________________
द्वितीयोऽध्यायः।
३३३ क्तिरुत्पत्तिरेव सामान्यादेः खव्यक्तिभिरभिव्यंग्यस्योत्पतिमत्त्वप्रसंगात् । ततो नित्यमेवेश्वरज्ञानमिति । तेन हेतोर्व्यभिचार एव । भवतु वा महेश्वरज्ञानमनित्यं तथापि सलिलपरमाणुरूपादिभिरपदेशस्यानैकांतिकता दुष्परिहरेत्यलं प्रसंगेन, सर्वथात्मनो गतिमत्त्वस्य प्रतिषेद्भुमशक्तेः ॥ ___ कथं पुनरशरीरस्यात्मनो गतिरित्याह;
अनुश्रेणि गतिः ॥ २६ ॥ __ आकाशप्रदेशपंक्तिः श्रेणिः अनोरानुपूर्ये वृत्तिः श्रेणेरानुपूर्येणानुश्रेणि जीवस्य पुद्गलस्य च गतिरिति प्रतिपत्तव्यं । जीवाधिकारात्पुद्गलस्यासंप्रत्यय इति चेन्न, पुनर्गतिग्रहणात्तत्संप्रत्ययात् क्रियांतरनिवृत्त्यर्थमिह गतिग्रहणमिति चेन्न, अवस्थानाद्यसंभवात् क्रियांतरनिवृत्तिसिद्धेः । उत्तरसूत्रे जीवग्रहणाचेह शरीरपुद्गलस्य जीवस्यानुश्रेणिगतिः संप्रतीयते । ननु च कुतो जीवस्य चानुश्रेणिगतिनिश्चिता ज्योतिरादीनां निःश्रेणिगतिदर्शनात् तन्नियमानुपपत्तेरिति कश्चित् । तं प्रत्याह;सिद्धा गतिरनुश्रेणि देहिनः परमागमात् । लोकांतरं प्रतिज्ञेयं पुद्गलस्य च नान्यथा ॥७॥ कः पुनरसौ परमागमस्तदावेदकः कुतो वास्य प्रमाणत्वमित्याह;
पोढा प्रक्रमयुक्तोयमात्मेति वचनं पुमान् । संप्रदायात्सुनितासंभवद्वाधकत्वतः ॥८॥ ___ षट्प्रक्रमयुक्तो जीव इति परमागमः खतः संप्रदायाविच्छेदात्प्रमाणं सुनिर्णीतासंभवद्बाधकत्वाद्वा मोक्षमार्गवदिति निरूपितप्रायं । ततो जीवस्य पुद्गलस्य च देशकालनियमादनुश्रेणि गतिः सिद्धा बोद्धव्या ॥ मुक्तस्यात्मनः कीदृशी गतिरित्याह;
अविग्रहा जीवस्य ॥ २७॥ उत्तरसूत्रे संसारिग्रहणादिह मुक्तस्य गतिः । विग्रहो व्याघातः कौटिल्यमिति यावत् , न विद्यते विग्रहोस्या इत्यविग्रहा मुक्तस्य जीवस्य गतिरित्यभिसंबंधः ॥ कुत इत्याह;
गतिर्मुक्तस्य जीवस्याविग्रहा वक्रतां प्रति । निमित्ताभावतस्तस्य स्वभावेनोर्ध्वगत्वतः ॥१॥ ऊर्ध्वव्रज्याखभावो जीव इति युक्त्यागमाभ्यामुत्तरत्र निर्णेप्यते, ततो मुक्तस्यान्यत्र गमने तद्वक्रीभावे च कारणाभावाद्वक्रीभावाभावादविग्रहा गतिः ॥ संसारिणः कीदृशी गतिरित्याह;
विग्रहवती च संसारिणः प्राक् चतुर्थ्यः ॥ २८ ॥ च शब्दादविग्रहा चेति समुच्चयः तेन संसारिणो जीवस्य नाविग्रहगतेरपवादो, विग्रहवत्या विधानादिति संप्रत्ययः कालपरिच्छेदार्थः प्राक् चतुर्थ्य इति वचनात् । आङो ग्रहणं लध्वर्थ कर्तव्यमिति चेन्न, अभिविधिप्रसंगात् । उभयसंभवे व्याख्यानतो मर्यादासंप्रत्यय इति चेन्न, प्रतिपत्तेर्गौरवात् । प्रतिपत्तिगौरवाद्वरं ग्रंथगौरवं इति वचनाच्च प्राग्ग्रहणमस्तु ॥ कुतश्चतुर्व्यः समयेभ्यः प्रागेव विग्रहवती गतिः संसारिणो न पुनश्चतुर्थे समये परत्रेत्याशंकायामिदमाह;
संसारिणः पुनर्वक्रीभावयुक्ता च सा मता । चतुर्थ्यः समयेभ्यः प्राक परतस्तदसंभवात्॥१॥ त्रिवक्रगतिसंभवः कुत इत्याह;निष्कुटक्षेत्रसंसिद्धेस्त्रिवक्रगतिसंभवः । एकद्विवक्रया गत्या कचिदुत्पत्त्ययोगतः ॥ २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org