________________
३३७
द्वितीयोऽध्यायः। अथ जीवस्य कति शरीराणीत्याह;
औदारिकवैक्रियिकाहारकतैजसकार्मणानि शरीराणि ॥ ३६ ॥ शरीरनामकर्मोदये सति शीर्यंत इति शरीराणि । शरणक्रियात्र व्युत्पत्तिनिमित्तं तु शरीरनामकर्मोदय एवोदितः शरीरत्वपरिणामः न पुनरर्थातरभूतशरीरत्वसामान्यं तस्य विचार्यमाणस्यायोगात् ॥ केन पुनः कारणेन जन्मांतरं शरीराण्याहुरित्युच्यते
स्वयोनौ जन्म जीवस्य शरीरोत्पत्तिरिष्यते । तेनात्रौदारिकादीनि शरीराणि प्रचक्षते १ औदारिकादिशरीरनामकर्मविशेषोदयापादितानि पंचैवौदारिकादीनि शरीराणि जीवस्य यदुत्पत्तिः खयोनौ जन्मोक्तं, न हि गतिनामोदयमानं जन्म, अनुत्पन्नशरीरस्यापि तत्प्रसंगात् । तत्रोदारं स्थूलं प्रयोजनमस्येत्यौदारिकं उदारे भवमिति वा, विक्रिया प्रयोजनमस्येति वैक्रियिकमाह्रियते तदित्याहारकं, तेजोनिमित्तत्वात्तैजसं, कर्मणामिदं कार्मणं तत्समूहो वा । एतेषां द्वंद्वे, पूर्वमौदारिकस्य ग्रहणमतिस्थूलत्वात् उत्तरेषां क्रमवचनं । सूक्ष्मक्रमसूक्ष्मप्रतिपत्त्यर्थ कार्मणग्रहणमादौ युक्तमौदारिकादिशरीराणां तत्कार्यत्वादिति चेन्न, तस्यात्यंतपरोक्षत्वात् । औदारिकमपि परोक्षमिति चेन्न, तस्य केषांचित्परोक्षत्वात् । तथाहि
सिद्धमौदारिकं तिर्यमानुषाणामनेकधा । शरीरं तत्र तन्नामकर्मवैचित्र्यतो बृहत् ॥२॥
बृहद्धि शरीरमौदारिकं मनुष्याणां तिरश्चां च प्रत्यक्षतः सिद्धं तेषु शरीरेषु मध्ये । तच्चानेकधा तन्ना. मकर्मणोनेकविधत्वात् ॥ शेषाणि कुतः सिद्धानीत्याह---
संभाव्यानि ततोन्यानि बाधकामावनिर्णयात् । परमागमसिद्धानि युक्तितोपि च कार्मणं ॥३
न कर्मणामिदं कार्मणमित्यस्मिन्पक्षे सर्वमौदारिकादि कार्मणं प्रसक्तमिति चेन्न, प्रतिनियतकर्मनिमित्तत्वात् तेषां भेदोपपत्तेः । कर्मसामान्यकृतत्वादभेद इति चेन्न, एकमृदादिकारणपूर्वकस्यापि घटोदंचनादेर्भेददर्शनात् कार्मणप्रणालिकया च तन्निप्पत्तिः खोपादानभेदाढ़ेदः प्रसिद्धः । पृथगुपलंभप्रसंग इति चेन्न, विश्रसोपचयेन स्थानात् क्लिन्नगुडरेणुश्लेषवदौदारिकादीनां कार्मणनिमित्तत्वे कार्मणं किं निमित्तमिति वाच्यं ? न तावन्निनिमित्तं तदनिर्मोक्षप्रसंगाद्वाभिभावप्रसंगाद्वा शरीरांतरनिमित्तत्वे तु तस्याप्यन्यशरीरनिमित्तत्वेनवस्थापत्तिरिति चेन्न, तस्यैव निमित्तभावात् । पूर्व हि कार्मणं कार्मणस्य निमित्तं तदपि तदुत्तरस्येति निमित्तनैमित्तिकभावोऽविरुध्यते । नचैवमनवस्थापत्तिः कार्यकारणभावेन तत्संतानस्यानादेरविरोधात् । मिथ्यादर्शनादिनिमित्तत्वाच नानिमित्तं कार्मणं, ततो नानिर्मोक्षप्रसंगः । तच्चैवंविधं परमागमात्सिद्धं वैक्रियिकादिवत् युक्तितश्च यथाप्रदेशं साधयिष्यते ॥ ननु यद्यौदारिकं स्थूलं तदा परं परं कीदृशमित्याह;
परं परं सूक्ष्मम् ॥ ३७॥ परशब्दस्यानेकार्थत्वे विवक्षातो व्यवस्थार्थगतिः पृथग्भूतानां सूक्ष्मगुणेन वीप्सानिर्देशः तेनौदारिकात्परं वैक्रियिकं सूक्ष्मं न स्थूलतरं, ततोप्याहारकं, ततोपि तैजसं सूक्ष्म, ततोपि कार्मणमिति संप्रतीयते ॥ प्रदेशतः परं परं कीदृगित्याह;
प्रदेशतोऽसंख्येयगुणं प्राक्तैजसात् ॥ ३८॥ प्रदेशाः परमाणवस्ततोऽसंख्येयगुणं परंपरमित्यभिसंबंधः प्राक्तैजसादिति वचनात् । न तैजसकार्म
४३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org