________________
द्वितीयोऽध्यायः ।
शेषाः कियद्वेदा इत्याह ;
शेपास्त्रिवेदाः ॥ ५२ ॥
उक्तेभ्यो ये शेषाः गर्भजास्त्रिवेदाः प्रतिपत्तव्याः । कुत इत्याह
त्रिवेदाः प्राणिनः शेषास्तेभ्यस्तादृक् सुहेतुतः । इति सूत्रत्रयेणोक्तं लिंगभेदेन देहिनाम् ॥ १ ॥ स्त्रीवेदोदयादिः स्त्रीवेदस्य हेतुः पुंवेदोदयादिः पुंवेदस्य, नपुंसक वेदोदयादिः नपुंसकवेदस्येति । तत एव प्राणिनां स्त्रीलिंगादित्रयसिद्धिरिति भेदेन लिंगं सकलदेहिनां सूत्रत्रयेणोक्तं वेदितव्यं ॥ के पुनरत्र शरीरिणोनपवर्त्यायुषः के वापवर्त्यायुष इत्याह ;
औपपादिकचरमोत्तमदेहा संख्येयवर्षायुषोऽनपवर्त्यायुषः ॥ ५३ ॥
औपपादिका देवनारकाः चरमोत्यस्तज्जन्मनिर्वाणार्हस्य देहः उत्तम उत्कृष्टः चरमश्चासौ उत्तमश्च चरमोत्तमश्चरमविशेषणमुत्तमस्याचरमस्य निवृत्त्यर्थं उत्तमग्रहणं चरमस्यानुत्तमत्वव्युदासार्थं । चरमोत्तमो देहो येषां ते चरमोत्तमदेहाः । उपमाप्रमाणगम्य संख्येयवर्षायुर्येषां ते द्वंद्ववृत्त्या निर्दिष्टाः संसारिणोऽनपवर्त्या येषां भवंति इति वचनसामर्थ्यात्ततोन्ये अपवर्त्यायुषो गम्यते ॥
Jain Education International
३४३
कुतः पुनरनपवर्त्यमायुरौपपादिकादीनामित्याह;अत्रौपपादिकादीनां नापवर्त्यं कदाचन । सोमात्तमायुरीदृक्षादृष्टसामर्थ्यसंगतेः ॥ १ ॥ सामर्थ्यतस्ततोन्येषामपवर्त्य विषादिभिः । सिद्धं चिकित्सितादीनामन्यथा निष्फलत्वतः ॥ २ ॥
बाह्यप्रत्ययानपवर्तनीयमायुः कर्म प्राणिदयादिकारण विशेषोपार्जितं तादृशादृष्टं तस्य सामर्थ्य मुदयस्तस्य संगतिः संप्रातिस्ततो भवधारणमौपपादिकादीनामनपवर्त्यमिति सामर्थ्यादन्येषां संसारिणां तद्विपरीतादृष्टविशेषादपवर्त्य जीवनं विषादिभिः सिद्धं, चिकित्सितादीनामन्यथा निष्फलत्वप्रसंगात् । न ह्यप्राप्तकालस्य मरणाभावः खड्गप्रहारादिभिर्मरणस्य दर्शनात् । प्राप्तकालस्यैव तस्य तथा दर्शनमिति चेत्, कः पुनरसौ कालं प्राप्तोपमृत्युकालं वा ? प्रथमपक्षे सिद्धसाध्यता, द्वितीयपक्षे खङ्गप्रहारादिनिरपेक्षत्वप्रसंगः सकलबहिःकारणविशेषनिरेपक्षस्य मृत्युकारणस्य मृत्युकालव्यवस्थितेः । शस्त्रसंपातादिबहिरंगकारणान्वयव्यतिरेकानुविधायिनस्तस्यापमृत्युकालत्वोपपत्तेः । तदभावे पुनरायुर्वेदप्रामाण्यचिकित्सितादीनां क सामर्थ्योपयोगः । दुःखप्रतीकारादाविति चेत्, तथैवापमृत्युप्रतीकारादौ तदुपयोगोस्तु तस्योभयथा दर्शनात् । नन्वायुःक्षयनिमित्तोपमृत्युः कथं केनचित्प्रतिक्रियते, तर्ह्यसद्वेद्योदयनिमित्तं दुःखं कथं केनचित्प्रतिक्रियतां? सत्यप्यसद्वेद्योदयेन्तरंगे हेतौ दुःखं बहिरंगे वातादिविकारे तत्प्रतिपक्षौषधोपयोगोपनीते दुःखस्यानुत्पत्तेः प्रतीकारः स्यादिति चेत्, तर्हि सत्यपि कस्यचिदायुरुदयेंत रंगे हेतौ बहिरंगे पथ्याहारादौ विच्छिन्ने जीवनस्याभावे प्रसक्ते तत्संपादनाय जीवनाधानमेवापमृत्योरस्तु प्रतीकारः । सत्यप्यायुषि जीवनस्याभावप्रसक्तौ कृतप्रणाशः स्यात् इति चेत्, तर्हि सत्यप्यसद्वेद्योदये दुःखस्योपशमने कथं कृतप्रणाशो न भवेत् ? कटुकादिभेषजोपयोगजपीडामात्रं स्वफलं दत्वैवासद्वेद्यस्य निवृत्तेर्न कृतप्रणाश इति चेत्, तर्ह्यायुषोपि जीवनमात्रं स्वफलं दत्त्वैव निवृत्तेः कृतप्रणाशो मा भूत् विशिष्टफलदानाभावस्तूभयत्र समानः । ततोस्ति कस्यचिदपमृत्युश्चिकित्सितादीनां सफलान्यथानुपपत्तेः कर्मणामयथाकालविपाकोपपत्तेश्चाम्रफलादिवत् । यश्वाह, विवादापन्नाः प्राणिनः सापवर्त्यायुषः शरीरित्यादिंद्रियवत्वाद्वा प्रसिद्धसापवर्त्यायुष्कप्राणिवत् ते वानपवर्त्यायुषस्तत एवोपपादिकवदिति, सोपि न युक्तवादी - युपदर्शयति
-
For Private & Personal Use Only
www.jainelibrary.org