________________
३५४ तत्त्वार्थश्लोकवार्तिके
[सू० २९ अथ गंगादयः प्रोक्ताः सरितः क्षेत्रमध्यगाः । पूर्वापरसमुद्रांतःप्रवेशिन्यो यथागमं ॥१॥ परिवारनदीसंख्याविशेषसहिताः पृथक् चतुर्दश चतुःसूत्र्या नासंभाव्या कथंचन संभाव्यं । तत एव हि गंगासिंध्वादयो महानद्यो यथागममायामविष्कंभावगाहैरपरैश्च विशेषैस्तदधिकरणस्य महत्वादिहास्ति कासांचिन्नदीनां सरय्वादीनां महाविस्ताराणामुपलंभात् कस्यचिद्वाधकस्यासंभवात् ॥ अथ कियद्विष्कंभो भरतो वर्ष इत्याह;भरतः षड्विंशतिपंचयोजनशतविस्तारः षट् चैकोनविंशतिभागा
योजनस्य ॥ २५ ॥ भरतविष्कंभस्योत्तरत्र वचनादिहावचनमिति चेन्न, जंबूद्वीपनवतिशतभागस्येयत्ताप्रतिपादनार्थत्वादेतत्सूत्रस्य तत्संख्यानयनोपायप्रतिपत्त्यर्थत्वात् ॥ अतोन्ये वर्षधरादयः किंविस्तारा इत्याह;
तद्विगुणदिगुणविस्तारा वर्षधरवर्षा विदेहांताः॥ २६ ॥ वर्षधरशब्दस्य पूर्वनिपातस्तदानुपूर्व्यप्रतिपत्त्यर्थः वर्णानामानुपूर्येण इति निरुक्तिकारवचनस्यास्य मानाक्षुराणामन्येषामपि यथाभिधानमानानुपूर्येण पूर्वनिपातप्रतिपादनार्थत्वात् तथा प्रायः प्रयोगदर्शनात् । विदेहांतवचनं मर्यादाथै तेन भरतविष्कंभाविगुणविष्कंभो हिमवान् वर्षधरः, ततो हैमवतो वर्षः, ततो महाहिमवान् वर्षधरः, ततो हरिवर्षः, ततो निषधो वर्षधरस्ततोऽपि विदेहो वर्ष इत्युक्तं भवति ॥ परे वर्षधरादयः किंविस्तारा इत्याह;
उत्तरा दक्षिणतुल्याः ॥ २७॥ निषधेन तुल्यो नीलो वर्षधरः, हरिणा रम्यको वर्षः, महाहिमवता रुक्मीवर्षधरः, हैमवतेन हैरण्यवतो वर्षः, हिमवता शिखरी वर्षधरः, भरतेन दक्षिणेनोत्तर ऐरावत इति योज्यं ॥
अथ भरतैरावतयोरनवस्थितत्वप्रतिपत्त्यर्थमाह;भरतैरावतयोवृद्धिहासौ षट्समयाभ्यामुत्सर्पिण्यवसर्पिणीभ्याम् ॥ २८ ॥
तास्थ्यात्तच्छब्दासिद्धर्भरतैरावतयोवृद्धिहासयोगः अधिकरणनिर्देशो वा, तत्रस्थानां हि मनुष्यादीनामनुभवायुःप्रमाणादिकृतौ वृद्धिहासौ षट्कालाभ्यामुत्सर्पिण्यवसर्पिणीभ्यां । तत्रानुभवादिभिरुत्सर्पणशीला उत्सर्पिणी तैरेवावसर्पणशीलावसर्पिणी । षटालाः पुनरुत्सर्पिण्यां दुःषमदुःषमादयोऽवसर्पिण्यां सुषमसुषमादयः प्रतिपत्तव्याः ॥ अथ भरतैरावताभ्यामपरा भूमयोवस्थिता एवेत्यावेदयति;-.
ताभ्यामपरा भूमयोऽवस्थिताः ॥ २९ ॥ तत्स्थप्राणिनामनुभवादिभिर्वृद्धिहासाभावात् षट्समययोरुत्सपिण्यवसर्पिण्योरसंभवादेकैककालत्वादवस्थिता एव ताभ्यामपरा भूमयोऽवगंतव्याः । तदेवं
वर्षवर्षधरावाध्यविष्कंभकथनं कृतं । सूत्रत्रयेण भूमीनां स्थितिभेदोदयेन तु ॥१॥ न हि भरतादिवर्षाणां हिमवदादिवर्षधराणां च सूत्रत्रयेण विष्कंभस्य कथनं बाध्यते प्रत्यक्षानुमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org