________________
३२८ तत्त्वार्थश्लोकवार्तिके
[सू० २१ रात् । ततः स्पर्शनादीनां परस्परं स्यादभेदो द्रव्यार्थादेशात् , स्याद्भेदः पर्यायार्थादेशात् । एतेन तेषां तद्वतो भेदाभेदै कांती प्रत्युक्तौ । आत्मनः करणानामभेदैकांते कर्तृत्वप्रसंगाचात्मवत् । आत्मनो वा करणत्वप्रसंगः, उभयोरुभयात्मकत्वप्रसंगो वा विशेषाभावात् । ततस्तेषां भेदैकांते चात्मनः करणत्वाभावः संतानांतरकरणवत् विपर्ययो वेत्यनेकांत एवाश्रयणीयः, प्रतीतिसद्भावाबाधकाभावाच्च । तथा द्रव्येद्रियाणामपि परस्परं खारंभकपुद्गलद्रव्याच्च भेदाभेदं प्रत्यनेकांतोवबोद्धव्यः पुद्गलद्रव्यार्थादेशादभेदोपपत्तेः । प्रतिनियतपर्यायार्थादेशात्तेषां भेदोपपत्तेश्च ॥ .. इतींद्रियाणि भेदेन व्याख्यातानि मतांतरं । व्यवचिच्छित्सुभिः पंचसूत्र्या युक्त्यागमान्वितैः २ इदानीमिंद्रियानिद्रियविषयप्रदर्शने कर्तव्ये, के तावदिंद्रियविषया इत्याह;
स्पर्शरसगंधवर्णशब्दास्तदर्थाः ॥ २० ॥ स्पर्शादीनां कर्मभावसाधनत्वं द्रव्यपर्यायविवक्षोपपत्तेः । तच्छब्दादिंद्रियपरामर्शः तेषामस्तिदर्थाः स्पर्शादीनां कर्मविषयाः स्पर्शादय इत्यर्थः । तदर्था इति वृत्त्यनुपपत्तिरसामर्थ्यादितिचेत् , न चात्र गमकत्वात् नित्यसापेक्षेषु संबंधिशब्दवत् । य एव हि वाक्येर्थः संप्रतीयते स एव वृत्ताविति गमकत्वं नित्यसापेक्षेषु संबंधिशब्देषु कथितं, यथा देवदत्तस्य गुरुकुलं देवदत्तस्य गुरुपुत्रः देवदत्तस्य दासमार्येति । तथेहापि तच्छब्दस्य स्पर्शनादिसापेक्षत्वेपि गमकत्वात् वृत्तिर्वेदितव्या । स्पर्शादीनामानुपूर्येण निर्देशः इंद्रियक्रमाभिसंबंधार्थः ॥
किं पुनः स्पर्शादयो द्रव्यात्मका एव पर्यायात्मका एव चेति दुराशंका निराकरोति;स्पर्शादयस्तदर्थाः स्युर्द्रव्यपर्यायतार्हतः। द्रव्यैकांते क्रियायाः स्यात्सर्वथा कूर्मरोमवत् ॥१॥ तथैव पर्ययैकांते भेदैकांतेऽनयोरपि । अनेकांतात्मना तेषां निर्वाधमुपलब्धितः ॥२॥ ततो अनेकात्मन एव स्पर्शादयः स्पर्शादीनां विषयभावमनुभवंति नान्यथा प्रतीत्यभावात् ॥ अथानिंद्रियस्य को विषय इत्याह;
श्रुतमनिंद्रियस्य ॥ २१ ॥ अर्थ इत्यभिसंबंधः सामर्थ्यात् । ननु चाश्रूयमाणमनिंद्रियमत्र तत्कथं तस्य विषयो निरूप्यते इत्याह;
सामर्थ्याद्गम्यमानस्यानिद्रियस्येह सूत्रितः । श्रुतमर्थः श्रुतज्ञानगम्यं वस्तु तदुच्यते ॥१॥ पंचैवेंद्रियाणीति वदता मनोनिद्रियमंतःकरणं सामर्थ्यादित्युक्तं भवति तस्य च विषयः श्रुतमितीह सूत्रयतो न सूत्रकारस्य विरोधः । श्रुतं पुनः श्रुतज्ञानसमधिगम्यं वस्तूच्यते विषये विषयिण उपचारात् । मतिज्ञानपरिच्छेद्यं वस्तु कथमनिन्द्रियस्य विषय इतिचेन्न, तस्यापि श्रुतज्ञानपरिच्छेद्यत्वानतिक्रमात् । अवधिमनःपर्ययकेवलज्ञानपरिच्छेद्यमपि श्रुतज्ञानपरिच्छेद्यत्वादनिंद्रियस्य विषयः स्यादिति
चेत्, न किंचिदनिष्टं । तथाहि- मनोमात्रनिमित्तत्वात् श्रुतज्ञानस्य काय॑तः । स्पर्शनादींद्रियज्ञेयस्तदर्थो हि नियम्यते ॥२॥ - अत्र स्पर्शनादींद्रियपरिच्छेद्यः तस्यानियतत्वात् । साकल्येन श्रुतज्ञानमात्रनिमित्तात् परिच्छिद्यमानस्य वस्तुनः श्रुतशब्देनाभिधानात् । नन्वेवं सर्वमनिंद्रियस्येति वक्तव्यं स्पष्टत्वादितिचेन्न, परोक्षत्वज्ञा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org