________________
द्वितीयोऽध्यायः ।
नहेतुत्वात्सोपभोगं कार्मणमिति चेन्न, विवक्षितापरिज्ञानात् । इंद्रियनिमित्ता हि शब्दाद्युपलब्धिरुपभोगस्तस्मान्निष्क्रांतं निरुपभोगमिति विवक्षितं । तैजसमप्येवं निरुपभोगमस्त्विति चेन्न, तस्य योगनिमित्तत्वाभावादनधिकारात् । यदेव हि योगनिमित्तमौदारिकादि तदेव सोपभोगं प्रोच्यते निरुपभोगत्वा - देव च कार्मणमौदारिकादिभ्यो भिन्नं निश्चीयत इत्याह
अंत्यं निरुपभोगत्वाच्छेषेभ्यो भिद्यते वपुः । शब्दाद्यनुभवो ह्यस्मादुपभोगो न जायते ॥ १ ॥ औदारिकं किंविशिष्टमित्याह ;
गर्भसंमूर्छन जमाद्यम् ॥ ४५ ॥
गर्भसंमूर्छनजं पाठापेक्षयाद्यमौदारिकं तद्गर्भजं संमूर्छनजं च प्रतिपत्तव्यं । तत एव सोपभोगाभ्यामपि पराभ्यां शरीराभ्यां तद्भिद्यते इत्याह
आद्यं तु सोषभोगाभ्यां पराभ्यां भिन्नमुच्यते । गर्भसंमूर्छनाद्धेतोर्जायमानत्वतो भिदा ॥१॥ यथैव कार्मणं निरुपभोगत्वात्सोपभोगेभ्यो भिन्नं तथौदारिकं सोपभोगमपि कारणभेदात् पराभ्यां भिन्नमभिधीयते ॥
वैक्रियिकं कीदृशमित्याह ;
३४१
औपपादिकं वैक्रियिकम् ॥ ४६ ॥
उपपादो व्याख्यातः तत्र भवमौपपादिकं तद्वै क्रियिकं बोद्धव्यं । कुतः पुनरौदारिकादिदं भिन्नमित्याह ; - औपपादिकतासिद्धेर्भिन्नमौदारिकादिदं । तावद्वैक्रियिकं देवनारकाणामुदीरितम् ॥ १ ॥ न द्यौदारिकमेव वैक्रियिकं ततोन्यस्योपपादिकस्य देवनारकाणां शरीरस्य वैक्रियिकत्वात् । तच्च कारणभेदादौदारिकाद्भिन्नमुच्यते ॥
किमेतदेव वैक्रियिकमुतान्यदपीत्याह ;
लब्धिप्रत्ययं च ॥ ४७ ॥
तपोतिशयद्भिब्धिः सा प्रत्ययः कारणमस्येति लब्धिप्रत्ययं वैक्रियिकमिति संप्रत्ययः । नन्विदमौदारिकादि कथं भिन्नमित्याह ;--
किंचिदौदारिकत्वेपि लब्धिप्रत्ययता गतेः । ततः पृथक् कथंचित्स्यादेतत्कर्मसमुद्भवं ॥ १ ॥ यथैौदारिकनामकर्मसमुद्भवमौदारिकं तथा वैक्रियिकनामकर्मसमुद्भवं वैक्रिथिकं युक्तं तथा तदलब्धिप्रत्ययं वैक्रियिकं । न हि लब्धिरेवास्य कारणं वैक्रियिकनामकर्मोदयस्यापि कारणत्वादन्यथा सर्वस्य वैक्रियिकस्य तदकारणत्वप्रसंगात् । तेनेदमौदारिकत्वेपि कथंचिदौदारिकाद्भिन्नं लब्धिप्रत्ययत्वनिश्चयात् । किंचिदेव हि लब्धिप्रत्ययं वैक्रियिकमिष्टं न सर्वम् ॥
तैजसमपि किंचित्तादृशमित्याह ; -
तैजसमपि ॥ ४८ ॥
लब्धिप्रत्ययमित्यनुवर्तते, तेन तैजसमपि लब्धिप्रत्ययमपि निश्चेयं ।
तदपि लब्धिप्रत्ययतागतेरेव भिन्नमौदारिकादेरित्याह; -
तथा तैजसमप्यत्र लब्धिप्रत्ययमीयतां । साधारणं तु सर्वेषां देहिनां कार्यभेदतः ॥ १ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org