________________
३५३
तृतीयोऽध्यायः । तन्निवासिन्यो देव्यः काः किं स्थितयः परिवाराश्च श्रूयन्त इत्याह;तन्निवासिन्यो देव्यः श्रीहीतिकीर्तिबुद्धिलक्ष्म्यः पल्योपमस्थितयः
ससामानिकपरिषत्काः ॥ २०॥ . तेषु पुष्करेषु निवसनशीलास्तन्निवासिन्यः, देवगतिनामकर्मविशेषादुपजाता इति देव्यः श्रीप्रभृतयः
तत्र पद्महृदपुष्करप्रासादेषु । शेषहूदपुष्करप्रासादेषु हीप्रभृतयो यथाक्रमं निवसंतीति यथागमं वेदितव्यं । ताः पल्योपमस्थितयस्तावदापुष्करत्वेनोत्पत्तेः । सामानिकाः परिषदश्च वक्ष्यमाणलक्षणाः सह ताभिर्वर्तत इति ससामानिकपरिषत्काः । एतेन तासां परिवारविभूतिं कथितवान् । एतदेवाह;देव्यः श्रीमुखाः ख्याताः सूत्रेणैकेन सूचनात् । षडेव तन्निवासिन्यस्ता ससामानिकादयः १ गंगासिंधूरोहिद्रोहितास्या हरिद्धरिकांतासीतासीतोदानारीनरकां
तासुवर्णरूप्यकूलारक्तारक्तोदाः सरितस्तन्मध्यगाः ॥२१॥ सरितो न वाप्यः, तेषां भरतादिक्षेत्राणां मध्यं तन्मध्यं तद्गच्छंतीति तन्मध्यगा इत्यनेनान्यथागति गंगासिंध्वादीनां निवारयति । तत्र भरतक्षेत्रमध्ये गंगासिंध्वौ, हैमवतमध्यगे रोहिद्रोहितास्ये, हरिमध्यगे हरिद्धरिकांते, विदेहमध्यगे सीतासीतोदे, रम्यकमध्यगे नारीनरकांते, हैरण्यवतमध्यगे सुवर्णरूप्यकूले, ऐरावतमध्यगे रक्तारक्तोदे इति ॥ अथैतयोर्द्वयोः का पूर्वसमुद्रं गच्छतीत्याह;
द्वयोईयोः पूर्वाः पूर्वगाः ॥ २२ ॥ द्वयोर्द्वयोरेकक्षेत्रविषयगत्यभिसंबंधादेकत्र सर्वासां प्रसंगनिवृत्तिः, पूर्वाः पूर्वगा इति वचनं दिग्विशेषप्रतिपत्त्यर्थ ॥ अथापरं समुद्र का गच्छंतीत्याह;
शेषास्त्वपरगाः॥ २३ ॥ द्वयोर्द्वयोरेकत्रैकक्षेत्रे वर्तमानयोनद्योर्याः पूर्वास्ताभ्योन्याः शेषाः सरितोऽपरं समुद्रं गच्छंतीति । तत्र पद्महदप्रभवा पूर्वतोरणद्वारनिर्गता गंगा, अपरतोरणद्वारनिर्गता सिंधुः, उदीच्यतोरणद्वारनिर्गता रोहितास्या । महापद्महदप्रभवापाच्यतोरणद्वारनिर्गता रोहित् , उदीच्यतोरणद्वारनिर्गता हरिकांता । तिगिंछहदसमुद्भवा दक्षिणद्वारनिर्गता हरित् , उदीच्यतोरणद्वारनिर्गता सीतोदा । केसरिहदप्रभवा अपाच्यद्वारनिर्गता सीता, उदीच्यद्वारनिर्गता नारी । महापुंडरीकहूदप्रभवा दक्षिणद्वारनिर्गता नरकांता, उदीच्यद्वारनिर्गता रूप्यकूला । पुंडरीकहूदप्रभवा अपाच्यद्वारनिर्गता सुवर्णकूला, पूर्वतोरणद्वारनिर्गता रक्ता, प्रतीच्यद्वारनिर्गमा रक्तोदा ॥ अथ कियन्नदीपरिवृता एता नद्य इत्याह;
चतुर्दशनदीसहस्रपरिवृता गंगासिंध्वादयो नद्यः ॥ २४ ॥ गंगासिंध्वाद्यग्रहणं प्रकरणादिति चेन्न, अनंतरग्रहणप्रसंगात् । गंगादिग्रहणमिति चेन्न, पूर्वगाणां ग्रहणमसंगात् । नदीग्रहणात्सिद्धिरिति चेन्न, तस्योत्तरत्र द्विगुणाभिसंबंधनार्थत्वात् ॥ सर्वथैवासंभाव्या गंगादयो नद्यः सूत्रिता इति कस्यचिदारेका निराकर्तुं प्रक्रमते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org