________________
३५०
तत्त्वार्थश्लोकवार्तिके
[सू० १० जंबूदीपलवणोदादयः शुभनामानो द्वीपसमुद्राः ॥७॥ प्रतिविशिष्टजंबूवृक्षासाधारणाधिकरणाजंबूद्वीपः, लवणोदकानुयोगाल्लवणोदः । आदिशब्दः प्रत्येकमभिसंबध्यते तेन जंबूद्वीपादयो द्वीपा लवणोदादयः समुद्रा इति संप्रत्ययः । शुभनामान इति वचनादशुभनामत्वनिरासः ॥ किंविष्कंभाः किंपरिक्षेपिणः किमाकृतयश्च ते इत्याह;
दिर्दिर्विष्कंभाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः॥८॥ द्विििरति वीप्साभ्यावृत्तेर्वचनं विष्कंभद्विगुणत्वव्याप्त्यर्थ, पूर्वपूर्वपरिक्षेपिण इति वचनादनिष्टनिवेशनिवृत्तिः, वलयाकृतय इतिवचनाच्चतुरस्रादिसंस्थाननिवृत्तिः । जंबूद्वीपस्य द्विर्विष्कंभत्वपूर्वपरिक्षेपित्ववलयाकृतित्वाभावादव्यापीनि विशेषणानीति चेत् न, जंबूद्वीपस्यैतदपवादलक्षणस्य वक्ष्यमाणत्वात् 'तन्मध्ये' इत्यादि सूत्रस्यानंतरस्य सद्भावात् ॥
क पुनरिमे द्वीपसमुद्रा इत्याह;सप्ताधो भूमयो यसान्मध्यलोको बलाद्गतः । तत्र द्वीपसमुद्राः स्युः सूत्रद्वितयवर्णिता ॥१॥ ऊर्ध्वाधोलोकवचनसामर्थ्यान्मध्यलोकस्तावद्गत एव यस्मादधोरत्नप्रभायाः सप्तभूमयः प्रतिपादितास्तस्मिन् मध्यलोके द्वीपसमुद्राः संक्षेपादभिहिताः सूत्रद्वयेन प्रपंचतोसंख्येयास्ते यथागमं प्रतिपत्तव्याः ॥ व पुनरयं जंबूद्वीपः कीदृशश्चेत्याह;
तन्मध्ये मेरुनाभिर्वृत्तो योजनशतसहस्रविष्कंभो जंबूदीपः॥ ९॥ तच्छब्दः पूर्वद्वीपसमुद्रनिर्देशार्थः । जंबूद्वीपस्य निर्देशप्रसंगः पूर्वोक्तत्वाद्विशेषादितिचेत् , तस्य प्रतिनियतदेशादितया प्रतिपाद्यत्वात् तत्परिक्षेपिणामेव परामर्शोपपत्तेः । तर्हि पूर्वोक्तसमुद्रद्वीपनिर्देशार्थस्तच्छब्द इति वक्तव्यं जंबूद्वीपपरिक्षेपिणां समुद्रादित्वादिति चेन्न, स्थितिक्रमस्याविवक्षायां पूर्वोक्तद्वीपसमुद्रनिर्देशार्थ इति वचनाविरोधात् , यत्र कुत्रचिदवस्थितानां द्वीपानां समुद्राणां च विवक्षितत्वात् । द्वीपशब्दस्यात्माकरत्वाच्च द्वंद्वे पूर्ववचनेपि समुद्रादय एवार्थान्न्यायात् परामृश्यते । तत इदमुक्तं भवति तेषां समुद्रादीनां मध्यं तन्मध्यं तस्मिन् जंबूद्वीपः । स च मेरुनाभिरुपचरितमध्यदेशस्य मेरुत्वात् । वृत्तो न चतुरस्रादिसंस्थानः । तत्परिक्षेपिणां वलयाकृतिवचनादेव तस्य वृत्तत्वं सिद्धमिति चेन्न, चतुरस्रादिपरिक्षेपिणामपि वलयाकृतित्वाविरोधात् । योजनशतसहस्रविष्कंभ इति वचनात् तद्विगुणद्विगु. णविष्कंभादिनिर्णयः शेषसमुद्रादीनां कृतो भवति । एवं च
तन्मध्ये मेरुनाभिः स्याजंबूद्वीपो यथोदितः । सूत्रेणैकेन निःशेषकुमतानां व्यपोहनात् ॥१॥ __ सकलसर्वथैकांतनिराकरणे हि न्यायबलाद्विहिते स्याद्वाद एव व्यवतिष्ठते परमागमः, स च यथोदितजंबूद्वीपप्रकाशक इति भवेदेवं सूत्रितो जंबूद्वीपः सर्वथा बाधकाभावात् अत्र ॥ तत्र कानि क्षेत्राणीत्याह;
भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षाः क्षेत्राणि ॥ १० ॥ भरतक्षत्रिययोगाद्भरतो वर्षः अनादिसंज्ञासंबंधत्वाद्वा आदिमदनादिरूपतोपपत्तेः । स च हिमवत्समुद्रत्रयमध्ये ज्ञेयः । तत्र पंचाशद्योजनविस्तारस्तदर्घोत्सेधः षड्योजनावगाहो रजताद्रिर्विजया?न्वर्थः सक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org