________________
३५९
तृतीयोऽध्यायः। सर्वगता प्रतिनियतपदार्थाश्रयत्वात् , स्यान्मूर्तिमती मूर्तिमद्रव्यपरिणामत्वात् , स्यादमूर्ता गगनाद्यमूर्तद्रव्यपरिणामात्मिकेति नित्यसर्वगतामूर्तखभावा सर्वथा ब्राह्मणत्वादिजातिरयुक्ता प्रमाणेन बाध्यमानत्वात् इति सूक्तं ॥ तदेवं
सार्धद्विद्वीपविष्कंभप्रभृति प्रतिपादितं । समनुष्यं चतुष्ट्या च सूत्राणामिति गम्यते ॥ १३ ॥ काः पुनः कर्मभूमयः काश्च भोगभूमय इत्याह;
भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः ॥३८॥ ___ कर्मभूमय इति विशेषणानुपपत्तिः सर्वत्र कर्मणो व्यापारादिति चेन्न वा, प्रकृष्टगुणानुभवनकर्मोपाजिंतनिर्जराधिष्ठानोपपत्तेः षटुर्मदर्शनाच्च । अन्यत्रशब्दः परिवर्जनार्थः । शेषास्ता भोगभूमय इति सामर्थ्याद्गम्यत इत्यावेदयति
भरताद्या विदेहांताः प्रख्याताः कर्मभूमयः । देवोत्तरकुरूस्त्यक्त्वा ताः शेषा भोगभूमयः॥१॥ सामथ्योदवसीयंते सूत्रेस्सिन्नागता अपि । समुद्रद्वितयं यद्वत्पूर्वसूत्रोक्तशक्तितः ॥२॥
सार्धद्वीपद्वयप्रतिपादनसूत्रे वचनसामर्थ्यादश्रूयमाणस्यापि समुद्रद्वितयस्य यथावसायो जंबूद्वीपलवणोदादिद्वीपसमुद्राणां पूर्वपूर्वपरिक्षेपित्ववचनात् तथास्मिन् सूत्रेनुक्तानामपि भोगभूमीनां निश्चयः स्यात् । भरतैरावतविदेहा देवकुरूत्तरकुरुभिर्वर्जिताः कर्मभूमय इति वचनसामर्थ्यात् देवकुरूत्तरकुरवः शेषाश्च हैमवतहरिरम्यकहैरण्यक्ताख्या भूमयः कर्मभूमिविलक्षणत्वाद्भोगभूमय इत्यवसीयंते ॥ अथ तन्निवासिनां नृणां के परावरे स्थिती भवत इत्याह;
नृस्थिती परावरे त्रिपल्योपमांतर्मुहूर्ते ॥ ३९ ॥ यथासंख्यमभिसंबधस्त्रिपल्योपमा परा नृस्थितिरंतर्मुहूर्तावरा इति । मध्यमा नृस्थितिः केल्याह;परावरे विनिर्दिष्टे मनुष्याणामिह स्थिती । त्रिपल्योपमसंख्यांतर्मुहूर्तगणने बलात् ॥१॥ मध्यमा स्थितिरेतेषां विविधा विनिवेदिता । खोपात्तायुर्विशेषाणां भावात्सूत्रेत्र तादृशां ॥२॥ तिरश्चां के परावरे स्थिती स्यातामित्याह;
तिर्यग्योनिजानां च ॥४०॥ त्रिपल्योपमांतर्मुहूर्ते इति वर्तते, पृथग्योगकरणं यथासंख्यनिवृत्त्यर्थे । एकयोगकरणे हि नृस्थिती इति निर्देशे नृस्थितिः परा त्रिपल्योपमा, तिर्यस्थितिरवरान्तर्मुहूर्तेति यथासंख्यमभिसंबंधः प्रसज्येत । ततस्तन्निवृत्तिः पृथग्योगकरणात् । तिर्यामकर्मोदयापादितजन्म तिर्यग्योनिस्तत्र जातास्तिर्यग्योनिजाः एकेंद्रियविकलेंद्रियपंचेंद्रियविकल्पास्त्रिविधाः तेषां च यथागमं मध्यमा स्थितिः सामर्थ्यलभ्या प्रतिपत्तव्या परावरस्थितिवत् । किमर्थमिहोक्ते तिरश्चां परावरे स्थिती प्रकरणाभावेपीत्यादर्शयति;
ते तिर्यग्योनिजानां च संक्षेपार्थमिहोदिते । स्थिती प्रकरणाभावेप्येषां सूत्रेण सूरिभिः ॥१॥ नन्धसंख्येयेष्वपि द्वीपसमुद्रेषु दृष्टेषु सार्धद्वीपद्वयप्रपंचं निरूपयतः सूत्रकारस्य किं चेतसि स्थितमित्याह;सार्धद्वीपद्वये क्षेत्र विभागादिनिरूपणं । अध्यायेसिनसंख्येयेष्वपि द्वीपेषु यत्कृतं ॥२॥ मनुष्यलोकसंख्या या जिज्ञासविषया मुनेः । तेन निर्णीयते सद्भिरन्यत्र तदभावतः ॥३॥ ननु च जीवतत्त्वप्ररूपणे प्रकृते किं निरर्थकं द्वीपसमुद्रविशेषनिरूपणमित्याशंका निवारयति;
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org