________________
३६०
तत्त्वार्थ श्लोकवार्तिके
[ सू० ४०
न च द्वीपसमुद्रादिविशेषाणां प्ररूपणं । निःप्रयोजनमाशंक्यं मनुष्याधारनिश्चयात् ॥ ४ ॥ कानि पुनर्निमित्तानि तवीपसमुद्रविशेषेषूत्पद्यमानानां मनुष्याणामित्याह;-- नानाक्षेत्रविपाकीनि कर्माण्युत्पत्तिहेतवः । संत्येव तद्विशेषेषु पुद्गलादिविपाकवत् ॥ ५॥
यथा पुद्गलेषु शरीरादिलक्षणेषु विवेचनशीलानि पुद्गलविपाकीनि कर्माणि शरीरनामादीनि यथा च भवविपाकीनि नारकायुरादीनि जीवविपाकीनि च सद्वद्यादीनि तथा तत्रोत्पत्तौ मनुष्याणामन्येषां च प्राणिनां हेतवः संति तद्वन्नानाक्षेत्रेषु विवेचनशीलानि क्षेत्रविपाकीन्यपि कर्माणि संति तत्र तत्रोत्पत्तौ तेषां हेतव इति तदाधारविशेषाः सर्वे निरूपणीया एव ॥ तदप्ररूपणे जीवतत्त्वं न स्यात् प्ररूपितं । विशेषेणेति तज्ज्ञानश्रद्धाने न प्रसिद्ध्यतः ॥६॥ तन्निबंधनमक्षुण्णं चारित्रं च तथा क नु । मुक्तिमार्गोपदेशो नो शेषतत्त्वविशेषवाक् ॥ ७॥
तेषां हि द्वीपसमुद्रविशेषाणामप्ररूपणे मनुष्याधाराणां नारकतिर्यग्देवाधाराणामप्यप्ररूपणप्रसंगान्न विशेषेण जीवतत्त्वं निरूपितं स्यात् , तन्निरूपणाभावे च न तद्विज्ञानं श्रद्धानं च सिद्ध्येत् , तदसिद्धौ श्रद्धानज्ञाननिबंधनमक्षुण्णं चारित्रं च क नु संभाव्यते ? मुक्तिमार्गश्च कैवं ? शेषाजीवादितत्त्ववचनं च नैवं स्यात् । ततो मुक्तिमार्गोपदेशमिच्छता सम्यग्दर्शनज्ञानचारित्राण्यभ्युपगंतव्यानि । तदन्यतमापाये मुक्तिमार्गानुपपत्तेः, तानि चाभ्युपगच्छता तद्विषयभावमनुभवत् जीवतत्त्वमजीवादितत्त्ववत् प्रतिपत्तव्यं । तत्प्रतिपद्यमाने च तद्विशेषा आधारादयः प्रतिपत्तव्याः । इति युक्तं द्वीपसमुद्रादिसन्निवेशादिविशेषमरूपणमध्यायेऽस्मिन् ॥ अत्रापरः प्राह;
ननु द्वीपादयो धीमद्धेतुकाः संतु मूत्रिताः । सन्निवेशविशेषत्वसिद्धेर्घटवदित्यसत् ॥ ८ ॥ हेतोरीश्वरदेहेनानेकांतादिति केचन । तत्रापरे तु मन्यते निर्देहेश्वरवादिनः ॥९॥ निमित्तकारणं तेषां नेश्वरस्तत्र सिद्ध्यति । निर्देहत्वाद्यथा मुक्तः पुरुषः सम्मतः स्वयं ॥१०॥ विवादाध्यासिता द्वीपादयो बुद्धिमत्कारणकाः सन्निवेशविशेषत्वात् घटवदिति कश्चित् । तदसत् । हेतोरीश्वरशरीरेण विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुत विश्वतस्पात् । संबाहुभ्यां धमति संपतत्रैवाभूमी जनयन् देव एक इत्यागमप्रसिद्धेनानेकांतादिति । अपरे नेश्वरस्य शरीरमस्ति हेतोर्व्यभिचारश्चोद्यत इति मन्यते तेषां "अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः । स वेत्ति विश्वं न हि तस्य वेत्ता तमाहुरग्र्यं पुरुषं महांत" इत्यागमं प्रमाणयतां नेश्वरस्तत्र निमित्तकारणं सिद्ध्यति निर्देहत्वात् स्वयं संमतमुक्तात्मवत् । ननु च मुक्तात्मनामज्ञत्वान्न जगदुत्पत्तौ निमित्तत्वं ईश्वरस्य तु निर्देहस्यापि नित्यज्ञानत्वात्तु निमित्तकारणत्वमेवेति चेत्नित्यज्ञानत्वतो हेतुरीश्वरो जगतामिति । न युक्तमन्वयासत्त्वाद्व्यतिरेकाप्रसिद्धितः ॥ ११ ॥
ननु नित्यज्ञानत्वादित्येतस्य हेतोरन्वयसत्त्वेपि न व्यतिरेकसत्त्वं जगदकारणस्यास्मदादेर्नित्यज्ञानत्वाभावादिति न मंतव्यं, ज्ञानसंतानापेक्षयास्मदादेरपि नित्यज्ञानत्वात् । न हि ज्ञानसामान्यरहितोमदादिः संभवति, विरोधात् । यदि पुनर्ज्ञानविशेषापेक्षया नित्यज्ञानत्वं हेतुस्तदा न सिद्ध इत्याह ;
बोधोन वेधसो नित्यो बोधत्वादन्यबोधवत् । इति हेतोरसिद्धत्वान वेधाः कारणं भुवः ॥ १२ ॥
बोधत्वं च स्यादीश्वरबोधस्य नित्यत्वं च स्याद्विरोधाभावादस्मादृशविशेषत्वादीश्वरस्य विशिष्टबोधोपपत्तेः अन्यथा सर्वज्ञत्वसिद्धिविरोधात् इति कश्चित् । सोप्ययुक्तवादी, तद्बोधस्य प्रमाणत्वे ततोऽपरस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org