________________
३४२ तत्त्वार्थश्लोकवार्तिके
[सू० ५१ लब्धिप्रत्ययं तैजसं द्विविधं, निस्सरणात्मकमनिःसरणात्मकं च । द्विविधं निःसरणात्मकं च प्रशस्ताप्रशस्तभेदात् लब्धिप्रत्ययत्वादेव भिन्नं शरीरांतरं गम्यतां, यत्तु सर्वेषां संसारिणां साधारणं तैजसं तत्स्वकार्यभेदाद्भिन्नमीयतां । तैजसवैक्रियिकयोः लब्धिप्रत्ययत्वाविशेषादभेदप्रसंगा इति चेन्न, कर्मभेदकारणकत्वाद्भेदोपपत्तेः । सत्यपि तयोर्लब्धिप्रत्ययत्वे तैजसवैक्रियिकनामकर्मविशेषोदयापेक्षत्वाद्भेदो युज्यत एव ॥ संप्रत्याहारकं शरीरमुपदर्शयति;
शुभं विशुद्धमव्याघाति चाहारकं प्रमत्तसंयतस्यैव ॥ ४९ ॥ शुभं मनःप्रीतिकरं विशुद्धं संक्लेशरहितं अव्याघाति सर्वतो व्याघातरहितं चशब्दादुक्तविशेषणस. मुच्चयं । एवं विशिष्टमाहारकं शरीरमतिमात्रं प्रमत्तसंयतस्यैव मुने न्यस्येति प्रतिपत्तव्यं । तच्छरीरांतरात्कुतो भिन्नमित्याह;आहारकं शरीरं तु शुभं कार्यकृतत्वतः । विशुद्धिकारणत्वाच विशुद्धं भिन्नमन्यतः ॥१॥ अव्याघातिस्वरूपत्वात्प्रमत्ताधिपतित्वतः । फलहेतुस्वरूपाधिपतिभेदेन निश्चितम् ॥ २॥
आहारकं वैक्रियिकादिभ्यो भिन्नं शुभफलत्वादित्यत्रानैकांतिकत्वं हेतोः वैक्रियिकादेरपि शुभफलस्योपलंभादिति न मंतव्यं, नियमेन शुभफलत्वस्य हेतुत्वात् । विशुद्धिकारणत्वात् ततो भिन्नमित्यत्रापि लब्धिप्रत्ययेन वैक्रियिकादिना. हेतोरनेकांत इति नाशंकनीयं, नियमेन विशुद्धिकारणत्वस्य हेतुत्वात् । समुद्भूतलब्धेरपि क्रोधादिसंक्लेशपरिणामवशाद्विक्रियादेनिवर्तनाद्विशुद्धिकारणत्वनियमाभावात् । अव्याघातिस्वरूपत्वादाहारकं शरीरांतराद्भिन्नमित्यस्मिन्नपि तैजसादिना हेतोर्व्यभिचार इत्यचोद्य, प्राणिवाधापरिहारलक्षणस्याव्याघातित्वस्य हेतुत्वात् । प्रमत्ताधिपतित्वमपि नाहारकस्य शरीरांतराद्भेदे साध्येनैकांतिकं, विशिष्टप्रमत्ताधिपतित्वस्य हेतुत्वात् । ततः सूक्तं फलहेतुखरूपाधिपतिभेदेन भिन्नमाहारकमन्येभ्यः शरीरेभ्यो निश्चितमिति ॥
चतुर्दशभिरित्येवं सूत्रैरुक्तं प्रपंचतः । शरीरं तीथिकोपेतशरीरविनिवृत्तये ॥३॥ अथ के संसारिणो नपुंसकानीत्याह;--
नारकसंमूर्छिनो नपुंसकानि ॥ ५० ॥ नारकाः संमूर्छिनश्च नपुंसकान्येव भवंति ॥ देवेषु तत्प्रतिषेधमाह;
न देवाः॥५१॥ देवा नपुंसकानि नैव संभवंतीति सामर्थ्यात् पुमांसः स्त्रियश्च देव्यो भवंतीति गम्यते । कुत इत्याहनारका देहिनस्तत्र प्रोक्ताः संमूर्छिनश्च ये । नपुंसकानि ते नित्यं न देवा जातुचित्तथा ॥१॥ स्त्रीपुंससुखसंप्राप्तिहेतुहीनत्वतः पुरा । नपुंसकत्वदुःखाप्तिहेत्वभावाद्यथाक्रमं ॥२॥
नारकाः संमूर्छिनश्च प्राणिनो नपुंसकान्येव, स्त्रीपुंससुखसंप्राप्तिकारणरहितत्वात् पूर्वस्मिन् भवे नपुंसकत्वसाधनानुष्ठानात् । देवास्तु न कदाचिन्नपुंसकादि जायंते नपुंसकत्वदुःखाप्तिकारणाभावादिति यथाक्रमं साध्यद्वये हेतुद्वयं प्रत्येयं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org