________________
तृतीयोऽध्यायः।
३५७ विशेषर्धिप्राप्ता हि बीजबुद्ध्यादयः, तपोविशेषर्धिप्राप्तास्तप्ततपःप्रभृतयः, विक्रियाविशेषर्धिप्राप्ता एकत्वविक्रियादिसमर्थाः, औषधविशेषर्धिप्राप्ताः जल्लौषधिप्राप्तादयः, रसर्धिप्राप्ताः क्षीरस्राविप्रभृतयः, बलविशेषर्धिप्राप्ता मनोबलप्रभृतयः, अक्षीणविशेषर्धिप्राप्ताः पुनरक्षीणमहालयादय इति । अन्ये त्वाहुः ऋद्धिप्राप्तार्या अष्टविधाः बुद्धिक्रियाविक्रियातपोबलौषधरसक्षेत्रभेदादिति । ते कुतः संभाव्या इत्याह;• संभाव्यंते च ते हेतुविशेषवशवर्तिनः । केचित्प्रकृष्यमाणात्मविशेषत्वात्प्रमाणवत् ॥४॥ ___यथा परिमाणमापरमाणोः प्रकृष्यमाणखरूपमाकाशे परमप्रकर्षपर्यंतप्राप्तं सिद्ध्यत्तदंतराले अनेकधा परिमाणप्रकर्ष साधयति तथा सर्वजघन्यज्ञानादिगुणर्षिविशेषादारभ्यर्धिविशेषः प्रकृष्यमाणखरूपं परमप्रकर्षपर्यंतमामुवन्नंतरालर्षिविशेषप्रकर्ष साधयतीति संभाव्यते सर्वे बुद्ध्यतिशयर्धिविशेषादयः परमागमप्रसिद्धाश्चेति न किंचिदनुपपन्नं ॥ के पुनरसंप्राप्तर्धय इत्यावेदयति;
असंप्राप्तर्धयः क्षेत्राद्यार्या बहुविधाः स्थिताः । क्षेत्राद्यपेक्षया तेषां तथा निर्णीतियोगतः ॥५॥
क्षेत्रार्या, जात्यार्याः, कर्माश्चिारित्रार्या, दर्शनार्याश्चेत्यनेकविधाः क्षेत्राद्यपेक्षया अनृद्धिप्राप्तार्याः प्रत्येतव्या तथा प्रतीतियोगात् ।।
के पुनर्लेच्छा इत्याह;तथा तद्द्वीपजा म्लेच्छाः परे स्युः कर्मभूमिजाः।आद्याः षण्णवतिः ख्याता वार्धिद्वयतटद्वयोः ६
म्लेच्छा द्विविधाः अंतर्वीपजाः कर्मभूमिजाश्च । तत्राद्यास्तावल्लवणोदस्योभयोरष्टचत्वारिंशत् तथा कालोदस्य इति षण्णवतिः ॥
ते च केचिद्भोगभूमिसमप्रणिधयः परे कर्मभूमिसमप्रणिधयः श्रूयमाणाः कीदृगायुरुत्सेधवृत्तय इत्याचष्टे;भोगभूम्यायुरुत्सेधवृत्तयोर्भोगभूमिभिः । समप्रणिधयः कर्मभूमिवत्कर्मभूमिभिः ॥७॥
भोगभूमिभिः समानप्रणिधयोंतीपजा म्लेच्छा भोगभूम्यायुरुत्सेधवृत्तयः प्रतिपत्तव्याः, कर्मभूमिभिः समप्रणिधयः कर्मभूम्यायुरुत्सेधवृत्तयस्तथा निमित्तसद्भावात् ॥
अथ के कर्मभूमिजा म्लेच्छा इत्याह;कर्मभूमिभवा म्लेच्छाः प्रसिद्धा यवनादयः । स्युः परे च तदाचारपालनाद्बहुधा जनाः॥८॥ कुतः पुनरेवमार्यम्लेच्छव्यवस्थेत्याह;संप्रदायाव्यवच्छेदादार्यम्लेच्छव्यवस्थितिः। संतानेन विनिश्चेया तद्विद्भिर्व्यवहारिभिः॥९॥ वयं संवेद्यमाना च गुणदोषनिबंधना । कथंचिदनुमेया च तत्कार्यस्य विनिश्चयात् ॥ १० ॥ न संप्रदायाव्यवच्छेदोऽसिद्धस्तद्विदां नास्तिकसंप्रदायाव्यवच्छेदवत् , नाप्यप्रमाणं सुनिश्चितासंभवद्वाधकत्वात्तद्वत् । ततः संतानेनार्यम्लेच्छव्यवस्थितिस्तद्विद्भिर्निश्वेतव्या । नास्तिकसंतानव्यवस्थितिवत् । सर्वः सर्वदार्यत्वम्लेच्छत्वशून्यो मनुष्यसंतान इत्यत्रापि संप्रदायाव्यवच्छेद एव नास्तिकानां शरणं प्रत्यक्षस्यानुमानस्य च तत्राव्यापारात् । यथा चाहं नास्तिकस्तथा सर्वे पूर्वकालवर्तिनो नास्तिका जात्यादिव्यवस्थानिराकरणपरा इत्यपि संप्रदायादेवाविच्छिन्नादवगंतव्यं नान्यथा । अयमेव संप्रदायः प्रमाणं न पुनरार्यम्लेच्छव्यवस्थितिप्रतिपादक इति मनोरथमात्र प्रतीत्यभावात् । जातमात्रस्य जंतोरार्येतरभावशून्यस्य प्रतीतेः प्रमाणं तद्भावाभावविषयः संप्रदाय इति चेन्न, तस्याप्यार्येतरभावप्रसिद्धेरन्यथा व्यवहारविरोधात् । कल्पनारोपितस्तव्यवहार इति चेत्, तन्निर्बीजायाः कल्पनाया एवासंभवात् कचित्कस्यचित्तत्त्वतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org