________________
•
तृतीयोऽध्यायः ।
३५५
नयोस्तदविषयत्वेन तद्बाधकत्वायोगात् प्रवचनैकदेशस्य च तद्वाधकस्याभावात् आगमांतरस्य च तद्ब (धकस्याप्रमाणत्वात् । तत एव सूत्रद्वयेन भरतैरावतयोस्तदपरभूमिषु च स्थितेर्भेदस्य वृद्धिह्रासयोगायोगाभ्यां विहितस्य प्रकथनं न बाध्यते, तथा संभवात् अन्यथाभावादेकप्रमाणाभावाच्चेति पर्याप्तं प्रपंचेन ॥ अथ भरतैरावताभ्यामपरा भूमयः किंस्थितय इत्याह ;
एकद्वित्रिपल्योपमस्थितयो हैमवतकहरिवर्षक दैवकुरवकाः ॥ ३० ॥ हिमवतादिभ्यो भवार्थेषु महाहैमवतकादीनां द्वंद्वे सति हैमवतकस्यानुपूर्व्यप्रतिपत्त्यर्थः पूर्वनिपातः । एकादीनां हैमवतकादिभिर्यथासंख्यं संबंधः, तेनैकपल्योपमस्थितयो हैमवतका, द्विल्योपमस्थितयो हारिवर्षकाः, त्रिपल्योपमस्थितयो दैवकुरवका इत्युक्तं भवति ॥
विदेहादुत्तराः कथमित्याह ; -
तथोत्तराः ॥ ३१ ॥
हैरण्यवतक रम्यकोत्तरकुरवका एकद्वित्रिपल्योपमस्थितयो हैमवतकादिवदित्यर्थः ॥ विदेहेषु किंकाला मनुष्या इत्याह;
विदेहेषु संख्येयकालाः ॥ ३२ ॥
संख्येयः कालो येषां ते संख्येयकालाः संवत्सरादिगणनाविषयत्वात्तत्कालस्य || अथ प्रकारांतरेण भरतविष्कंभप्रतिपत्त्यर्थमाह; —
भरतस्य विष्कंभो जंबूद्वीपस्य नवतिशतभागः ॥ ३३ ॥
नवत्याधिकं शतं नवतिशतं नवतिशतेन लब्धो भागो नवतिशतभागः । अत्र तृतीयांतपूर्वादुत्तरपदे लोपश्चेत्यनेन वृत्तिर्दध्योदनादिवत् । स पुनर्भवति शतभागो जंबूद्वीपस्य पंचयोजनशतानि षडिशानि षट्चैकान्नविंशतिभागा योजनस्येत्युक्तं वेदितव्यं । पुनर्भरत विष्कंभवचनं प्रकारांतर प्रतिपत्त्यर्थमुत्तरार्थं वा । तदेवं
तत्क्षेत्रवासिनां नृणां सायुषः स्थितिरीरिता । सूत्रत्रयेण विष्कंभो भरतस्यैकसूत्रतः ॥ १ ॥ तन्नृणामित्युपलक्षणात्तिरश्चामपि स्थितिरुक्तेति गम्यते ॥
धातकीखंडे भरतादिविष्कंभः कथं प्रमीयत इत्याह ;
द्विर्घातकीखंडे ॥ ३४ ॥
ननु च जंबूद्वीपानंतरं लवणोदो वक्तव्यस्तदुल्लंघने प्रयोजनाभावादिति चेन्न, जंबूद्वीपभरतादिद्विगुणधातकीखंडभरतादिप्रतिपादनार्थत्वात्, लवणोदवचनस्य सामर्थ्यलब्धत्वाच्च । महीतलमूलयोर्दशयोजनसहस्रविस्तारो लवणोदः तन्मध्ये दिक्षु पातालानि योजनशतसहस्रावगाहानि, विदिक्षु क्षुद्रपातालानि दशयोजनसह स्रावगाहानि, तदंतरे क्षुद्रपातालानां योजन सहस्रावगाहानां सहस्रं । दिक्षु वेलंधरनागाधिपतिनगराणि चत्वारि द्वादशयोजन सहस्रायामविष्कंभो गौतमद्वीपश्चेति श्रूयते । ननु च पूर्वपूर्वपरिक्षेपिद्वीपसमुद्रप्रकाशकस्तत्र सामर्थ्याज्जंबूद्वीपपरिक्षेपी लवणोदो ज्ञायते सामान्यत एव । तद्विशेषास्तु कथमनुक्ता इहावसीयत इति न शंकनीयं, सामान्यगतौ विशेषसद्भावगतेः सामान्यस्य स्वविशेषाविनाभावि - त्वात् संक्षेपतः सूत्राणां प्रवृत्तेः सूत्रैस्तद्विशेषानभिधानं जंबूद्वीपादिविशेषानभिधानवत् । वार्तिककारादय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org