________________
•
चतुर्थोऽध्यायः ।
३७७
योजनमात्रस्यैव समभूभागस्याप्रतीतेः कुरुक्षेत्रादिषु भूद्वादशयोजनादिप्रमाणस्यापि समभूतलस्य सुप्रसिद्धत्वात् । तच्छतगुण विष्कंभ भूगोल परिकल्पनायामनवस्थाप्रसंगात् । कथं च स्थिरेपि भूगोले गंगासिंध्वादयो नद्यः पूर्वापरसमुद्रगामिन्यो घटेरन् ? भूगोलमध्यांतप्रभवादिति चेत्, किं पुनर्भूगोलमध्यं ? । उज्जयिनीति चेत्, न ततो गंगासिंध्वादीनां प्रभवः समुपलभ्यते । यस्मात्तत्प्रभवः प्रतीयते तदेव मध्यमिति चेत्, तदिदमतिव्याहतं । गंगाप्रभवदेशस्य मध्यत्वे सिंधुप्रभवभूभागस्य ततोतिव्यवहितस्य मध्यत्वविरोधात् । स्वबाह्यदेशापेक्षया त्वस्य मध्यत्वे न किंचिदमध्यं स्यात् खसिद्धांत परित्यागश्वोज्जयिनीमध्यवादिनां । तदपरित्यागे चोज्जयिन्या उत्तरतो नद्यः सर्वा उदङ्मुख्यस्तस्या दक्षिणतोऽवाङ्मुख्यस्ततः पश्चिमतः प्रत्यमुख्यस्ततः पूर्वतः प्राङ्मुख्यः प्रतीयेरन् । भूम्यवगाहभेदान्नदीगतिभेद इति चेन्न, भूगोलमध्ये महावगाहप्रतीतिप्रसंगात् । न हि यावानेव नीचैर्देशेवगाहस्तावानेवोर्ध्व भूगोले युज्यते । ततो नदीभिर्भूगोलानुरूपतामतिक्रम्य वतीति भूगोलविदारणमिति सममेव धरातलमवलंबितुं युक्तं, समुद्रादिस्थितिविरोधश्च तथा परिहृतः स्यात् । तद्भूमिशक्तिविशेषात्स परिगीयत इति चेत्, तत एव समभूमौ छायादि - भेदोस्तु । शक्यं हि वक्तुं लंकाभूमेरीदृशी शक्तिर्यतो मध्याह्ने अल्पछाया मान्यखेटाद्युत्तरभूमेस्तु तादृशी यतस्तदाधिष्ठिततारतम्यभा छाया । तथा दर्पणसमतलायामपि भूमौ न सर्वेषामुपरि स्थिते सूर्ये छायाविरहस्तस्यास्तदभेदनिमित्तशक्तिविशेषासद्भावात् । तथा विषुमति समरात्रमपि तुल्यमध्यदिने वा भूमिशक्तिविशेषादस्तु । प्राच्यामुदयः प्रतीच्यामस्तमयः सूर्यस्य तत एव घटते । कार्यविशेषदर्शनाद्रव्यस्य शक्तिविशेषानुमानस्याविरोधात् अन्यथा दृष्टहानेरदृष्टकल्पनायाश्चावश्यं भावित्वात् । सा च पापीयसी महामोहविजृंभितमावेदयति । न च वयं दर्पणसमतलामेव भूमिं भाषामहे प्रतीतिविरोधात् तस्याः काला दिवशादुपचयापचयसिद्धेर्निम्नोन्नताकारसद्भावात् । ततो नोज्जयिन्या उत्तरोत्तरभूमौ निम्नायां मध्यं दिने छायावृद्धिर्विरुध्यते । नापि ततो दक्षिणक्षितौ समुन्नतायां छायाहानिरुन्नतेतरा कारभेदद्वारायाः शक्तिभेदप्रसिद्धेः । प्रदीपादिवादित्यान्न दूरे छायाया वृद्धिघटनात् निकटे प्रभातोपपत्तेः । तत एव नोदयास्तमययोः सूर्यादेबिंबार्धदर्शनं विरुध्यते । भूमि संलग्नतया वा सूर्यादिप्रतीतिर्न संभाव्या, दूरादिभूमेस्तथाविधदर्शनजननशक्तिसद्भावात् ॥ न च भूमात्र निबंधनाः समरात्रादयस्तेषां ज्योतिष्कगतिविशेषनिबंधनत्वादित्यावेदयति ;
समरात्रंदिवावृद्धिर्हानिर्दोषाच्च युज्यते । छायाग्रहोपरागादिर्यथा ज्योतिर्गतिस्तथा ॥ १५ ॥ खखंडभेदतः सिद्धा बाह्याभ्यंतरमध्यतः । तथाभियोग्यदेवानां गतिभेदात्स्वभावतः ॥ १६ ॥
सूर्यस्य तावच्चतुरशीतिशतं मंडलानि । तत्र पंचषष्टिरभ्यंतरे जंबूद्वीपस्याशीतिशतयोजनं समवगाह्यप्रकाशनाज्जंबूद्वीपाद्वाह्यमंडलान्येकान्नविंशतिशतं लवणोदस्याभ्यंतरे त्रीणि त्रिंशानि योजनशतान्यवगाह्य तस्य प्रकाशनात् । द्वियोजनमेकैकमंडलांतरं द्वे योजने अष्टाचत्वारिंशद्योजनै कषष्टिभागाश्चैकैकमुदयांतरं । तत्र यदा त्रीणि शतसहस्राणि षोडशसहस्राणि सप्तशतानि यधिकानि परिधिपरिमाणं बिभ्रति तुलमेषप्रवेशदिनगोचरे सर्वमध्यमंडले मेरुं पंचचत्वारिंशद्योजन सहस्रैः पंचपंचाशद्योजनैरष्टाविंशत्या योजनैकषष्टिभागैश्च प्राप्य सूर्यः प्रकाशयति तदाहनि पंचदशमुहूर्ता भवंति रात्रौ चेति समरात्रं सिद्ध्यति । विषुमति दिने द्वाविंशत्येकषष्टिभागः सातिरेकाष्टसप्ततिद्विशतपंचसहस्रयोजन परिमाणां कमुहूर्त गति क्षेत्रोपपतेः । दक्षिणोत्तरे समप्रणिधीनां च व्यवहितानामपि जनानां प्राच्यमादित्यप्रतीतिश्च लंकादिकुरुक्षेत्रांतरदेशस्थानामभिमुखमादित्यस्योदयात् । अष्टचत्वारिंशद्योजनै कषष्टि भागत्वात् प्रमाणयोजनापेक्षया सातिरेक
४८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org