________________
३४८ तत्त्वार्थश्लोकवार्तिके
[सू०४ कशतसहस्राणि च तानीति खपदार्था वृत्तिः, ताखिति रत्नप्रभादिभूमिपरामर्शः, यथाक्रमवचनं यथासंख्याभिसंबंधार्थ । तेन रत्नप्रभायां त्रिंशन्नरकशतसहस्राणि, शर्कराप्रभायां पंचविंशतिः, बालुकाप्रभायां पंचदश, पंकप्रभायां दश, धूमप्रभायां त्रीणि, तमःप्रभायां पंचोनैकं नरकशतसहस्रं, महातमःप्रभायां पंचनरकाणि भवंतीति विज्ञायते । कुतः पुनस्त्रिंशल्लक्षादिसंख्या रत्नप्रभादिषु सिद्धेत्याह;
त्रिंशल्लक्षादिसंख्या च नरकाणां सुसूत्रिता । रत्नप्रभादिषूक्तासु प्राण्यदृष्टविशेषतः॥१॥ ।
तादृशाः प्राणिनां तन्निवासिनामदृष्टविशेषाः पूर्वोपात्ताः संभाव्यते यतस्तासु त्रिंशल्लक्षादिसंख्या नरकाणां रत्नप्रभादिसंख्या च सिध्यतीति शोभनं सूत्रिता सा ॥ इति सूत्रद्वयेनाधोलोकावासविनिश्चयः । श्रेयान् सर्वविदायातस्याम्नायस्याविलोपतः ॥२॥
न हि सर्वविदायातत्वमेतदाम्नायस्यासिद्धं बाधकाभावात् स्वर्गाद्यान्नायवत् , प्राक् चिंतितं चागमस्य प्रामाण्यमिति नेह प्रतन्यते ॥ कीदृशलेश्यादयस्तत्र प्राणिनो वसंतीत्याह;
नारका नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः ॥३॥ लेश्यादिशब्दा उक्तार्थाः । तिर्यग्व्यपेक्षयातिशयनिर्देशः पूर्वोपेक्षो वाधोगतानां । नित्यग्रहणाल्लेश्याद्यनिवृत्तिप्रसंग इति चेन्न, आभीक्ष्ण्यवचनत्वान्नित्यशब्दस्य नित्यप्रहसितवत् ॥
के पुनरेवं विशेष्यमाणा नारकाणामित्याह;तिर्यंचोऽशुभलेश्याद्यास्तेभ्योप्यतिशयेन ये । प्राणिनोऽशुभलेश्याद्याः केचित्ते तत्र नारकाः॥१॥
तिर्यचस्तावदशुभलेश्याः केचित्प्रसिद्धास्ततोप्यतिशयेनाशुभलेश्याः प्राणिनो नारकाः संभाव्यंते अशु. भतरलेश्याः, प्रथमायां भूमौ एवमशुभतरपरिणामादयोपीति प्रसिद्धा एव प्रतिपादितविशेषाधारी नारकाः, ततोप्यतिशयेनाशुभलेश्यादयो द्वितीयायां, ततोपि तृतीयायां, ततोपि चतुर्थी, ततोपि पंचम्यां, ततोपि षष्ठ्यां, ततोपि सप्तम्यामिति । कथं पुनरेतदशुभत्वतारतम्यं सिद्धमित्याह;संक्लेशतारतम्येनाशुभतातारतम्यता । सिद्ध्येदशुभलेश्यादितारतम्यमशेषतः ॥२॥
संक्लेशो जीवस्याविशुद्धिपरिणामो मिथ्यादर्शनादिस्तस्य तारतम्यादशुभत्वतारतम्यमशेषतोपि लेश्यादीमां सिद्ध्येदिति न तदहेतुकं यतोतिप्रसज्येत ॥ __ ननु चैकांतिकदुःखयोगिनो नारकाः सुखदुःखयोगिनां तिर्यङ्मनुष्यवचनात् , ऐकांतिकशरीरसुखयोगिनां देवत्वाभिधानात् । तत्र किमुदीरितदुःखास्ते नारका इत्याह;
परस्परोदीरितदुःखाः ॥४॥ ननु च कोपोत्पत्तौ सत्यां परस्परं दुःखोदीरणं दृष्टं नान्यथा न च तेषां तदुत्पत्तौ कारणमस्ति न चाकारणिका सातिप्रसंगादिति चेन्न, निर्दयत्वात्तेषां परस्परदर्शने सति कोपोत्पत्तेः श्ववत् । सत्यंतरंगे क्रोधकर्मोदये बहिरंगे च परस्परदर्शने तेषां कोपोत्पत्ति हेतुका यतोतिप्रसंगः स्यादिति ॥
तथा तैर्नारकैर्दुःखं परस्परसुदीर्यते । रौद्रध्यानात्समुद्भूतेः कुधेर्मेषादिभिर्यथा ॥१॥ निमित्तहेतवस्त्वेतेऽन्योन्यं दुःखसमुद्भवे । बहिरंगास्तथाभूते सति स्वकृतकर्मणि ॥२॥ ततो नेदं परस्परोदीरितदुःखत्वं नारकाणामसंभाव्यं युक्तिमत्त्वात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org