________________
३४४ तत्त्वार्थश्लोकवार्तिके
[ सू० ५३ तदन्यतरदृष्टत्वाच्छरीरित्वादिहेतुभिः । सर्वेषामपवर्त्य तन्नापवर्त्यमितीरयन् ॥३॥ प्रबाध्यते प्रमाणेन खेष्टभेदाप्रसिद्धितः । सर्वज्ञादिविरोधाच मानमेयाव्यवस्थितेः ॥४॥
न ह्यपवर्त्यानपवर्त्ययोरायुषोरन्यतरस्यापि प्रतिक्षेपं कुर्वन् प्रमाणेन न बाध्यते, अनुमानेनागमेन च तस्य बाधनात् स्खेष्टभेदप्रसिद्ध्या चायं प्रबाध्यते । खयमिष्टं हि केषांचित्प्राणिनामल्पमायुः केषांचिद्दीर्घ तत्र शक्यं वक्तुं । विवादापन्नाः प्राणिनोल्पायुषः शरीरित्वात् प्रसिद्धाल्पायुष्कवत् ते वा दीर्घायुषस्तत एव । प्रसिद्धदीर्घायुष्कवदिति खेष्टविभागसिद्धिः प्रबाधका सर्वज्ञादिविरोधाच्चासौ बाध्यते । तथा विवादापन्नः पुरुषः सर्वज्ञो वीतरागो वा न भवति शरीरित्वादन्यपुरुषवत् वेदार्थज्ञो वा न भवति जैमिन्यादिस्तत एव तद्वत् विपर्ययप्रसंगो वेति प्रत्यवस्थानस्य कर्तुं शक्यत्वात् प्रमाणप्रमेयाव्यवस्थानाच्चायं बाध्यते । शक्यं हि वक्तुं विवादाध्यासितः प्रमाता प्रमाणरहितः शरीरित्वात् सन्निपाताद्याकुलवत् प्रमेयस्य वा न परिच्छेत्ता तत एव तद्वदिति । ततः प्रमाणप्रमेयव्यवस्थितिं कुतश्चित्वीकुर्वत् सर्वज्ञादिव्यवस्थिति खेष्टविभागसिद्धिं वा नानपवर्त्यस्येतरस्य वायुषः प्रतिक्षेपं कर्तुमर्हति तस्य प्रतीतिसिद्धत्वादिति दर्शयति;इह सति बहिरंगे कारणे केपि मृत्योर्न मृतिमनुभवंति स्वायुषो हान्यभावे । ज्वलितहुतभुगंतःपातिनां पंचतापि प्रतिनियततनुनों जीवितस्यापि दृष्टेः ॥५॥ तदेवं युक्त्यागमाभ्यामविरुद्धोनपवत्र्येतरायुर्विभागः सूक्त एव ॥
खं तत्त्वं लक्षणं भेदः कारणं विषयो गतिः । जन्मयोनिर्वपुर्लिंगमहीनायुरिहोदितम् ॥ १॥ इति श्रीविद्यानंदि आचार्यविरचिते तत्त्वार्थश्लोकवार्तिकालङ्कारे द्वितीयोऽध्यायः समाप्तः ॥ २ ॥
PROVia
JA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org