________________
द्वितीयोऽध्यायः ।
३३९ त्यभिज्ञानादेकत्वसिद्धिः । बाधकरहितात्ततस्तत्सिद्धौ कथमयस्पिडेपि प्रत्यभिज्ञानादेकत्वं सिद्ध्येत् ? न हि तत्र किंचिद्बाधकमस्ति । स्यान्मतं, तेजोऽयस्पिडे तदवस्थेनानुप्रविशति मूर्तत्वाल्लोष्ठवदित्येतद्बाधकमिति तदसद्धेतोः संदिग्धविपक्षव्यावृत्तिकत्वात् सर्वज्ञत्वाभावे वक्तृत्वादिवत् । न हि किंचिन्मूर्तमति प्रविशदमूर्त दृष्टं । व्योम दृष्टमिति चेत् , तत्र मूर्तिमतोनुप्रवेशात्तथा प्रतीतेरबाधत्वादित्यलं प्रसंगेन ॥
ननु कर्मैव कार्मणमित्यस्मिन् पक्षे न तच्छरीरं पुरुषविशेषगुणत्वाहुयादिवदिति कश्चित्तं प्रत्याह;
कमैव कार्मणं तत्र शरीरं नृगुणत्वतः । इत्यसद्रव्यरूपेण तस्य पौगलिकत्वतः ॥३॥ ___ न हि कर्म धर्माधर्मरूपमदृष्टसंज्ञकं पुरुषविशेषगुणस्तस्य द्रव्यात्मना पौद्गलिकत्वात्ततो नाशरीरत्वसिद्धिः । भावकमैवात्मगुणरूपं न द्रव्यकर्म पुद्गलपर्यायत्वमात्मसात्कुर्वत्प्रसिद्धमिति मन्यमानं प्रत्याह;
कर्म पुद्गलपर्यायो जीवस्य प्रतिपद्यते । पारतंत्र्यनिमित्तत्वात्कारागारादिबंधवत् ॥४॥
क्रोधादिभिर्व्यभिचार इति चेन्न, तेषामपि जीवस्य पारतंत्र्यनिमित्तत्वे पौद्गलिकत्वोपपत्तेः । चिद्रूपतया संवेद्यमानाः क्रोधादयः कथं पौद्गलिकाः प्रतीतिविरोधादिति चेन्न, निहतोर्व्यभिचारायोगात् तेषां पारतंत्र्यनिमित्तत्वाभावात् । द्रव्यक्रोधादय एव हि जीवस्य पारतंत्र्यनिमित्तं न भावक्रोधादयस्तेषां खयं पारतंत्र्यरूपत्वाद्र्व्यक्रोधादिकर्मोदये हि सति भावक्रोधाद्युत्पत्तिरेव जीवस्य पारतंत्र्यं न पुनस्तत्कृतमन्यत्किंचिदित्यव्यभिचारी हेतु गमकः सदा ॥
अत्रापरः स्वप्नांतिकं शरीरं परिकल्पयति तमपसारयन्नाह;स्वप्नोपभोगसिद्ध्यर्थं कायं स्वप्नांतिकं तु ये। प्राहुस्तेषां निवार्यते भोग्याः स्वप्नांतिकाः कथम् ॥५॥ भोग्यवासनया भोग्याभासं चेत्स्वप्नवेदिनां । शरीरवासनामात्राच्छरीराभासनं न किम् ॥६॥
यथैव हि खप्नदशायां भोगोपलब्धिः खम्नांतिकं शरीरमंतरेण न घटत इति मन्यते तथा भोग्यानानंतरेणापि सा न सुघटेति भवद्भिर्मननीयं, जाग्रद्दशायां शरीर इव भोगेप्वपि सत्सु भोगोपलब्धेः सिद्धत्वात् । यदि पुनर्भाग्यवासनामात्रात्स्वमदर्शिनां भोग्याभास इति भवतां मतिस्तदा शरीरवासनामात्राच्छरीराभासनमिति किं न मतं ? तथासति खमप्रतिभासस्य मिथ्यात्वं सियेत् , अन्यथा शरीरप्रतीतेरपि भोग्यप्रतीतेः सुखादिभोगोपलब्धेः खमत्वप्रसंगात् । ततो न सौगतानां खप्नांतिकं शरीरं कल्पयितुं युक्तं नापि स्वाभाविकमित्याह
स्वाभाविकं पुनर्गात्रं शुद्धं ज्ञानं वदंति ये । कुतस्तेषां विभागः स्यात्तच्छरीरशरीरिणोः ॥७॥
तदेव ज्ञानशरीरव्यावृत्त्या शरीरी स्यादशरीरव्यावृत्त्या शरीरमिति सुगतस्य शुद्धज्ञानात्मनः शरीरित्वमशरीरित्वं च विभागेन व्यवतिष्ठते कल्पनासामर्थ्यादिति न मंतव्यं, तव्यावृत्तेरेव तत्रासंभवात् । सिद्धे हि तस्य शरीरित्वे वा शरीरिण शरीराच्च व्यावृत्तिः सिद्ध्येत् तत्सिद्धौ च शरीरित्वमशरीरित्वं चेति परस्पराश्रयान्नैकस्यापि सिद्धिः । ततो न खाभाविकं शरीरं नाम यत्पुनरातिवाहिकं नैर्माणिकं च तदस्मदभिमतमेवेत्याहकार्मणांतर्गतं युक्तं शरीरं चातिवाहिकम् । नैर्माणिकं तु यत्तेषां तन्नो वैक्रियिकं मतं ॥ ८ ॥ सांभोगिकं पुनरौदारिकादिशरीरत्रयमप्रतिषिद्धमेवेति न शरीरांतरमस्ति ।
नन्वौदारिकादीनि भिन्नानि पार्थिवादिशरीराणि संति ततोन्यत्रोपसंख्यातव्यानीति केचित् तान् प्रत्याह;
पार्थिवादिशरीराणि येतो भिन्नानि मेनिरे । प्रतीतेरपलापेन मन्यतां ते खवारिजम् ॥९॥ न हि पृथिव्यादीनि द्रव्याणि भिन्नजातीयानि संति तेषां पुद्गलपर्यायत्वेन प्रतीतेः परस्परपरिणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org