________________
३५६ तत्त्वार्थश्लोकवार्तिके
[सू० ३७ स्त्वर्थाविरोधेन तद्विशेषान् सूत्रसामर्थ्याल्लब्धानाचक्षाणा नोत्सूत्रवादितां लभंते 'व्याख्यानतो विशेष. प्रतिपत्तिर्न हि संदेहादलक्षणम्' इति वचनात् । ननु च धातकीखंडे द्वौ भरतौ द्वौ हिमवंतावित्यादि. द्रव्याभ्यावृत्तौ द्विरित्यत्र सूत्रसंभव इति चेन्न, मीयंत इति क्रियाध्याहारात् । द्विस्तावानिति यथा, तेन धातकीखंडे भरतादिवर्षो हिमवदादिवर्षधरश्च हृदादिश्च द्विर्मीयत इति सूत्रितं भवति । कियान् पुनर्धातकीखंडे भरतस्य विष्कंभ इत्युच्यते-षट्षष्टिशतानि चतुर्दशानि योजनानामेकान्नत्रिंशच्च भागाः । शतयोजनस्याभ्यंतरविष्कंभः । सैकाशीतिपंचशताधिकद्वादशसहस्राणि षट्त्रिंशच्च भागा योजनस्य मध्यविष्कंभः । सप्तचत्वारिंशत्पंचशताधिकाष्टादशसहस्राणि योजनानां पंचपंचाशच्च भागाः शतयोजनस्य बाह्यविष्कभः । वर्षाद्वर्षश्चतुर्गुणविस्तार आविदेहात् । वर्षधराद्वर्षधर आनिषधात् । उत्तरा दक्षिणतुल्या इति च विज्ञेयं । भरतैरावतविभाजिनौ च दक्षिणोत्तरायतौ लवणोदकालोदस्पर्शिनौ लवणोदाइक्षिणोत्तराविष्वाकारगिरी प्रतिपत्तव्यौ । धातकीखंडवलयपूर्वापरविभागमध्यगौ मेरू च ॥ अथ पुष्कराधै कथं भरतादिर्मीयते तद्विष्कंभाश्चेत्याह;
पुष्कराधं च ॥ ३५॥ संख्याभ्यावृत्त्यनुवर्तनार्थश्चशब्दः । धातकीखंडवत्पुष्करार्धे च भरतादयो द्विर्मीयते । तत्रैकाशीत्युत्तरपंचशताधिकैकचत्वारिंशद्योजनसहस्राणि सत्रिसप्ततिभागशतं च भरतस्याभ्यंतरविष्कंभः, द्वादशपंचशतोत्तराणि त्रिपंचाशद्योजनसहस्राणि नवनवत्यधिकं च भागशतं योजनस्य मध्यविष्कंभः, द्वाचत्वारिंशच्चतुःशतोत्तरपंचषष्टिसहस्राणि त्रयोदश च भागा योजनस्य बाह्यविष्कंभः । वर्षाद्वर्षश्चतुर्गुणविस्तार
आ विदेहात् । वर्षधराद्वर्षधरश्वा निषधात् । मानुषोत्तरशैलेन विभक्तार्धत्वात् पुष्करार्धसंज्ञा, पुष्करद्वीपस्याधै हि पुष्करार्धमिति प्रोक्तं । अत्र धातकीखंडवर्षधराश्चक्रारवदवस्थितास्तदंतरालवद्वर्षाः । कालोदमानुषोत्तरशैलस्पर्शिनाविष्वाकारगिरी दक्षिणोत्तरौ पूर्ववद्वेदितव्यौ । पुष्करार्धवलयपूर्वापरविभागमध्यवतिनौ मेरू चेति प्रपंचः सर्वस्य विद्यानंदमहोदयैः प्रतिपादितोवगंतव्यः । तदेवं
जंबूद्वीपगवर्षादिविष्कंभादिरशेषतः । सदा द्विर्धातकीखंडे पुष्करार्धे च मीयते ॥१॥ एकेनैकेन सूत्रेणोक्तं यथोदितसूत्रवचनात् । कस्मात् पुनः पुष्करार्धनिरूपणमेव कृतमित्याह;
प्राड्यानुषोत्तरान्मनुष्याः॥ ३६॥ न परतो यस्मादित्यभिसंबंधः । मनुष्यलोको हि प्रतिपादयितुमुपक्रांतः स चेयानेव ॥ यद्येवं किंप्रकारा मनुष्यास्तत्रेत्याह;
आर्या म्लेच्छाश्च ॥ ३७॥ एतदेव प्ररूपयतिप्रामानुषोत्तराद्यसान्मनुष्याः परतश्च न । आर्याम्लेच्छाश्च ते ज्ञेयास्तादृकर्मबलोद्भवाः ॥ १॥ उच्चैर्गोत्रोदयादेरार्या, नीचेर्गोत्रादेश्च म्लेच्छाः ॥ प्राप्तर्णीतरभेदेन तत्रार्या द्विविधाः स्मृताः । सद्गुणैरर्यमाणत्वाद्गुणवद्भिश्व मानवैः ॥ २॥ तत्र प्राप्तर्द्धयः सप्तविधर्धिमधिसंसृताः । बुद्ध्यादिसप्तधा नाना विशेषास्तद्विशेषतः ॥३॥
ऋद्धिप्राप्तार्याः सप्तविधाः सप्तविधर्द्धिमासृता हि ते । सप्तविधर्धिः पुनर्बुद्ध्यादिस्तथाहि-बुद्धितपोविक्रियौषधरसबलाक्षीणर्द्धयः सप्त प्रज्ञापिताः नाना विशेषाश्च प्राप्तधयो भवंत्यार्यास्तद्विशेषात् । बुद्धि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org