________________
द्वितीयोऽध्यायः ।
३३५
परिणामी यथा कालो गतिमानाहरत्यतः । खोपात्तकर्मसृष्टेष्टदेशादीन् पुंङ्गलान्तरं ॥ ७ ॥ इति विग्रहसंप्राप्त्यै गतिर्जीवस्य युज्यते । पङ्गिः सूत्रैः सुनिर्णीता निर्बाधं जैनदर्शने ॥ ८ ॥ अथैवं निरूपितगतेर्जीवस्य नियतकालात्मलाभस्य षष्टिकाद्यात्मलाभवत्संभाव्यमानस्य जन्मभेदप्रतिपादनार्थमाह; -
संमूर्च्छनगर्भोपपादा जन्म ॥ ३१ ॥
समंततो मूर्छनं शरीराकारतया सर्वतः पुद्गलानां सम्मूर्छनं, शुक्रशोणितगरणाद्गर्भः मातृप्रयुक्ताहारात्मसात्करणाद्वा, उपेत्य पद्यतेस्मिन्नित्युपपादः । एतेषामितरेतरयोगे द्वंद्वे । संमूर्च्छनस्य ग्रहणमादावतिस्थूलत्वात् अल्पकालजीवित्वात् तत्कार्यकारणप्रत्यक्षत्वाच्च तदनंतरं गर्भस्य ग्रहणं कालप्रकर्षानिष्पत्तेः, उपपादस्य ग्रहणमंते दीर्घजीवित्वात् । त एते जीवस्य जन्मेति प्रत्येयं । संमूर्छनादिभेदात् जन्मभेदवचनभेदप्रसंग इति चेन्न, जन्मसामान्योपादानानां तदेकत्वोपपत्तेः ॥
कुतः पुनः संमूर्छनादय एव जन्मभेदा इत्याह ;
संमूर्छनादयो जन्म पुंसो भेदेन संग्रहात् । सतोपि जन्मभेदस्य परस्यांतर्गतेरिह || १ | संखेदोद्भेदादयः परे जन्मभेदाः संमूर्छनात् तेषां तत्रैवांतर्गमनात् । भेदेन तु संगृह्यमाणं जन्म त्रिविधं व्यवतिष्ठते संमूर्छनादिभेदः पुनर्जीवस्य तत्कारणकर्मभेदात्, सोपि खनिमित्ताध्यवसाय भेदादिति प्रतिपत्तव्यं ॥
तद्योनिप्रतिपादनार्थमाह; --
सचित्तशीतसंवृताः सेतरा मिश्राचैकशस्तद्योनयः ॥ ३२ ॥
आत्मनः परिणाम विशेषश्चित्तं, शीतः स्पर्शविशेषः, संवृतो दुरुपलक्ष्यः । सह चित्तेन वर्तत इति सचित्तः, शीतोस्यास्तीति शीतः, संत्रीयते संवृतः । सचित्तश्च शीतश्च संवृतश्च सचित्तशीत संवृताः सहे - तरैरचित्तोष्णविवृतैर्वर्तते इति सेतराः सप्रतिपक्षाः, मिश्रग्रहणमुभयात्मसंग्रहार्थं । चशब्दः प्रत्येकं समुच्चयार्थ इत्येके, तदयुक्तं तमंतरेणापि तत्प्रतीतेः पृथिव्यप्तेजोवायुरिति यथा । इतरयोनिभेदसमुच्चयार्थस्तु युक्तश्चशब्दः, एकशो ग्रहणं क्रममिश्रप्रतिपत्त्यर्थं तेन सचित्तोचित्तो मिश्रश्च शीत उष्णो मिश्रश्च संवृतो विवृतो मिश्रश्चेति नवयोनिभेदास्तस्य जन्मनः प्रतीयते तच्छब्दस्य प्रकृतापेक्षत्वात् । सचित्तादीनां द्वंद्वे पुंवद्भावाभावो भिन्नाश्रयत्वादित्येके, तदयुक्तं । पुल्लिंगस्य योनिशब्दस्येहाश्रयणात्तस्योभयलिंगत्वात् । स्त्रीलिंगस्य वा प्रयोगस्योत्तरे यदिकस्य ह्रस्वत्वस्य विधानात् द्रुतायां तपरकरणकरणान्मध्यमवलंबितयोरुपसंख्यानमित्यत्र द्वंद्वेपि तस्य दर्शनात् । योनिजन्मनोरविशेष इति चेन्न, आधाराधेयभेदाद्विशेषोपपत्तेः । सचित्तग्रहणमादौ तस्य चेतनात्मकत्वात्तदनंतरं शीताभिधानं तदप्याद्ये हेतुत्वात् । अंते संवृतग्रहणं गुप्तरूपत्वात् । तत्राचित्तयोनयो देवनारकाः, गर्भजा मिश्रयोनयः, शेषास्त्रिविकल्पाः ; शीतोष्णयोनयो देवनारकाः, उष्णयोनिस्तेजस्कायिकः, इतरे त्रिप्रकाराः ; देवनारकै केंद्रियाः संवृतयोनयः, विकलेंद्रिया विवृतयोनयः, मिश्रयोनयो गर्भजाः तद्भेदाश्चशब्दसमुच्चिताः प्रत्यक्षज्ञानदृष्टाः, इतरेषामागमगम्याश्चतुरशीतिशतसहस्रसंख्याः । तदुक्तं । “ णिच्चिदरधातुसत्तयतरुदसवियलिंदिए दोदो । असुरणिरयतिरियचदुरो चोद्दस मणुए सदसहस्सा " ॥ अथैतेषां योनिभेदानां सद्भावे युक्तिमुपदर्शयति ;तस्यापि योनयः संति सचित्ताद्या यथोदिताः । खावारेण विना जन्म क्रियाया जात्वनीक्षणात् १
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org