________________
८५
प्रथमोऽध्यायः। सामर्थ्यादादिसूत्रे तन्निरुक्त्या लक्षितं यतः । चारित्रवत्ततो नोक्तं ज्ञानादेर्लक्षणं पृथक ॥७॥ यथा पावकशब्दस्योच्चारणात् संप्रतीयते । तदर्थलक्षणं तद्वज्ज्ञानचारित्रशब्दनात् ॥ ८॥ ज्ञानादिलक्षणं तस्य सिद्धेर्यत्नांतरं वृथा । शब्दार्थाव्यभिचारेण न पृथग्लक्षणं कचित् ॥९॥
नन्वेवं मत्यादीनां पृथग्लक्षणसूत्रं वक्तव्यं शब्दार्थव्यभिचारादिति न चोद्यं, कारणादिविशेषसूत्रैस्त• दर्थव्यभिचारस्य परिहृतत्वात् । सम्यग्दर्शनस्य लक्षणसूत्रमनर्थकमेवं स्यात् कारणविशेषसूत्रादेव तच्छब्दार्थस्य व्यभिचारपरिहरणादिति चेन्न, निसर्गाधिगमकारणविशेषस्य प्रशस्तालोचनेपि भावाध्यभिचारस्य तदवस्थानात् । न हि परोपदेशनिरपेक्षं निसर्गजं प्रशस्तालोचनं न संभवति परोपदेशापेक्षं वाधिगमजं प्रशस्तालोचनवदिति युक्तं सम्यग्दर्शनस्य पृथग्लक्षणवचनं शब्दार्थव्यभिचारात् , तदव्यभिचारे तद्वन्नान्यस्य मत्यादेानचारित्रवदेव ॥ इच्छा श्रद्धानमित्येके तदयुक्तममोहिनः । श्रद्धानविरहाशक्तेमा॑नचारित्रहानितः ॥ १० ॥
न ह्यमोहानामिच्छास्ति तस्य मोहकार्यत्वादन्यथा मुक्तात्मनामपि तद्भावप्रसंगात् । हेयोपादेययोर्जिहासोपादित्सा च विशिष्टा श्रद्धा वीतमोहस्यापि संभवति तस्या मनःकार्यत्वादिति चेन्न, तस्या मनस्कार्यत्वे सर्वमनस्विनां तद्भावानुषंगात् । ज्ञानापेक्षं मनः कारणमिच्छाया इति चेन्न, केषांचिन्मिथ्याज्ञानभावेप्युदासीनदशायां हेयेषूपादित्सानवलोकनात् उपादेयेषु च जिहासाननुभावात् , परेषां सम्यग्ज्ञानसद्भावेपि हेयोपादेयजिहासोपादित्साविरहात् । विषयविशेषापेक्षान्मनसस्तदिच्छाप्रभव इत्यपि न युक्तं, तदभावेपि कस्यचिदिच्छोत्पत्तेस्तद्भावेपि चेच्छानुद्भवात् । कालादयोनेनैवेच्छाहेतवो विध्वस्ताः, तेषां सर्वकार्यसाधारणकारणत्वाच्च नेच्छाविशेषकारणत्वनियमः । खोत्पत्तावदृष्टविशेषादिच्छाविशेष इति चेत्, भावादृष्टविशेषाद् द्रव्यादृष्टविशेषाद्वा ? प्रथमकल्पनायां न तावत्साक्षात् भावादृष्टस्यात्मपरिणामस्वेच्छाव्यभिचारित्वात् । परंपरया चेत्तर्हि द्रव्यादृष्टादेव साक्षादिच्छोत्पत्तिस्तच्च द्रव्यादृष्टं मोहनीयाख्यं कर्म पौद्गलिकमात्मपारतंत्र्यहेतुत्वादुन्मत्तकरसादिवदिति मोहकार्यमिच्छा कथममोहानामुद्भवेत् ? यतस्तल्लक्षणं श्रद्धानं सम्यग्दर्शनं तेषां स्यात् । तदभावे न सम्यग्ज्ञानं तत्पूर्वकं वा सम्यक्चारित्रमिति क्षीणमोहानां रत्नत्रयापायान्मुक्तयपायः प्रसज्येत । ततस्तेषां तव्यवस्थामिच्छता नेच्छा श्रद्धानं वक्तव्यम् ॥ निर्देशाल्पबहुत्वादिचिंतनस्याविरोधतः । श्रद्धाने जीवरूपेस्मिन्न दोषः कश्चिदीक्ष्यते ॥ ११॥
न हि निर्देशादयो दर्शनमोहरहितजीवखरूपे श्रद्धाने विरुद्ध्यंते तथैव निर्देशादिसूत्रे विवरणात्, नाप्यल्पबहुत्वसंख्याभेदांतरभावाः पुरुषपरिणामस्य नानात्वसिद्धेः । पुरुषरूपस्यैकत्वात् तत्र तद्विरोध एवेति चेन्न, दर्शनमोहोपशमादिभेदापेक्षस्य तस्यैकत्वायोगात् । अन्यथा सर्वस्यैकत्वापत्तिः कारणादिभेदस्याभेदकत्वात् , कचित्तस्य भेदकत्वे वा सिद्धः पुरुषस्य खभावभेदः । इति जीवद्रव्याद्भेदेन निर्देशादयस्तत्र साधीयांसोल्पबहुत्वादिवदिति वक्ष्यते । कर्मरूपत्वेपि श्रद्धानस्य तदविरोध इति चेन्न, तस्य मोक्षकारणत्वाभावात् , स्वपरिणामस्यैव तत्कारणत्वोपपत्तेः । कर्मणोपि मुक्तिकारणत्वमविरुद्धं खपरनिमित्तत्वान्मोक्षस्येति चेन्न, कर्मणोन्यस्यैव कालादेः परनिमित्तस्य सद्भावात् । ननु च यथा मोक्षो जीवकर्मणोः परिणामस्तस्य द्विष्ठत्वात् , तथा मोक्षकारणश्रद्धानमपि तदुभयविवर्तरूपं भवत्विति चेन्न, मोक्षावस्थायां तदभावप्रसंगात् , स्वपरिणामिनोऽसत्त्वे परिणामस्याघटनात् , पुरुषपरिणामादेव च कर्मसामर्थ्यहननात्तस्य कर्मरूप
१"तदिन्द्रियानिन्द्रियनिमित्तम्" इत्यादिकारणसूत्राणि मत्यादेः। २ साक्षादात्मपरिणामस्येच्छा न। कुतः? व्यभि. चारात् । यतो नह्यात्मनः सर्वदा इच्छा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org