________________
द्वितीयोऽध्यायः ।
३३१ इति सूत्रत्रयेणाक्षमनसां स्वामिनिश्चयः । संश्यसंज्ञिविभागश्च सामर्थ्याद्विहितोजसा ॥६॥
यथा स्पर्शनस्य वनस्पत्यंताः खामिनः कृम्यादयः तस्य रसनवृद्धस्य, पिपीलिकादयस्तयोर्घाणवृद्धयोः भ्रमरादयस्तेषां चक्षुर्वृद्धानां, मनुष्यादयस्तेषामपि श्रोत्रवृद्धानां तथा संज्ञिनो मनस इति प्रतिपत्तव्यं । ये तु मनसोऽखामिनः संसारिणस्ते न संज्ञिनः इति संश्यसंज्ञिविभागश्च परमार्थतो विहितः ॥ • तदेवमाह्निकार्थमुपसंहरन्नाह;
इति स्वतत्त्वादि विशेषरूपतो निवेदितं तु व्यवहारतो नयात् ।
तदेव सामान्यमवांतरोदितात्स्वसंग्रहात्तद्वितयप्रमाणतः ॥७॥ प्रमाणनयैरधिगम इत्युक्तं तत्र जीवस्य खतत्त्वमिह सामान्यं संग्रहादवांतरोक्तादधिगतं निवेदितं तद्भेदाः परौपशमिकादयो व्यवहारनयात् यजीवस्य खतत्त्वं तदौपशमिकादिभेदरूपमिति । पुनरप्यौपशमिकादिसामान्यं तत्संग्रहात् तद्भेदो व्यवहारात् । यदौपशमिकसामान्यं तविभेदं, यत्क्षायिकसामान्यं तन्नवभेदं, यन्मिश्रसामान्यं तदष्टादशभेदं, यदौदयिकसामान्यं तदेकविंशतिभेदं, यत्पारिणामिकं सामान्यं तत्रिभेदं इति । पुनरपि सम्यक्त्वादिसामान्यं तत्संग्रहात् तद्भेदो व्यवहारादिति संग्रहव्यवहारनिरूपणपरंपरा प्रागृजुसूत्रादवगंतव्या । सामान्यविशेषात्मकं तु खतत्त्वं सकलं प्रधानभावात् प्रमाणतोधिगतं निवेदितं सूत्रकारेण । एवं जीवस्य लक्षणं भेद इंद्रियं मनस्तद्विषयः तत्वामी च सामान्यतः संग्रहाद्विशेषतो व्यवहारात् प्रधानभावाप्तिसामान्यविशेषतः प्रमाणादधिगम्यते ॥
इति तत्त्वार्थश्लोकवार्तिकालंकारे द्वितीयाध्यायस्य प्रथममाह्निकम् ॥
विग्रहगतौ कर्मयोगः ॥२५॥ विग्रहो देहः गतिर्गमनक्रिया विग्रहाय गतिः विग्रहगतिः अश्वघासादिवदन वृत्तिः कर्म कार्मणं शरीरं कर्मैव योगः कर्मयोगः । कार्मणशरीरालंबनात्मप्रदेशपरिस्पंदरूपा क्रियेत्यर्थः । विग्रहगतौ कर्मयोगोस्तीति प्रतिपत्तव्यं, तेन पूर्व शरीरं परित्यज्योत्तरशरीराभिमुखं गच्छतो जीवस्यांतराले कर्मादानसिद्धिः ।।
कुतः पुनर्विग्रहगतौ जीवस्य कर्मयोगोस्तीति निश्चीयत इत्याह;गतौ तु विग्रहार्थायां कर्मयोगो मतोन्यथा । तेन संबंधवैधुर्याद्व्योमवनिर्वृतात्मवत् ॥१॥ येषां विग्रहनिमित्तायां गतौ जीवस्य कर्मयोगो नाभिमतस्तेषां तदा पश्चाद्वा नात्मा पूर्वकर्मसंबंधवकर्मयोगरहितत्वादाकाशवन्मुक्तात्मबंधो विपर्ययप्रसंगो वा आत्मनः परममहत्त्वात् गतिमत्त्वाभावाद्विग्रहगतिरसिद्धा । तथोत्तरशरीरयोग एव पूर्वशरीरवियोग इत्येककालत्वात्तयोर्नान्तरालमदृष्टयोगरहितं यतो पूर्वकर्मसंबंधभागात्मा न स्यादिति कश्चित् । तं प्रत्याह
गतिमत्त्वं पुनस्तस्य क्रियाहेतुगुणत्वतः । लोष्टवद्धेतुधर्मोस्ति तत्र कार्यक्रियेक्षणात् ॥ २॥ सर्वगत्वाद्गतिः पुंसः खवन्नास्तीति ये विदुः । तेषां हेतुरसिद्धोस्य कायमात्रत्ववेदनात् ॥३॥ विभुः पुमानमूर्तत्वे सति नित्यत्वतः खवत् । इत्यादि हेतवोप्येवं प्रत्यक्षहतगोचराः ॥४॥ हेतुरीश्वरबोधेन व्यभिचारी च कीर्तितः । तस्यामूर्तत्वनित्यत्वसिद्धेरविभुता मता ॥५॥ अनित्यो भवबोधश्चेन्न स्यात्तस्य प्रमाणता । गृहीतग्रहणान्नोचेत् स्मृत्यादेः शास्त्रबाधिता ॥६॥ गतिमानात्मा क्रियाहेतुगुणसंबंधाल्लोष्ठवत् । क्रियाहेतुगुणसंबंधोस्त्यात्मनि काये तत्कृतक्रियोपलंभात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.