________________
३४० तत्त्वार्थश्लोकवार्तिके
[ सू० ४४ मदर्शनाद्भिन्नजातीयत्वे तदयोगात् । न ह्याकाशं पृथिवीरूपतया परिणमते कालादिर्वा, परिणमते च जलं मुक्ताफलादि पृथिवीरूपतया । ततो न तज्जात्यंतरं युक्तं येन पार्थिवादिशरीराणि संभाव्यते सत्यपि तानि नैतेभ्यः शरीरेभ्यो भिन्नानि प्रतीतेविषयभावमनुभवंति व्योमारविंदवत् । पार्थिवं हि शरीरं यदिंद्रलोके यच्च तैजसमादित्यलोके यदाप्यं वरुणलोके यच्च वायव्यं वायुलोके वेदितव्यं, तद्वैक्रियिकमेव देवनारकाणामौपपादिकस्य शरीरस्य वैक्रियिकत्वात् । यच्च चातुर्भूतिकं पांचभौतिकं वा कैश्चिदिष्टं । शरीरं मनुष्यतिरश्चां तदौदारिकमेव च, न ततोन्यदिति पंचैव यथोक्तानि शरीराणि व्यवतिष्ठते सर्वविशेषाणां तत्रांतर्भावात् ॥ ननु चामूर्तस्यात्मनः कथं मूर्तिमद्भिः शरीरैस्संबंधो मुक्तात्मवदित्याशंकामपनुदन्नाह;
अनादिसंबंधे च ॥ ४१ ॥ अनादिसंबंधो ययोरात्मना ते यथा तैजसकार्मणशरीरे, चशब्दात्सादिसंबंधे ते प्रतिपत्तव्ये । ततो नैकांतेनामूर्तत्वमात्मनः परशरीरसंबंधात्पूर्व येन तदनुपपत्तिः तत्संबंधात् प्रागपि तस्य तैजसकार्मणाभ्यां संबंधसद्भावात् । ततः पूर्वमप्यपराभ्यां ताभ्यामित्यनादितत्संबंधसंतानः प्रतिविशिष्टतैजसकार्मणसंबंधात् सैव सादिता ॥ ननु कस्यचिन्नानादिसंबंधे तेऽतः परशरीरसंबंधानुपपत्तिरित्याशंकायामिदमाह;
सर्वस्य ॥ ४२ ॥ सर्वस्य संसारिणस्तैजसकार्मणशरीरे तथानादिसंबंधे न पुनः कस्यचित्सादिसंबंधे येनात्मनः शरीरसंबंधानुपपत्तिः । कुत इत्याह;
सर्वस्यानादिसंबंधे चोक्ते तैजसकामणे । शरीरांतरसंबंधस्यान्यथानुपपत्तितः ॥१॥
तैजसकार्मणाभ्यामन्यच्छरीरमौदारिकादि तत्संबंधोमदादीनां तावत्सुप्रसिद्ध एव स च तैजसकार्मणाभ्यां संबंधोनादिसंबंधमंतरेण नोपपद्यते मुक्तस्यापि तत्संबंधप्रयोगात् ॥ अथैतानि शरीराणि युगपदेकस्मिन्नात्मनि कियंति संभाव्यंत इत्याह;
तदादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्थ्यः ॥ ४३ ॥ तद्रहणं प्रकृतशरीरद्वयप्रतिनिर्देशार्थमादिशब्देन व्यवस्थावाचिनान्यपदार्था वृत्तिः, तेन तैजसकार्मणे आदिर्येषां शरीराणां तानि तदादीनीति संप्रतीयते । भाज्यानि पृथकर्तव्यानि । पृथक्त्वादेव तेषां भाज्यग्रहणमनर्थकमिति चेत् , तद्धि कस्यचिद्द्वित्रिचतुःशरीरसंबंधविभागोपपत्तिः । युगदिति कालैकत्वं वर्तते, आङभिविध्यर्थः । तेनैतदुक्तं भवति कचिदात्मनि विग्रहगत्यापन्ने द्वे एव तैजसकामणे शरीरे युगपत्संभवतः, क्वचित् त्रीणि तैजसकार्मणवैक्रियिकाणि तैजसकामणौदारिकाणि वा, कचिच्चत्वारि तान्येवाहारकसहितानि वैक्रियिकसहितानि ॥ पंच त्वेकत्र युगपन्न संभवंतीत्याह;तदादीनि शरीराणि भाज्यान्येकत्र देहिनि । सकृत्संत्याचतुर्यो न पंचानां तत्र संभवः ॥१॥ न हि वैक्रियिकाहारकयोर्युगपत्संभवो यतः क्वचित्पंचापि स्युः ।। किं पुनरत्र शरीरं निरुपभोगं किं वा सोपभोगमित्याह;
निरुपभोगमंत्यम् ॥ ४४ ॥ प्रागपेक्षया अंत्यं कार्मणं तन्निरुपभोगमिति । सामर्थ्यादन्यत्सोपभोगं गम्यते । कर्मादानसुखानुभव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org