________________
३३० तत्त्वार्थश्लोकवार्तिके
[ सू० २४ तस्य स्मरणविशेषो नियमादुपलभ्यते विशेषसमयाभावप्रसंगात् । विशेषमात्राविनाभावेपि वा न शिक्षाक्रियालापग्रहणनिमित्तस्मरणविशेषाविनाभावः सिद्ध्येत् प्राणिमात्रस्य तत्प्रसंगात् । ततो नाममतिवदाहारादिसंज्ञा तद्धेतुश्च स्मृतिसामान्यं धारणासामान्यं च तन्निमित्तमवायसामान्यमीहासामान्यमवग्रहसामान्य च सर्वप्राणिसाधारणमनादिभवाभ्याससंभूतमभ्युपगंतव्यं, न पुनः क्षयोपशमनिमित्तं भावमनः तस्य प्रतिनियतप्राणिविषयतयानुभूयमानत्वात् । अन्यथा सर्वत्र भावमनसो व्यवस्थापयितुमशक्तेः ॥ भावमनोऽन्यथानुपपत्त्या द्रव्यमनोपि सिध्यतीत्याह;क्षयोपशमभेदेन युक्तो जीवोनुमन्यते । सद्भिर्भावमनस्तावत् कैश्चित्संज्ञा विशेषतः ॥ ३॥ तत्सद्रव्यमनोयुक्तमात्मनः करणत्वतः । स्वार्थोपलंभने भावस्पशेनादिवदत्र नः ॥४॥
न हि संज्ञा विशेषाहते क्षयोपशमविशेषेण युक्तो जीव एव भावमनः कैश्चिदनुमातुं शक्यते । प्रज्ञामेधादेः कार्यविशेषानुमिताच्छक्यत एवेति चेन्न, तस्यापि संज्ञाविशेषरूपत्वात् । ऊहापोहात्मिका हि प्रज्ञा शिक्षादिक्रियाग्रहणलक्षणैव, मेधा पुनः पाठग्रहणलक्षणालापग्रहरूपैवेति । ततो भावमनः सिद्धं द्रव्यमनस्त्वात् कर्षति । तथाहि-~-भावमनः स्वार्थोपलब्धौ द्रव्यकरणापेक्षं भावकरणत्वात् स्पर्शनादिभावकरणवत् । मनसोऽनिंद्रियत्वात्करणत्वमसिद्धमिति चेन्न, अंतःकरणत्वेन प्रसिद्धेः । अनिद्रियत्वं तु पुनस्तस्यानियतविषयत्वादिद्रियवैधात् नाकरणत्वात् , स्वार्थोपलब्धौ साधकतमत्वेन करणत्वोपपत्तेः । न चैवं सूत्रविरोधः, पंचेंद्रियाणि द्विविधानि द्रव्यभावविकल्पादित्यत्रानिंद्रियस्यापि द्विविधस्य सामर्थ्यसिद्धत्वात् । शरीरवाङ्मनःप्राणापानाः पुद्गलानामित्यत्र सूत्रे पौद्गलिकस्य द्रव्यमनसः सूत्रकारेण स्वयमभिधानात् । तस्मादिद्रियमनसी विज्ञानस्य कारणं नार्थोपीत्यकलंकैरपि द्विविधंद्रियसामान्यवाक्यत्वेन द्विविधस्य मनसोभीष्टत्वात् । द्रव्यमनःप्रतिषेधितवचनभावाच्च तत्प्रतिषेधे प्रमाणाभावाद्युत्तयागमविरोधाच । तत्राहोपुरुषिकामात्रं केषांचिदविभावितसिद्धांतत्वमाविर्भावयति ।
कश्चिदाह-द्रव्यमन एव भावमनोस्ति तच्चात्मपुद्गलव्यतिरिक्तं द्रव्यांतरमिति तदप्यपसारयति;आत्मपुद्गलपर्यायव्यतिरिक्तं मनो न तु । द्रव्यमस्ति परैरुक्तं प्रमाणाभावतस्तथा ॥५॥
भावमनो ह्यात्मपर्यायः तस्य लब्ध्युपयोगत्वात् । सत्यपि द्रव्यमनसि तदभावे खार्थपरिच्छेदप्रादुर्भावायोगात्तत्प्रसिद्धेः । द्रव्यमनः पुद्गलपर्यायस्तदुपकरणात् द्रव्येद्रियवत् । तद्व्यतिरिक्तं तु द्रव्यांतरं मनो न शक्यं परैः साधयितुं तथा प्रमाणाभावात् । युगपज्ज्ञानानुत्पत्तिर्मनसो लिंगमिति चेन्न, ततो मनोमात्रस्य प्रतिपत्तिस्तद्र्व्यांतरत्वासिद्धेः । पृथिव्यादिद्रव्यत्वनिषेधात्परिशेषात् तस्य द्रव्यांतरत्वसिद्धिरिति चेन्नैतत् , निषेधासिद्धेः । तथाहि-स्पर्शवद्र्व्यमनोऽसर्वगतद्रव्यत्वात् पवनवदिति पुद्गलद्रव्यत्वसिद्धेः । कुतः ? परिशेषात्तस्य द्रव्यांतरत्वं समर्थयिष्यते च तस्याग्रतः पौद्गलिकत्वमित्यलं प्रसंगात् । अत्रान्ये द्रव्यमनो भावमनःसहितं द्रव्यं करणत्वात् स्पर्शनादिद्रव्यकरणवदित्यावेदयंति । तदयुक्तं । योगिद्रव्यमनसानेकांतात् । योगिनो हि द्रव्यमनः सदपि न भावमनःसहितं द्रव्येद्रियं च न भावेंद्रिययुक्तं क्षायिकज्ञानेन सह क्षायोपशमिकस्य भावमनोक्षस्य विरोधात् । न च केवलिनो द्रव्यमनोक्षाणि न संति बहिरंतरप्युभयथा च करणमविघातीति वचनात् । ततो विज्ञानविशेषादेव भावमनः साधनीयं, सिद्धाच्च भावमनसो द्रव्यमनसः सिद्धिरित्यनवयं । येषां तु प्राणिनां शिक्षाक्रियालापग्रहण विज्ञानविशेषाभावः शश्वत्तद्भवे निश्चितस्तेषां संज्ञित्वाभावान्न भावमनोस्ति तदभावान्न द्रव्यमनोऽनुमीयत इत्यम. नस्कास्ते ततो युक्तं संज्ञित्वासंज्ञित्वाभ्यां समनस्कामनस्कत्वं व्यवस्थापयितुम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org