________________
तृतीयोऽध्यायः ॥३॥
रत्नशर्करावालुकापंकधूमतमोमहातमःप्रभा भूमयो घनांबुवाताका
शप्रतिष्ठाः सप्ताधोऽधः॥१॥ रत्नादीनामितरेतरयोगे द्वंद्वः, प्रभाशब्दस्य प्रत्येकं परिसमाप्ति(जिवत् । साहचर्यात्ताच्छब्दयसिद्धिर्यष्टिवत् । तमःप्रभेति विरुद्धमिति चेन्न, तत्स्वात्मप्रभोपपत्तेः । अनादिपारिणामिकसंज्ञानिर्देशाद्वेष्टगोपवत् रत्नप्रभादिसंज्ञाः प्रत्येतव्याः । रूढिशब्दानामगमकत्वमवयवार्थाभावादिति चेन्न, सूत्रस्य प्रतिपादनोपायत्वात्तेषामपि गमकत्वोपपत्तेः । भूमिग्रहणमधिकरणविशेषप्रतिपत्त्यथै, घनादिग्रहणं तदालंबननिर्जानार्थ, सप्तग्रहणमियत्तावधारणार्थ । सामीप्याभावादधोध इति द्वित्वानुपपत्तिरिति चेन्न, अंतरस्यापि विवक्षितत्वात् ॥ कुतः पुनरेताः संभाव्यंत इत्याह;
घनांबुपवनाकाशप्रतिष्ठाः सप्तभूमयः । रत्नप्रभादयोऽधोधः संभाव्या बाधकच्युतेः ॥१॥ नहि यथोदितरत्नप्रभादिभूमिप्रतिपादकवचनस्य किंचिद्बाधकं कदाचित्संभाव्यते इति निरूपितप्रायं ॥
नन्वेता भूमयो घनानिलप्रतिष्ठाः घनानिलस्त्वंबुवातप्रतिष्ठः सोपि तनुवातप्रतिष्ठस्तनुवातः पुनराकाशप्रतिष्ठः खात्मप्रतिष्ठमाकाशमित्येतदनुपपन्नं, व्योमवद्भूमीनामपि खात्मप्रतिष्ठत्वप्रसंगात् भूम्यादिवद्वाकाशस्याधारांतरकल्पनायामनवस्थाप्रसंगात् । ततो नात्र बाधकच्युतिरिति कश्चित्तं प्रत्याह;स्वात्मप्रतिष्ठमाकाशं विभुद्रव्यत्वतोन्यथा । घटादेरिव नैवोपपद्येत विभुतास्य सा ॥२॥
परममहदन्यत्प्रतिष्ठं वेति व्याहतमेतत् । ततो व्योम चात्मप्रतिष्ठं विभुद्रव्यत्वायत्तु न खात्मप्र. तिष्ठं तन्न विभु द्रव्यं यथा घटादि विभु द्रव्यं च व्योमेति न तस्याप्याधारांतरकल्पनयानवस्था स्यात् । नापि भूम्यादीनामपि स्वप्रतिष्ठत्वप्रसंगस्तेषामविभुद्रव्यत्वादिति न प्रकृतबाधकत्वं ॥
ननु कथमिदानी व्योम तनुवातस्याधिकरणममूर्तत्वात्तत्प्रतिबंधकत्वाभावादित्यपरस्तं प्रत्याह;तनुवातः पुनर्योमप्रतिष्ठः प्रतिपद्यते । तनुवातविशेषत्वान्मेषधारणवायुवत् ॥३॥
मेघधारणो वातावयवी वायुरंबुप्रतिष्ठ इति चेन्न, अनंतशः पवनपरमाणूनां पवनावयत्वात् तेषां वाकाशप्रतिष्ठत्वादभिन्नस्य कथंचित्पवनावयविनोपि तदाधारत्वोपपत्तेर्न साध्यविकलमुदाहरणं, नापि संदिग्धविपक्षव्यावृत्तिको हेतुः, कस्यचिदप्यनाकाशाधारस्य तनुवातस्यासंभवात् । ततः तस्यामूर्तस्यापि पवनाधारत्वमुपपन्नं आत्मनः शरीराद्याधारत्ववत् तथा प्रतीतेरबाधितत्वात् ।।
तनुवातः कथमंबुवातस्याधिकरणं समीरणखभावत्वादिति चेदुच्यतेतद्धृतश्चांबुवातः स्याद्धनात्मार्थस्य धारकः । अंबुवातत्वतो वार्द्धर्वीचीवायुविशेषवत् ॥ ४ ॥ स च तनुवातप्रतिष्ठोंबुवातो धनवातस्य स्थितिहेतुः सोपि भूमेन पुनः कूर्मादिरित्यावेदयति;घनानिलं प्रतिष्ठानहेतुः कूर्मः स एष नः । न कूर्मादिरनाधारो दृष्टकूर्मादिवत्सदा ॥५॥ तनिवासजनादृष्टविशेषे वसतो यदि । कूर्मादिराश्रयः किं न वायुदृष्टांतसारतः ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org