________________
३३४
तत्त्वार्थश्लोकवार्तिके
[सू० ३०
यदि ह्येकवक्रा गतिः स्याद् द्विवचैव वा तदा वेत्रासनाद्याकारे लोके निष्कुटक्षेत्रे क्वचित्प्रदेशे जीवस्य कुतश्चिद्देशांतरादागतस्योत्पत्तिर्न स्यात् ॥ सूक्ष्मबादरकै जीवैः सर्वो लोको निरंतरं निचितः । बादरकैश्च यथा संभवमिति परमागमवचनं । तथैकेन जीवेन सर्वलोकः प्रतिदेशं क्षेत्रीकृत इति वक्रावक्रमलभत । ननु द्विवक्रया गत्या यतो यत्र व्याप्तिः संभवति ततस्तत्र जीवस्योत्पत्तेः सर्वमसमंजसमेतद्वचनमिति चेत्, सर्वस्माल्लोकप्रदेशात्सर्वस्मिन् लोकप्रदेशांतरे जीवस्य गतिरिति सिद्धांतव्याहतिप्रसंगात् ॥
येषां च चतुरस्रः स्याल्लोको वृत्तोपि वा मतः । निष्कुटत्वविनिर्मुक्तस्तेषां सा न त्रिवक्रता ३ मा भूदित्ययुक्तं, तथा पाणिमुक्ता लांगलिका गोमूत्रिका चैकद्वित्रिवत्रा संसारिणो गतिरिति सिद्धांतविरोधात् । तदविरुद्धमनुरुध्यमानैः त्रिवक्रा तु गतिरभ्युपगंतव्या, न चासौ निष्कुटत्वविनिर्मुक्ते चतुरस्रे वृत्ते वा लोके संभवतीति न तदुपदेशसंभवः ॥
कियत्समया पुनरवका गतिरित्याह; -
एकसमयाविग्रहा ॥ २९ ॥
गतिरित्यनुवर्तनेन सामानाधिकरण्यात्स्त्रीलिंगनिर्देशः कृतः । एकः समयोऽस्या इत्येकसमया, न विद्यते विग्रहो व्याघातोस्या इत्यविग्रहा ऋज्वी गतिरित्यर्थः ॥ कुतश्चैवमित्याह; —
अविग्रहा गतिस्तत्र प्रोक्तैकसमयाखिला । प्राप्तिः समयमात्रेण लोकाग्रस्य तनोरपि ॥ १ ॥ लोकाग्रप्रापणी गतिर्मुक्तस्य तावदेकसमया समाविर्भूतानंतवीर्यस्य तस्यैकसमयमात्रेण लोकाग्रप्रायुपपत्तेः । पूर्वतनुपरित्यागेन तन्वंतरप्रापणीर्वक्रगतिरेकसमयैव संसारिणोपि, संप्राप्ततादृग्वीर्यातरायक्षयोपशमस्य लोकांतरवर्तिन्याः तनोरपि समयमात्रेण प्राप्तिघटनात् । ततः सकलाप्यविग्रहा गतिरेकसमयेत्युपपन्नं । सामर्थ्यादेकवक्रा द्विसमया, द्विवका त्रिसमया, त्रिवक्रा चतुःसमयेति सिद्धं ॥
यद्येवं सर्वत्राहारको जीवः प्रसक्त इत्याकृतं प्रतिषेधयन्नाह ; -
एकं aौ त्रीन् वानाहारकः ॥ ३० ॥
एकं वा समयं द्वौ वा समयौ त्रीन् वा समयाननाहारक इति संप्रत्येयं प्रत्यासत्तेः समयस्याभिसंबंधात्, वाशब्दस्य प्रत्येकं परिसमाप्तेश्च । सप्तमीप्रसंग इति चेन्न, अत्यंत संयोगस्य विवक्षितत्वात् । कः पुनराहारो नाम येनाहारको जीवः स्यादित्यभिधीयते - त्रयाणां शरीराणां षण्णां पर्याप्तीनां योग्यपुद्गलग्रहणमाहारः तदभावाद्विग्रहगतावनाहारकः, न हि तस्यामाहारकशरीरस्य संभवः, नाप्यौदारिकवैक्रियिकशरीरयोः षण्णां पर्याप्तीनां व्याघातात् । पुनरात्मैकसमये द्वौ त्रीन् वानाहारको न पुनश्चतुर्थमपीत्याह ; -
एकं समयमात्मा द्वौ त्रीन् वा नाहारयत्ययं । शरीरत्रयपर्याप्तिप्रायोग्यान् पुद्गलानिदम् ॥ १ ॥ चतुर्थे समवश्यमाहारस्य प्रसिद्धितः । ऋज्वामिव गतौ प्राच्ये पुंसः संसारचारिणः ॥ २ ॥ द्वितीये पाणिमुक्तायां लांगलिका तृतीयके । यथा तद्वत्रिवक्रायां चतुर्थे विग्रहः ग्रहः ॥ ३ ॥ संप्रति क्षणिकाद्येकांतव्यवच्छेदेन स्याद्वादपक्ष एव विग्रहगतिर्जीवस्य संभवतीत्याह ;क्षणिकं निष्क्रियं चित्तं खशरीरप्रदेशतः । भिन्नं चित्तांतरं नैव प्रारभेत सविग्रहं ॥ ४ ॥ सर्वकारणशून्ये हि देशे कार्यस्य जन्मनि । काले वा न कचिज्ज्ञातुमस्य जन्म न सिद्ध्यति ५ कूटस्थोपि पुमान्नैव जहाति प्राच्यविग्रहं । न गृह्णात्युत्तरं कायमनित्यत्वप्रसंगतः || ६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org