________________
३४६
तत्त्वार्थश्लोकवार्तिके
सोयं कूर्म वराहं वा स्वयमनाधारं भूमेराश्रयं कल्पयन् दृष्टहान्या निर्धार्यते ॥
कश्विदाह-न स्थिरा भूमिर्दर्पणाकारा । किं तर्हि ? गोलकाकारा सर्वदोर्ध्वाधो भ्राम्यति, स्थिरं तु नक्षत्रचक्रं मेरोः प्रादक्षिण्येनावस्थानात् । तत एव पूर्वादिदिग्देशभेदेन नक्षत्रादीनां संप्रत्ययो न विरुध्यते । तथोदयास्तमनयोश्चंद्रादीनां भूमिसंलग्नतया प्रतीतिश्च घटते नान्यथेति, तं प्रति बाधकमुपदर्शयतिनोभ्रमणं भूमेर्घटते गोलकात्मनः । सदा तथैव तद्भांतिहेतोरनुपपत्तितः ॥ ७ ॥
I
वायुरेवोर्ध्वाधो भ्रमन्सर्वदा भूमेस्तथा भ्रमणहेतुरिति न संगतं प्रमाणाभावात् । आगमः प्रमाणमिति चेन्न, तस्यानुग्राहकप्रमाणांतराभावात् । तस्यानुमानमनुग्राहक मस्तीति चेन्न, अविनाभाविलिंगाभावात् । ननु च यत्पुरुषप्रयत्नाद्यभावेपि भ्राम्यति तमद्वायुहेतुकं भ्रमणं यथाकाशे पर्णादि तथा च भूगोल इत्यविनाभावि लिंगमनुमानं पुरुषप्रयत्नकृतचक्रादिभ्रमणेन पाषाणादिसंघट्टकृतनदीजलादिभ्रमणेन च व्यभिचाराभावात् । न च पुरुषप्रयत्नाद्यभावोऽसिद्धः पृथिवीगोलक भ्रमणे महेश्वरादेः कारणस्य निराकरणात् । पाषाणसंघट्टादिसंभवाभावात् भूगोल भ्रमणमसिद्धं इति न मंतव्यं तदभावे तत्स्थजनानां चंद्रार्कादिबिंबस्यो - दयास्तमनयोर्भिन्नदेशादितया प्रतीतेरघटनात् । सास्ति च प्रतीतिस्ततो भूगोलभ्रमः प्रमाणसिद्ध इि कश्चित् । सोत्रैव पर्यनुयोक्तव्यः । भ्रमः कस्मान्न भवतीति तदावेदिनः प्रवचनस्य सद्भावात् । प्रतिनियतानेकदेशादितयार्कादीनां प्रतीतेरपि घटनात् भूभ्रमणहेतोर्विरुद्धत्वोपपत्तेः । भूगोल भ्रमणे साधनस्यानुमानादिबाधितपक्षतानुषंगात् । कारणाभावात् भूभ्रमोवतिष्ठत इति चेत्, तथाविधादृष्टवैचित्र्यात्तद्भमणोपपत्तेः ॥ भूगोल भ्रमणे तु वायुभ्रमणं न कारणं भवितुमर्हति सर्वदा तस्य तथा भ्रमणनियमानुपपत्तेरनियतगतित्वात् । ततो नाभिप्रेतदिगभिमुखं भ्रमणं भूगोलस्य स्यात् । प्राण्यदृष्टवशाद्वायोर्नियतं तथा भ्रमणमिति चेन्न, तत्कार्यासिद्धौ तदसिद्धेः । प्रसिद्धे हि सुखादिकार्ये निर्विवादे दृष्टकारणव्यभिचारे चादृष्टतत्कारणमनुमीयते न चाभिप्रेतवायुभ्रमणं निर्विवाद सिद्धं यतो न दृष्टकारणव्यभिचारे तत्कारणमदृष्टमनुमीयेत । भूभ्रमात् प्रवहद्वायुसिद्धिरिति चेन्न, तस्यापि तद्वदसिद्धेः । नानादिग्देशादितयार्कादिप्रतीतिस्तु भूभ्रमेपि घटमाना न भूभ्रमं साधयतीति । कथं ? अनुमितानुमानादप्यदृष्टविशेषसिद्धिरिति सूक्तं न भूमेरूर्ध्वाधोभ्रमणं वदेकानुभवं संपरिवृत्तिर्वा घटते तद्रमणहेतोः पराभ्युपगतस्य सर्वथानुपपद्यमानत्वात् परेष्टभूभ्रमादिवदिति । तथा दृष्टव्याघाताच्च न सोस्तीत्याह ;
....
दृश्यमानसमुद्रादिजलस्थितिविरोधतः । गोले भ्रम्यति पाषाणगोलवत्क विशेषवा ॥ ८ ॥ न हि जलादेः पतनधर्मणो भूयसो भ्राम्यति पाषाणगोले स्थितिर्दृष्टा यतो भूगोलेपि सा संभाव्येत । धारकवायुवशात्तत्र तस्य स्थितिर्न विरुध्यत इति चेत्, स धारको वायुः कथं प्रेरकवायुना न प्रतिहन्यते ? प्रवहतो हि सर्वदा भूगोलं च भ्रमयत्समंततोपि तत्स्थसमुद्रादिधारकवायुं विघटयत्येवमेव धारकवायुमिव तव्प्रतिपक्षवात इति विरुद्वैव तदवस्थितिः, सर्वथा विशेषपवनस्यासंभवात् ।
अत्र पराकूतमाशंक्य प्रतिषेधयति ;
Jain Education International
[सू० १
गुर्वर्थस्याभिमुख्येन भूमेः सर्वस्य पाततः । तत्स्थितिश्चेत् प्रतीयेत नाधस्तात्पातदृष्टितः ॥ ९ ॥ भूगोले भ्राम्यति तदपि समुद्रजलादि स्थितमिव भाति तस्य तदाभिमुख्येन पतनात् । सर्वस्य गुरोरर्थस्य भूमेरनभिमुखतया पतनादर्शनादिति चेन्नैवं, अधस्तात् गुर्वर्थस्य पातदर्शनात्, तथाभितोभिघाताद्यभावे स्वस्थानात् प्रच्युतोधस्तात्पतति गुरुत्वाल्लोष्ठादिवत् । न हि तत्राभिघातो नोदनं वा पुरुषयलादिकृतमस्ति येनान्यथागतिः स्यात् । न चात्र हेतोः कंदुकादिना व्यभिचारः, अभिघाताद्यभावे सतीति
For Private & Personal Use Only
www.jainelibrary.org