश्चराः ॥५॥ चरंति तादृशादृष्टविशेषवशवर्तिनः । स्वभावाद्वा तथानादिनिधनाद्रव्यरूपतः ॥ ६॥ एष एव नभोभागो ज्योतिःसंघातगोचरः । बहलः सदशकं सो योजनानां शतं स्मृतः ॥७ स घनोदधिपर्यंतो नृलोकेऽन्यत्र वा स्थितः । सिद्धस्तियंगसंख्यातद्वीपांभोधिप्रमाणकः ॥८॥ सर्वाभ्यंतरचारीष्टः तत्राभिजिदथो बहिः । सर्वेभ्यो गदितं मूलं भरण्योधस्तथोदिताः ॥९॥ सर्वेषामुपरि स्वातिरिति संक्षेपतः कृता । व्यवस्था ज्योतिषां चिंत्या प्रमाणनयवेदिभिः ॥१० मेरुप्रदक्षिणा नित्यगतय इति वचनात् किमिप्यत इत्याह;मेरुप्रदक्षिणा नित्यगतयस्त्विति निवेदनात् । नैवाप्रदक्षिणा तेषां कादाचित्कीष्यते न च ॥११ गत्यभावोपि चानिष्टं यथा भूभ्रमवादिनः । भुवो भ्रमणनिर्णीतिविरहस्योपपत्तितः ॥ १२ ॥
न हि प्रत्यक्षतो भूमेभ्रमणनिर्णीतिरस्ति, स्थिरतयैवानुभवात् । न चायं भ्रांतः सकलदेशकालपुरुषाणां तक्रमणाप्रतीतेः । कस्यचिन्नावादिस्थिरत्वानुभवस्तु भ्रांतः परेषां तद्गमनानुभवेन बाधनात् । नाप्यनुमानतो भूभ्रमणविनिश्चयः कर्तुं सुशकः तदविनाभाविलिंगाभावात् । स्थिरे भचक्रे सूर्योदयास्तमयमध्याह्नादिभूगोलभ्रमणे अविनाभावलिंगमिति चेन्न, तस्य प्रमाणबाधितविषयत्वात् पावकानौप्ण्यादिषु द्रव्यत्वादिवत् । भचक्रभ्रमणे सति भूभ्रमणमंतरेणापि सूर्योदयादिप्रतीत्युपपत्तेश्च । न तस्मात् साध्याविनाभावनियमनिश्चयः । प्रतिविहितं च प्रपंचतः पुरस्तात् भूगोलभ्रमणमिति न तदवलंबनेन ज्योतिषां नित्यगत्यभावो विभावयितुं शक्यः । नापि कादाचित्कीष्यते गतिर्नित्यग्रहणात् । तद्गतेर्नित्यत्वविशेषणानुपपत्तिरध्रौव्यादिति न शंकनीयं, नित्यशब्दस्याभीक्ष्ण्यवाचित्वान्नित्यप्रहसितादिवत् ॥ ऊर्ध्वाधोभ्रमणं सर्वज्योतिषां ध्रुवतारकाः । मुक्त्वा भूगोलकादेवं प्राहुर्भूभ्रमवादिनः ॥१३॥ तदप्यपास्तमाचार्यैर्नृलोक इति सूचनात् । तत्रैव भ्रमणं यस्मान्नोवधिोभ्रमणे सति ॥ १४ ॥
घनोदधेः पर्यंते हि ज्योतिर्गणगोचरे सिद्धे त्रिलोक एव भ्रमणं ज्योतिषामूर्ध्वाधः कथमुपपद्यते ? भूविदारणप्रसंगात् । तत एव विंशत्युत्तरैकादशयोजनशतविष्कंभत्वं भूगोलश्चाभ्युपगम्यत इति चेन्न, उत्तरतो भूमंडलस्येयत्तातिक्रमात् तदधिकपरिमाणस्य प्रतीतेः तच्छतभागस्य च सातिरेकैकादश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org