________________
३३८ तत्त्वार्थश्लोकवार्तिके
[ सू० ४० णयोरसंख्येयगुणत्वं । किं तर्हि ? औदारिकाद्वैक्रियिकं प्रदेशतोऽसंख्येयगुणं ततोप्याहारकमिति निश्चयः ।। तैजसकार्मणे किंगुणे इत्याह;
अनंतगुणे परे ॥ ३९ ॥ प्रदेशत इत्यनुवर्तते परं परमिति च, तेनाहारकात्परं तैजसं प्रदेशतोऽनंतगुणं ततोपि कार्मणमनंत- । गुणमिति विज्ञायते । तत एव नोभयोस्तुल्यत्वमाहारकादनंतगुणत्वाभावात् । अन्यदेव हि आहारकादनंतगुणत्वं तैजसस्य, तैजसाच्चान्यत् कार्मणस्य तस्यानंतविकल्पत्वात् परस्मिन् सत्यारातीयस्यावरत्वावरे इति निर्देशो न प्रसज्यते बुद्धिविषयव्यापारादुभयोराहारत्वोपपत्तेः । व्यवहितेपि वा परशब्दप्रयोगात् । ननु च यदि प्रदेशापेक्षया परं परमसंख्येयगुणमनंतगुणं चोच्यते सूक्ष्मं कथमित्याह;क्षेत्रावगाहनापेक्षां कृत्वा मूक्ष्म परं परं । तैजसात्प्रागसंख्येयगुणं ज्ञेयं प्रदेशतः ॥१॥
तथानंतगुणे ज्ञेये परे तैजसकार्मणे । तर्हि सप्रतिघाते ते प्राप्ते इत्याह;
अप्रतीपाते ॥ ४०॥ प्रतीघातो मूर्त्यतरव्याघातः स न विद्यते ययोस्तेऽप्रतीपाते तैजसकामणे । कुत इत्याह;
सर्वतोप्यप्रतीपाते परिणामविशेषतः। वैक्रियिकाहारयोरप्यप्रतीघातत्वमिति न मंतव्यं, सर्वतोऽप्रतीघातस्य तयोरभावात् । न हि वैक्रियिक सर्वतो प्रतीघातमाहारकं वा प्रतिनियतविषयत्वात्तदप्रतीघातस्य । तैजसकार्मणे पुनः सर्वस्य संसारिणः सर्वतोप्रतीघाते ताभ्यां सह सर्वत्रोत्पादान्यथानुपपत्तेः । ततस्तर्हि सूत्रे सर्वतो ग्रहणं कर्तव्यमिति चेत् न, मुख्यस्य प्रतीघातस्यात्र विवक्षितत्वात् । कुतः पुनस्तादृशोऽप्रतीघात इति चेत् , सूक्ष्मपरिणामविशेषादयस्पिंडे तेजोनुप्रवेशवत् । ये त्वाहुः, पूर्व पूर्व सूक्ष्मं युक्तं प्रदेशतोल्पत्वादिति तान् प्रत्याह;
प्रदेशतोल्पतातारतम्यं कायेषु ये विदुः । सूक्ष्मतातारतम्यस्य साधनं ते कुतार्किकाः ॥ १ ॥ तस्य कार्यासपिंडेनानेकांतात्रिष्विलात्मनां । प्रदेशबहुतातारतम्यवत्स्थौल्यबंधने ॥२॥
यथैव प्रदेशबहुत्वतारतम्यमुत्तरोत्तरशरीरेषु स्थूलत्वप्रकर्षे साध्ये निबिडावयवसंयोगपरिणामेनायस्पिडेनानैकांतिकमिति न तत्र स्थूलतातारतम्यं साधयति तथा प्रदेशाल्पत्वतारतम्यमपि पूर्वशरीरेषु न सूक्ष्मतातारतम्यमिति स्वहेतुविशेषसांनिध्यात् तैजसकार्मणयोरनंतगुणत्वेपि पूर्वकायः सूक्ष्मपरिणामः सिद्धः सर्वतोप्रतीघातत्वं साधयत्येवायस्पिडे तेजोनुप्रवेशवदिति सूक्तं । न हि तेजसोयस्पिडेन प्रतीपाते तत्रानुप्रवेशो युज्येत । स्यान्मतं, तेजसः संयोगविशेषादयस्पिंडावयवेषु कर्माण्युत्प्रतिपद्यते ततो विभागस्ततः संयोगविनाशस्ततोपि तस्यायपिंडावयविनो विनाशस्ततोप्यौप्ण्यापेक्षादग्निसंयोगात्तदवयवेप्वनुष्णाशीतस्पर्श विनाशः परस्मादग्निसंयोगादुष्णस्पर्शोत्पत्तिः ततस्तदुपभोक्तुरदृष्टविशेषवशाढ्यणुकादिप्रक्रमेण तादृशस्यैवायपिंडस्योत्पत्तिः । एवं च नायस्पिडे तदवस्थे तेजसोनुप्रवेशोस्ति यतोऽप्रतीघातस्य विधाते निदर्शनीक्रियेतेति । तदयुक्तं, प्रतीतिविरोधात् । स एवायमयस्पिंडस्तेजोव्याप्तः प्रतिभाति यः पूर्वमनुष्णः समुपलब्ध इति प्रतीतेः । परत्र प्रक्रियामात्रस्य जातुचिदप्रतीतेन भ्रांतत्वं सदृशापरोत्पत्तेस्तथा प्रतीतिरिति चेन्न, एकत्वादिवत् । न हि किंचिन्मूर्तमति प्रविशदमूर्त दृष्टं । व्योम दृष्टमिति चेन्न, तत्र मूर्तमति मूर्तेष्वपि तथा प्रसंगात् । तथा च तत्कथंचित्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org