________________
द्वितीयोऽध्यायः ।
३२९ पनार्थत्वाच्छृतवचनस्य । न हि यथा केवलं सर्व साक्षात् परिच्छिनत्ति तथानिंद्रियं तस्याविशदरूपतयार्थपरिच्छेदकत्वात् । ततः सूक्तं श्रुतमनिंद्रियस्येति ॥ किमर्थमिंद्रियमनसां विषयप्ररूपणमत्र कृतमित्याह;इति सूत्रद्वयेनाक्षमनोर्थानां प्ररूपणं । कृतं तजन्मविज्ञाननिरालंबनताछिदे ॥३॥ केषां पुनः प्राणिनां किमिंद्रियमित्याह;
वनस्पत्यंतानामेकम् ॥ २२ ॥ वनस्पतिरंतोवसानं येषां ते वनस्पत्यंताः सामर्थ्यात्पृथिव्यादय इति गम्यते तेषामेकं प्रथममिंद्रियं स्पर्शनमिति प्रतिपत्तव्यम् ॥ कुत इत्याह;
वनस्पत्यंतजीवानामेकं स्पर्शनमिंद्रियं । तज्जज्ञाननिमित्तायाः प्रवृत्तेपलंभनात् ॥१॥
यथास्मदादीनां स्पर्शनजज्ञाननिमित्ताहितस्य संग्रहणपरित्यागलक्षणा प्रवृत्तिरुपलभ्यते तथा वनस्पतीनामपि सोपलभ्यमाना स्पर्शनजज्ञानपूर्वकत्वं च साधयति तजं च ज्ञानं स्पर्शनमिन्द्रियमिति निर्बाधं । तद्वत्पृथिव्यादिजीवानामेकमिंद्रियं संभाव्यते बाधकाभावात् ॥ केषां यादींद्रियमित्याह;
कृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानि ॥ २३ ॥ एकैकमिति वीप्सानिर्देशागृद्धानीति बहुत्वनिर्देशाच वाक्यांतरोपप्लवं कथमित्याह;तथा कृमिप्रकाराणां रसनेनाधिक मतं । वृद्धे पिपीलिकादीनां ते घ्राणेन निरूप्यते ॥१॥ चक्षुषा तानि वृद्धानि भ्रमरादिशरीरिणां । श्रोत्रेणानु मनुष्यादिजीवानां तानि निश्चयात् २ तत्तद्धेतुकविज्ञानमूलानामुपलब्धितः । विषयेषु प्रवृत्तीनां स्वस्मिन्निव विपश्चिताम् ॥३॥ के पुनः संसारिणः समनस्काः के वाऽमनस्का इत्याह;
संज्ञिनः समनस्काः ॥२४॥ सामर्थ्यादसंज्ञिनो अमनस्का इति सूत्रितं, तेनामनस्का एव सर्वे संसारिणः सर्वे समनस्का एवेति निरस्तं भवति ॥ कुतः पुनः संज्ञिनां समनस्कत्वं सिद्धमित्युपदर्शयति;
संज्ञिनां समनस्कत्वं संज्ञायाः प्रतिपत्तितः । सा हि शिक्षाक्रियालापग्रहणं मुनिभिर्मता ॥१॥ नानादिभवसंभूत विषयानुभवोद्भवा । सामान्यधारणाहारसंज्ञादीनामधीरपि ॥२॥
न ह्यमनस्कानां शिक्षाक्रियालापग्रह्णलक्षणा संज्ञा संभवति यतस्तदुपलब्धेः केषांचित्समनस्कत्वं न सिद्ध्येत् । न चामनस्कानां सरणसामान्याभावोऽनादिभवसंभूतविषयानुभवोद्भवायाः सामान्यधारणायास्तद्धेतोः सद्भावात् आहारसंज्ञादिसिद्धेः प्रवृत्तिविशेषोपलब्धेः । न च सैव संज्ञा मुनिभिरिष्टा स्मृतिविशेषनिमित्तायास्तस्याः प्रकाशनात् । एतेन यदुक्तं कैश्चिदमनस्कानां स्मरणाभावेप्यभिलाषसिद्धेस्तदहर्जातदारकस्य स्तन्याभिमुखं मुखमर्जयतोभिलाषः स्मरणपूर्वकोऽभिलाषत्वात् अस्सदाद्यभिलाषवदित्यत्र हेतोरनैकांतिकत्वात् परलोकासिद्धिः । तथा च न स्मृतेरभिलाषोस्ति विनाशोपि दर्शनात् । तद्धि जन्मांतरान्नायं जातमात्रेपि लक्ष्यते इत्यकलंकवचनमविचारचतुरमायातं इति । तदपि प्रत्याख्यातं, स्मरणसामान्यमंतरेण कचिदप्यभिलाषासंभवात् तद्धेतोरनैकांतिकत्वानुपपत्तेः । न चामनस्केषु सरणसामान्यसद्भावात्स्मरणविशेषस्य सिद्धिः तस्य तेनाविनाभावाभावात् । न हि यस्यानुभूतस्मरणसामान्यमस्ति
४२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org