________________
३५८
तत्त्वार्थश्लोकवार्तिके
[ सू० ३७ प्रसिद्धस्यान्यनारोप्यो हि कल्पना दृष्टा विकल्पमात्रस्था गत्यंतराभावात् उभयथाचार्येतरभावकल्पनायां वास्तवस्तद्भावसिद्धेः प्रधानाद्वैतादिकल्पनानामपि हि निर्बीजानामनुपपतिरेव सत्त्वरजस्तमसां साम्यवास्तवस्य प्रधानत्वेन नराधिपादौ प्रसिद्धेनाध्यारोपस्य प्रधानकल्पनत्वात् । क्वचिच्चैकत्वस्याद्वैतस्य प्रमाणतः सिद्धस्य सर्ववस्तुष्वध्यारोपणस्याद्वैतकल्पनात्वादन्यथा तदसंभवात् । कथं वा कचित्संप्रदायात् पारमार्थिकी ध्यवस्थामाचक्षाणो मनुष्येष्वेवार्येतरभावव्यवस्थां काल्पनिकीमाचक्षीत, प्रमाणांतराविषयत्वादिति चेत् । न, आर्यम्लेच्छव्यवस्थाया गुणदोषनिबंधनायाः प्रत्यक्षानुमानाभ्यामिति प्रसिद्धरतः । तथाहि-खसंतानवर्तिनी हि मनुष्याणां आर्यत्वव्यवस्थितिः सम्यग्दर्शनादिगुणनिबंधना म्लेच्छव्यवस्थितिश्च मिथ्यात्वादिदोषनिबंधना खसंवेदनसिद्धा खरूपवत् । संतानांतरवर्तिनी तु सा व्यापारव्याहाराकारविशेषस्य कार्यस्य विनिश्चयादनुमेया चेति न प्रमाणांतरागोचरा प्रत्यक्षानुमानाभ्यां प्रसिद्धायां च गुणनिबंधनायामार्यत्वव्यवस्थायां कासुचित् मनुष्यव्यक्तिषु युगादावव्यवच्छिन्नसंतानास्तथाभूतगुणैरर्यमाणा जात्यार्याः प्रसिद्धा भवंति क्षेत्राचार्यवत् ॥
तथा म्लेच्छाःनित्यसर्वगतामूर्तस्वभावा सर्वथा तु या । जाति ह्मण्यचांडाल्यप्रभृतिः कैश्चिदीर्यते ॥११॥
सा न सिद्धा प्रमाणेन बाध्यमाना कदाचन । ब्राह्मणत्वादिजातिः सर्वगता सर्वत्र खप्रत्ययहेतुत्वादाकाशवत् सत्तावद्वा, तथा नित्या सर्वदोत्पादकविनाशककारणरहितत्वात् तद्वदेव इत्येके । तेत्र प्रष्टव्याः, सा सर्वगता सती व्यत्यंतराले कस्मात्स्वप्रत्ययं नोत्पादयतीति ? खव्यंजकविशेषाभावादनभिव्यक्तत्वादिति चेन्न, तदभिव्यक्तेः साकल्येन करणे क्वचिदुपलंभे सर्वत्रोपलंभप्रसंगात् , देशतः करणे सावयवत्वप्रसक्तेः । ननु च कायेनाभिव्यक्तावपि जातेन सर्वत्रोपलंभः सामग्र्यभावात् खव्यक्तिदेश एव हि तदुपलंभसामग्री प्रतीता इंद्रियमनआकाशादिवत् नच व्यक्त्यंतराले सास्तीति केचित् । तदप्यसंगतं, घटादेरेवं सर्वगतत्वप्रसक्तेः । शक्यं हि वक्तुं घटादीनां सर्वगतत्वेपि न सर्वत्रोपलंभः सामग्र्यभावात् कपालादिदेश एव हि तदुपलंभसामग्री न च सा सर्वत्रास्तीति कपालादेरप्यवयविनः सर्वगतत्वेपि न सर्वत्रोपलंभः सावयवोपलंभसामग्र्यभावादित्येवमनंतशः परमाणूनामनवयवित्वादसर्वगतत्वे सर्वत्रोपलंभाभावात्ययानुयोगनिवृत्तिरिति । यदि पुनर्घटादेः सर्वगतत्वकल्पनाया प्रत्यक्षविरोधः प्रतिनियतसंस्थानस्य प्रत्यक्षत्वात् अनुमानविरोधश्च । न सर्वगतो घटादिः सावयवत्वात् मूर्तिमत्त्वात् परमाणुवत् इत्यनुमानादसर्वगतत्वसिद्धेरिति मतं, तदा जातिसर्वगतत्वकल्पनायामपि स एव प्रत्यक्षादिविरोधः सादृश्यलक्षणाया एव जातेरसर्वगतायाः प्रतिनियतव्यक्तिगतायाः प्रत्यक्षत्वात् । तथा न जातिः सर्वगता प्रतिनियतव्यक्तिपरिणामत्वाद्विशेषवदित्यनुमानाजातेरसवंगतत्वसिद्धेः । कुतः पुनः सादृश्यलक्षणं सामान्यं सिद्धमिति चेत्. सिद्धं सादृश्यसामान्यं समाना इति तद्हात् । कुतश्चित्सदृशेष्वेव मनुष्येषु गवादिवत् ॥ १२ ॥
स एवं मनुष्य इति प्रत्ययान्न समाना इति तद्रहोस्ति यतः सादृश्यसामान्यं सिद्धयेदिति चेत् न, सदृशे मनुष्यादौ स एवायमिति प्रत्ययस्योपचरितैकत्वविषयत्वात् । द्विविधं ह्येकत्वं मुख्यमुपचरितं च, मुख्यमूर्खतासामान्यमुपचरितं तिर्यक् सामान्यं सादृश्यमिति सुनिश्चितमन्यत्र । सा पुनर्ब्राह्मणत्वादि जाति:कांततो नित्या शक्या व्यवस्थापयितुमनित्यव्यक्तितादात्म्यात् , सर्वथा तस्यास्तदतादात्म्ये वृत्तिविकल्पानवस्थादिदोषानुषंगात् । नाप्येकांतेनामूर्ता मूर्ततादात्म्यविरोधात् । ततः स्यान्नित्या जातिनित्यसादृश्यरूपत्वात् , स्यादनित्या नश्वरसादृश्यखभावत्वात् , स्यात्सर्वगता सर्वपदार्थान्वयित्वात् , स्याद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org