________________
तृतीयोऽध्यायः ।
३४७ विशेषणात् । नापि साध्यसाधनविकलो दृष्टांतः साधनस्य गुरुत्वस्य यथोक्तविशेषणस्य साध्यस्य वाधस्तात्पतनस्य लोष्ठादौ प्रसिद्धत्वात् । तन्न भूभ्रमवादी सत्यवागू/धोभूभ्रमवादिवत् । किं च
भूभ्रमागमसत्यत्वेऽभूभ्रमागमसत्यता । किं न स्यात्सर्वथा ज्योतिर्ज्ञानसिद्धेरभेदतः ॥१०॥ द्वयोः सत्यत्वमिष्टं चेत्काविरुद्धार्थता तयोः । प्रवक्रोराप्तता नैवं सुगतेश्वरयोरिव ॥११॥ मतांतरमुपदर्य निवारयन्नाह;सर्वदाधः पतन्त्येताः भूमयो मरुतोऽस्थितेः । ईरणात्मत्वतो दृष्टप्रभंजनवदित्यसत् ॥ १२ ॥ मरुतो धारकस्यापि दर्शनात्तोयदादिषु । सर्वदा धारकत्वस्थानादित्वात्तत्र न क्षतिः ॥१३॥ न हि भूम्याधारो वायुरनवस्थितस्तस्येरणात्मत्वाभावात् । तच्चासंभवन्नायमीरणात्मकत्वरहितो मरुत्तोयदादिधारणात्मकस्यापि दर्शनात् । सर्वदा धारकत्वं न दृष्टं इति चेत् , सादेरनादेर्वा ? सादेश्वेत् सिद्धसाध्यता । यदि पुनरनादेरपि सर्वदाधारकत्वं पवनस्य न स्यात्तदात्माकाशादेरप्यमूर्तत्वविभुत्वादिधर्मधारणविरोधः । अत्राधाराधेययोरनादित्वात्सर्वदा तद्भाव इति चेत् , भूमिमवभृतोरपि तत एव तथा सोस्तु । तन्न सर्वदाधः पतंति भूमयः प्रमाणाभावात् । एतेन सर्वदोत्पतंत्येव तिर्यगेव गच्छंतीति वा निरस्तं, धारकस्य वायोरबाधितस्य सिद्धेस्तदवस्थानाविरोधात् । कश्चिदाह-विवादापन्ना भूमिभूम्यंतराधारा भूमित्वात्तथा प्रसिद्धभूमिवत् । साप्यपरा भूमिभूम्यंतराधारा भूमित्वात्तथा प्रसिद्धभूमिवत् साप्यपरा भूमिभूम्यंतराधारा तत एव तद्वदिति शश्वदपर्यंता तिर्यगधोपीति तं प्रत्याह;
नापर्यता धराधोपि सिद्धा संस्थानभेदतः । धरवत्स्वमपर्यंतं सिद्धं संस्थानवन्न हि ॥ १४ ॥
धरः पर्वतः संस्थानवान् दृष्टो यः पुनरपर्यंतः स न संस्थानवान् यथाकाशादिरिति विपक्षाब्यावृत्तो हेतुः पर्यंतवत्तां धरायाः साधयत्येव । यत्पुनरभ्यधायि-विवादापन्ना धरा धराधारा धरात्वात्प्रसिद्धधरावदिति । तदयुक्तं, हेतोरादित्यधरादिनानेकांतात् न हि तस्या धरांतराधारत्वं सिद्धमंतरात्माभावप्रसंगात् । ततः पर्यंतवत्यो भूमय इति निरारेकं प्रतिपत्तव्यं । ननु चाधोधः सप्तसु भूमिषु जीवस्य गतिवैचित्र्यं विरुद्धं ततो अमीभ्यः शून्याभिस्ताभिर्भवितव्यं । तथा च तत्कल्पनावैयर्थ्य जीवाधिकरणविशेषप्ररूपणार्था हि तत्परिकल्पना श्रेयसी नान्यथेति वदंतं प्रत्याहनाधोधो गतिवैचित्र्यं विरुद्ध प्राणिनामिह । तादृक् पापस्य वैचित्र्यात्तन्निमित्तस्य तत्त्वतः॥ १५
प्रसिद्धं हि तावदशुभफलं कर्म पापं तस्य प्रकर्षतारतम्यं तत्फलस्य प्रकर्षतारतम्यादिति प्राणिनां रत्नप्रभादिनरकभूमिसमुद्भतिनिमित्तभूतस्य पापविशेषस्य वैचित्र्यात्तद्गतिवैचित्र्यं न विरुध्यते तिर्यगादिगतिवैचित्र्यवत् ॥ यत एवंततः सप्तेति संख्यानं भूमीनां न विरुद्ध्यते । संख्यांतरं च संक्षेपविस्तरादिवशान्मतं ॥१६।।
न हि संक्षेपादेकाधोभूमिरिति विरुध्यते विस्तरतो वा सैकविंशतिभेदा सप्तानां प्रत्येकं जघन्यमध्यमोत्कृष्टविकल्पात् ॥ तद्गतनरकसंख्याविशेषप्रदर्शनार्थमाह;तासु त्रिंशत्पंचविंशतिपंचदशदशत्रिपंचोनैकनरकशतसहस्राणि पंच
__ चैव यथाक्रमम् ॥२॥ त्रिंशच्च पंचविंशतिश्च पंचदश च दश च त्रयश्च पचोनैकं चेति द्वंद्वः, नरकाणां शतसहस्राणि नर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org