________________
•
अन्योदीरितदुःखाश्च ते इत्याह ;
तृतीयोऽध्यायः ।
संक्लिष्टासु रोदीरितदुःखाश्च प्राक् चतुर्थ्याः ॥ ५ ॥
पूर्वभवसंक्लेशपरिणामोपात्ताशुभकर्मोदयात् सततं क्लिष्टाः संक्लिष्टा असुरनामकर्मोदयादसुराः संक्लिष्टाश्च तेऽसुराश्चेति । संक्लिष्टविशेषणमन्यासुरनिवृत्त्यर्थं, असुराणां गतिविषयनियमप्रदर्शनार्थं प्राक् चतुर्थ्या इति वचनं । आङो ग्रहणं लध्वर्थमिति चेन्न, संदेहात् । चशब्दः पूर्वहेतुसमुच्चयार्थः । अनंतरत्वादुदीरितग्रहणस्येहानर्थक्यमिति चेन्न, तस्य वृत्तौ परार्थत्वात् । वाक्येऽवचनमिति चेन्न, उदीरणहेतुप्रकारप्रदर्शनार्थत्वात् पुनरुदीरितग्रहणस्य । तेन कुंभीपाकाद्युदीरितदुःखाश्चेति प्रतिपादितं भवति ॥
Jain Education International
३४९
कथं पुनः
संक्लिष्टैरसुरैर्दुःखं नारकाणामुदीर्यते । मेषादीनां यथा तारूपैस्तिषु भूमिषु ॥ १॥ परासु गमनाभावात्तेषां तद्वासिदेहिनां । दुःखोत्पत्तौ निमित्तत्वमसुराणां न विद्यते ॥ २ ॥ एवं सूत्रत्रयोनीतस्वभावा नारकांगिनः । स्वकर्मवशतः संति प्रमाणनयगोचराः ॥ ३ ॥ प्रमाणं परमागमः स्याद्वादस्तद्विषयास्तावद्यथोन्नीता नारका जीवाः साकल्येन तेषां ततः प्रतिपत्तेः नयविषयाश्च विप्रतिपत्तिसमाक्रांतैकदेशप्रतिपत्तेरन्यथानुपपत्तेरिति प्रमाणनयैरधिगमो नानानारकाणामूह्यः ॥ अथ रत्नप्रभादिनरकेषु त्रिंशल्लक्षादिसंख्येषु यथाक्रमं स्थितिविशेषप्रतिपत्त्यर्थमाह; - तेष्वेक त्रिसप्तदश सप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमा सत्त्वानां परा स्थितिः ॥ ६ ॥
सागर उपमा येषां तानि सागरोपमाणि, सागरस्योपमात्वं द्रव्यभूयस्त्वात् । एकत्रिसप्तदश सप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमाणि यस्या सा तथेत्येकादीनां कृतद्वन्द्वानां सागरोपमविशेषणत्वं । रत्नप्रभादिभिरानुपूर्व्येण संबंधो यथाक्रमानुवृत्तेः । नरकप्रसंगस्तेष्विति वचनादिति चेन्न, रत्नप्रभाद्युपलक्षितानि नरकाणि त्रिंशच्छतसहस्रादिसंख्यानि तेष्वित्यनेन परामृश्यते, साहचर्याद्वा ताच्छन्द्यात्सिद्धिः । ततो यथोक्तसंख्यनरकसाहचर्यादलप्रभादयो नरकशब्दवाच्याः प्रतीयते । यद्येवं रत्नप्रभादिष्वधिकरणभूतासु नरकाणां स्थितिः प्रसक्तेति चेत्, सत्त्वानामिति वचनात् । परोत्कृष्टा न पुनरिष्टा परशब्दस्येष्टवाचकस्येहाग्रहणात् ॥ कुतः सोत्कृष्टा स्थितिः सत्त्वानां प्रसिद्धेत्याह;;
नरकेषूदितैकादिसागरोपमसम्मितः । स्थितिरस्त्यत्र सत्त्वानां सद्भावात्तादृगायुषः ॥ १ ॥ संक्षेपादिपरा त्वग्रे वक्ष्यमाणा तु मध्यमा । सामर्थ्याद्बहुधा प्रोक्ता निर्णेतव्या यथाक्रमं ॥ २ ॥ परा स्थितिरस्ति प्राणिनां परमायुष्कत्वान्यथानुपपत्तेः । परमायुष्कत्वं पुनः केषांचित्तद्धेतुपरिणामविशेषात्स्वोपात्ताद्भवन्न वाच्यते मनुष्यतिरश्चामायुः प्रकर्षप्रसिद्धेः । तत्र रत्नप्रभायां नरकेषु सत्त्वानां परास्थितिरेकसागरोपमप्रमिताः, शर्कराप्रभायां त्रिसागरोपमप्रमिताः, बालुकाप्रभायां सप्तसागरोपमप्रमिताः, पंकप्रभायां दशसागरोपमप्रमिताः, धूमप्रभायां सप्तदशसागरोपमप्रमिताः, तमः प्रभायां द्वाविंशतिसागरोपमप्रमिताः, महातमः प्रभायां त्रयस्त्रिंशत्सागरोपमप्रमिता इति वचनसामर्थ्यान्मध्यमा स्थितिरनेकधा यथागमं निर्णीयते । जघन्यायाः स्थितेस्त्वत्र संक्षेपाद्वक्ष्यमाणत्वादित्यलं प्रपंचेन ॥
ss प्रपंचेन विचिंतनीयं शरीरिणोधोगतिभाजनस्य । स्वतत्त्वमाचारविशेषशिष्टं बुधैः स्वसंवेगविरक्तिसिद्ध्यै ॥ २ ॥ इति तृतीयाध्यायस्य प्रथममाह्निकं समाप्तं ।
For Private & Personal Use Only
www.jainelibrary.org