________________
३५२ तत्त्वार्थश्लोकवार्तिके
[सू० १९ सूत्रेणेति पूर्वश्लोकादनुवृत्तिः परेणेति सूत्रविशेषणं तेन क्षेत्राभिधायिसूत्रात्परेण सूत्रेण हिमवदादयः षट् प्रधानाः पर्वताः प्रोक्ताः इति संबंधः कर्तव्यः । पूर्वपरायतास्तद्विभाजिन इति विशेषणद्वयवचनं हेमादिमयत्वमणिविचित्रपार्श्वत्वोपरि मूले च तुल्यविस्तारत्वविशेषणानामुपलक्षणार्थे । हेमादिमयाः मणिभिर्विचित्रपार्थाः तथोपरि मूले च तुल्यविस्ताराः प्रोक्ताः सूत्रत्रयेण ॥ तेषां हिमवदादीनामुपरि पद्मादिहदसद्भावनिवेदनार्थमाह;पद्ममहापद्मतिगिंछकेशरिमहापुंडरीकपुंडरीका ह्रदास्तेषामु.
परि ॥ १५॥ हिमवत उपरि पद्मो हृदः, महाहिमवतो महापद्मः, निषधस्य तिगिंछः, नीलस्य केशरी, रुक्मिणः महापुंडरीकः, शिखरिणः पुंडरीक इति संबंधो यथाक्रमं वेदितव्यः । पद्मादिजलकुसुमविशेषसहचरितत्वात् पद्मादयो हृदा व्यपदिश्यंते, तथा रूढिसद्भावाद्वा हिमवदादिव्यपदेशवत् ॥ पद्मादयो हदास्तेषामुपरि प्रतिपादिताः। सूत्रेणैकेन विज्ञेया यथागममसंशयम् ॥१॥ तत्र प्रथमो हृदः किमायामविष्कंभ इत्याह;
प्रथमो योजनसहस्रायामस्तदर्धविष्कंभो हृदः ॥ १६ ॥ सूत्रपाठापेक्षया प्रथमः पद्मो हृदः योजनसहस्रायाम इति वचनादन्यथा तदैर्ध्यव्यवच्छेदः, तदर्धविष्कंभ इति वचनात् पंचयोजनशतविष्कंभत्वप्रतिपत्तिरन्यथा तद्विस्तारनिरासः प्रतिपत्तव्यः ॥ किमवगाहोसावित्याह;
दशयोजनावगाहः ॥ १७॥ पृथग्योगकरणं सर्वहदासाधारणावगाहप्रतिपत्त्यर्थ ॥ संख्ययायामविष्कंभावगाहगतया हृदः। सूत्रद्वयेन निर्दिष्टः प्रथमः सर्ववेदिभिः॥१॥
सामर्थ्यादेकेन सूत्रेण हिमवदादीनामुपरि षट् पद्मादयो हूदा निर्दिष्टा इति गम्यते, तत्पाठापेक्षया पद्मस्य हृदस्य प्रथमत्ववचनात् ॥ अथ तन्मध्ये विशिष्टपरिणामं पुष्करं प्रतिपादयति
तन्मध्ये योजनं पुष्करम् ॥ १८॥ द्विकोशकर्णिकत्वादेकक्रोशबहलपत्रत्वाच योजनपरिमाणं योजनं पुष्करं जलकुसुमं तथानादिपरिणामाद्वेदितव्यम् । क तत् ? तस्य पद्महूदस्य मध्ये ॥ शेषहदपुष्करपरिणामप्रतिपादनार्थमाह;
तद्विगुणदिगुणा हृदाः पुष्कराणि च ॥ १९ ॥ ततः पद्मदात् पुंडरीकहूदाच द्विगुणद्विगुणा हृदा महापद्ममहापुंडरीकादयः, योजनपरिमाणाच्च पुष्करादक्षिणादुत्तरमाच्च द्विगुणद्विगुणानि पुष्कराणि विष्कंभायामानीति वीप्सानिर्देशात् संप्रतीयंते 'उत्तरा दक्षिणतुल्याः' इति वक्ष्यमाणसूत्रसंबंधत्वात् । तत्संबंधः पुनर्बहुवचनसामर्थ्यादन्यथा द्विवचनप्रसंगात् तद्विगुणौ द्विगुणाविति । तदेवं- . तन्मध्ये योजनं प्रोक्तं पुष्करं द्विगुणास्ततः । इदाश्च पुष्कराणीति सूत्रद्वितयतोंजसा ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org