________________
तत्त्वार्थश्लोकवार्तिके
[सू० ३५ तद्वैचित्र्यं पुनः कर्मवैचित्र्यात्तद्विहन्यते । कार्यवैचित्र्यसिद्धेस्तु कर्मवैचित्र्यनिर्णयः ॥२॥ .
न हि खभावत एव प्राणिनां सुखदुःखानुभवादिकार्यवैचित्र्यं नियमाभावप्रसंगात् । कालादेवेति वा युक्तं, एकस्मिन्नपि काले तद्वैचित्र्यानुभवात् । भूतवैचित्र्यात्सुखादिवैचित्र्यमिति चेत् न, सुखादेः भूतकार्यत्वनिषेधात् । ततः कर्मवैचित्र्यमेव सुखादिकार्यवैचित्र्यं गमयति, तव्यतिरेकेण दृष्टकारणसाकल्येपि कदाचिदनुत्पत्तेः । तच्च कर्मवैचित्र्यमस्य जन्मनिमित्तमिति पर्याप्तं प्रपंचकेन ॥ केषां पुनर्गजन्मेत्याह;
जरायुजांडजपोतानां गर्भः ॥ ३३॥ जालवत्प्राणिपरिवरणं जरायुः जरायौ जाता जरायुजाः, शुक्रशोणितपरिवरणमुपात्तकाठिन्यं नखत्वक्सदृशं परिमंडलमंडं अंडे जाता अंडजाः पूर्णावयवः परिस्पंदादिसामोपलक्षितः पोतः । पोतज इत्ययुक्तमर्थभेदाभावात् । आत्मा पोतज इति चेन्न, तस्यापि पोतपरिमाणात्मात्मनः पोतत्वात् । जरायुजाश्च अंडजाश्च पोताश्च जरायुजांडजपोता इति सिद्धं द्वंद्वे । जरायुग्रहणमादावभ्यर्हितत्वात् क्रियारंभशक्तियोगात् केषांचिन्महाप्रभावत्वान्मार्गफलाभिसंबंधाच्च । तदनंतरमंडजग्रहणं पोतेभ्योऽभ्यर्हितत्वात् । एतेषां गर्भ एव जन्मेति सूत्रार्थः । उद्देशे च निर्देशो युक्त इति चेन्न, गौरवप्रसंगात् । शेषाणां संमूईनमिति लघुनोपायेन गर्भोपपादानंतरं वचनोपपत्तेः ॥ कुतः पुनर्जरायुजादीनां गर्भ एव युक्त इत्याह;
युक्तो जरायुजादीनामेव गर्भोवधारणात् । देवनारकशेषाणां गर्भाभावविभावनात् ॥१॥
यदि हि जरायुजादीनां गर्भ एवेत्यवधारणं स्यात्तदा जरायुजादयो गर्भनियताः स्युः गर्भस्तु तेप्वनियत इति देवनारकेषु शेषेषु स प्रसज्येत । यदा तु जरायुजादीनामेवेत्यवधारणं तदा तेषु गर्भाभावो विभाव्यत इति युक्तो जरायुजादीनामेव गर्भः ॥ केवलमुपपादेपि जरायुजादीनां प्रसक्तौ तन्निवारणार्थमिदमाह;
देवनारकाणामुपपादः ॥ ३४ ॥ स्थाद्देवनारकाणामुपपादो नियतस्तथा । तस्याभावात्ततोन्येषां तेषां जन्मांतरच्युतेः॥१॥
देवनारकाणामेवोपपाद इति हि नियमे देवनारकेषु नियत उपपादः देवनारकास्तूपपादेन नियता इति गर्भसंमूर्छनयोरपि प्रसक्ताः पूर्वोत्तरसूत्रावधारणात् । तत्र निरुवाच, कोसौ ? उपपाद एव नारका अवतिष्ठते न गर्ने संमूर्छने वा प्रसज्यंते ततस्तेषां जन्मांतरच्युतिसिद्धेरुपपाद एव ॥ नन्वेवं जरायुजादीनां देवनारकाणां च संमूर्छनेपि प्रसक्तिरित्याख्यातं प्रतिघ्नन्नाह;
शेषाणां संमूर्छनम् ॥ ३५॥ शेषाणामेव संमूर्छनमित्यवधारणीयं । के पुनः शेषाः कुतो वा तेषामेव संमूर्छनमित्याह;निर्दिष्टेभ्यस्तु शेषाणां युक्तं संमूर्छनं सदा । गर्भोपपादयोस्तत्र प्रतीत्यनुपपत्तितः ॥ १॥
उक्तेभ्यो जरायुजादिभ्यो देवनारकेभ्यश्च अन्ये शेषास्तेषामेव संमूर्छनं युक्तं सदा गर्भोपपादयोस्तत्र प्रतीत्यनुपपत्तेः । तर्हि संखेदजादीनां जन्मकारोन्यः सूत्रयितव्य इत्याशंकामपसारयन्नाह;तथा संवेदजादीनामपि संमूर्छनं मतं । जन्मेति नापरो जन्मप्रकारो सूत्रितोस्ति नः ॥२॥ इत्येवं पंचभिः सूत्रैः सूत्रितं जन्म जन्मिनां । भेदप्रभेदतश्चिंत्यं युक्त्यागमसमाश्रयं ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org