________________
३३२
तत्त्वार्थ श्लोकवार्तिके
[सू० २५
यत्र यत्कृतक्रियोपलंभः तत्र क्रियाहेतुगुणसंबंधोस्ति यथा वनस्पतौ वायुकृतक्रियोपलभाद्वायौ तथा चात्मकृतक्रियोपलंभः काये तस्मादात्मनि क्रियाहेतुगुणसंबंधोस्ति इति निश्चीयते । कः पुनरसावात्मनि क्रिया हेतुगुणः प्रयत्नादिः । प्रयत्नवहा ह्यात्मना बुद्धिपूर्विका क्रियाकाये क्रियते, अबुद्धिपूर्विका तु धर्माधर्मवतान्यथा तदयोगात् । ननु च क्रियाहेतुगुणयुक्तः कश्चिदन्यत्र क्रियामारभमाणः क्रियावान् दृष्टो यथा वेगेन युक्तो वायुर्वनस्पतौ, कश्चित्पुनरक्रियो यथाकाशं पतत्रीणि तथात्मा क्रियाहेतुगुणयुक्तश्च स्यादक्रियश्चेति नायं हेतुः क्रियावत्त्वं साधयेदाकाशेन व्यभिचारात् इति कश्चित्, सोत्रैवं पर्यनुयोक्तव्यः । केन क्रिया हेतुना गुणेन युक्तमाकाशमिति ? वायुसंयोगेनेति चेन्न, तस्य क्रियाहेतुत्वासिद्धेः । वनस्पतौ वायुसंयोगात् क्रियाहेतुरसाविति चेन्न तस्मिन् सत्यप्यभावात् । विशिष्टो वायुसंयोगः क्रियाहेतुरिति चेत्, कः पुनरसौ ? नोदनमभिघातश्चेति । किं पुनर्नोदनं कश्चाभिघातः ? वेगवद्द्रव्यसंयोग इति चेत्, तर्हि वेग एव क्रियाहेतुस्तद्भावे भावात् तदभावे वाभावात् नत्वाकाशस्य वेगोस्तीति न क्रियाहेतुगुणयुक्तमाकाशं ततो न तेन साधनस्य व्यभिचारः । अथ मतं न गतिमानात्मा सर्वगतत्वादाका - शवदित्यनुमानाद्गतिमत्त्वस्य प्रतिषेधादनुमानविरुद्धः पक्ष इति । तदयुक्तं पुंसः सर्वगतत्वासिद्धेः काये एव तस्य संवेदनात् ततो बहिः संवित्त्यभावात् । सर्वगतः पुमान् नित्यत्वे सत्यमूर्तत्वादाकाशवदिति चेन्न, अस्य कालात्ययापदिष्टत्वात् साधनस्य धर्मिग्राहकप्रमाणबाधितत्वात् प्रत्यक्षविरुद्धपक्षनिर्देशानंतरप्रयुक्तत्वात् शीतोग्निर्द्रव्यत्वात् जलवदित्यादिवत् । एतेनामूर्तद्रव्यत्वात्सर्वत्रोपलभ्यमानगुणत्वादित्येवमादयो हेतवः प्रत्याख्याताः प्रत्यक्षबाधितविषयत्वाविशेषात् । किंच, नित्यत्वे सत्यमूर्तत्वादित्ययं हेतुरीश्वरज्ञानेन अनैकांतिकः तस्यासर्वगतस्यापि नित्यत्वामूर्तत्वसिद्धेः नित्यं हीश्वरज्ञानमनाद्यनंतत्वात् सुरवर्त्मवत् । तस्य सादिपर्यंतत्वे सति महेश्वरस्य सर्वार्थपरिच्छेदविरोधात् । योप्याह, अनित्यमीश्वरज्ञानमुत्पत्तिमत्त्वात् कलशादिवत् उत्पत्तिमत्तदात्मांतःकरणसंयोगापेक्षत्वादस्मदादिज्ञानवत् । योगजधर्मानुग्रहीतेन हि मनसेश्वरस्य संयोगे सति सर्वार्थे ज्ञानमुत्पाद्यते । न चैवं, तदादिपर्यंतवत् संतानरूपतयानादिपर्यंतत्वोपपत्तेः । योगसंतानो हि महेशस्यानादिपर्यंतः सदा रागादिमलैरस्पृष्टत्वात् अनादिशुद्धाधिष्ठानत्वाद्भुजश्च धर्मविशेषः तदनुग्रहश्च मनसः तेन संयोगश्चेति तन्निमित्तं सर्वार्थज्ञानमनादिपर्यंतमुपपद्यते प्रमाणफलत्वाच्चेश्वरज्ञानमनित्यं नित्यत्वे तस्य प्रमाणफलत्वविरोधात् विशेषणगुणत्वाच्च तदनित्यं सुखादिवदिति, तस्यापि गृहीतग्राहीश्वरज्ञानमायातं । ततश्च न प्रमाणं स्मरणादिवत् गृहीतग्राहिणोपि तस्य प्रमाणत्वे प्रमाणसंप्लववादिनामनुभूतार्थे स्मरणादेः प्रमाणत्वानुषंगः केन निवार्येत । स्यान्मतं, प्रमाणांतरेणाग्रहीतस्य सकलसूक्ष्माद्यर्थस्य महेश्वरज्ञानसंतानेन ग्रहणान्न तस्य ग्रहीतग्राहित्वमिति । तदसत् । धारावाहिज्ञानस्या - प्येवं गृहीतग्राहित्वाभावात् प्रमाणतापत्तेः । तत्प्रमाणत्वोपगमे तथैव प्रमाणांतरागृहीतत्वानुभवस्मरणप्रत्यभिज्ञानादिसंतानस्य प्रवर्तमानस्यागृहीतग्राहित्वात् प्रमाणत्वमस्तु । यदि पुनरनुभवादीनामेकसंतानत्वेप्यनुभवगृहीतेर्थे स्मरणादेः प्रवृत्तेरप्रमाणत्वं तदा प्रथमज्ञानेन परिच्छिन्नेर्थे तदुत्तरोत्तरधारावाहिविज्ञानानां कुतः प्रमाणत्वं ? तदुपयोग विशेषादितिचेत्, तत एव स्मृत्यादीनां प्रमाणत्वमस्तु सर्वथा विशेषाभावात् । तथा सति प्रमाणसंख्यानियमो न व्यवतिष्ठेतेत्युक्तं पुरस्तात् । तस्मादनेन गृहीतग्राहित्वात्कस्यचिद्विज्ञानस्य प्रमाणत्वमुररीकुर्वता महेश्वरज्ञानस्याप्युत्तरोत्तरस्य पूर्वज्ञानं परिच्छिन्नार्थग्राहित्वादप्रमाणत्वं दुःशकं परिहर्तुं । यदप्युक्तं, महेश्वरज्ञानस्य नित्यत्वे प्रमाणफलत्वाभाव इति । तदप्ययुक्तं । तस्योपचारतः प्रमाणफलत्वोपपत्तेः । यथैव ईश्वरस्यांतःकरणसंयोगादिसामग्री नित्यज्ञानस्याभिव्यक्तत्वादुपचारतः प्रमाणं तथा तद्व्यंग्यत्वान्नित्यस्यापीश्वरज्ञानस्योपचारतः प्रमाणफलत्वमुपपद्यत एव । न चाभिव्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org