________________
द्वितीयोऽध्यायः।
३२७ कानि पुनर्भावेंद्रियाणीत्याह;
लब्ध्युपयोगौ भावेंद्रियम् ॥ १८ ॥ इंद्रियनिवृत्तिहेतुः क्षयोपशमविशेषो लब्धिः तन्निमित्तः परिणामविशेष उपयोगः लब्धिश्चोपयोगश्च लब्ध्युपयोगौ भावेंद्रियमिति जात्यपेक्षयैकवचनं । कुतः पुनस्तानि परीक्षका जानत इत्याह;
भावेंद्रियाणि लब्ध्यात्मोपयोगात्मानि जानते । स्वार्थसंविदि योग्यत्वाध्यापृतत्वाच्च संविदः १
लब्धिस्वभावानि तावद्भावेंद्रियाणि खार्थसंवित्तौ योग्यत्वादात्मनः प्रतिपद्यते । न हि तत्रायोग्यस्यात्मनस्तदुत्पत्तिराकाशवत् स्वार्थसंविद्योग्यतैव च लब्धिरिति लब्धींद्रियसिद्धिः । उपयोगस्वभावानि पुनः खार्थसंविदो व्यापृतत्वानिश्चिन्वंति । न ह्यव्यापृतानि स्पर्शादिसंवेदनानि पुंसः स्पर्शादिप्रकाशकानि भवितुमर्हति सुषुप्त्यादीनामपि तत्प्रकाशकप्रसंगात् । खार्थप्रकाशने व्यापृतस्य संवेदनस्योपयोगत्वे फलत्वादिद्रियत्वानुपपत्तिरितिचेन्न, कारणधर्मस्य कार्यानुवृत्तेः । न हि पावकस्य प्रकाशकत्वे तत्कार्यस्य प्रदीपस्य प्रकाशकत्वं विरुध्यते । न च येनैव स्वभावेनोपयोगस्येंद्रियत्वं तेनैव फलत्वमिष्यते यतो विरोधः स्यात् साधकतमत्वस्वभावेन हि तस्येंद्रियव्यपदेशः क्रियारूपतया तु फलत्वं प्रदीपवत् । प्रदीपः प्रकाशात्मना प्रकाशयतीत्यत्र हि साधकतमः प्रकाशात्मा करणं क्रियात्मा फलं खतंत्रात्मा कर्तेति प्ररूपितप्रायं ॥ किं व्यपदेशलक्षणानि तानींदियाणीत्याह;
स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि ॥ १९ ॥ __ स्पर्शनादीनां करणसाधनत्वं पारतंत्र्यात् कर्तृसाधनत्वं च खातंत्र्याबहुत्ववचनात् । तेनान्वर्थसंज्ञाकरणादेवं व्यपदेशान्येवं लक्षणानि च पंचेंद्रियाणीत्यभिसंबंधः कर्तव्यः । स्पर्शनस्य ग्रहणमादौ शरीरव्यापित्वात् , वनस्पत्यंतानामेकमित्यत्राभीष्टत्वात् सर्वसंसारिषूपलब्धेश्च । ततो रसनघ्राणचक्षुषां क्रमवचनमुत्तरोत्तराल्पत्वात् , श्रोत्रस्यांते वचनं बहूपकारित्वात् । रसनमपि वक्तृत्वेन बहूपकारीतिचेत् न, तेन श्रोत्रप्रणालिकापादितस्योपदेशस्योच्चारणात् तत्पारतंत्र्यवीकरणात् । सर्वज्ञे तदभाव इतिचेन्न, इंद्रियादिकरणात् । न हि सर्वज्ञस्य शब्दोच्चारणे रसनव्यापारोस्ति तीर्थकरत्वनामकर्मोदयोपजनितत्वात् भगवत्तीर्थकरावगमस्य करणव्यापारापेक्षत्वे क्रमप्रवृत्तिप्रसंगात् । सकलवीर्यातरायक्षयान्न क्रमप्रवृत्तिस्तस्येतिचेत् , तत एव करणापेक्षापि मा भूत् । ततः सूक्तं श्रोत्रस्यांते वचनं बहूपकारित्वादिति । एकैकवृद्धिज्ञापनार्थ वा स्पर्शनादिक्रमवचनं ॥ कुतः पुनः स्पर्शनादीनि जीवस्य करणान्यर्थोपलब्धावित्याह;--
स्पर्शनादीनि तान्याहुः कर्तुः सांनिध्यवृत्तितः। क्रियायां करणानीह कर्मवैचित्र्यतस्तथा॥१॥
स्पर्शनादीनि द्रव्येंद्रियाणि तावन्नामकर्मणो वैचित्र्याधुपलब्धेरात्मनः स्पर्शादिपरिच्छेदनक्रियायां व्याप्रियमाणस्य सांनिध्येन वृत्तेः करणानि लोके प्रतीयते । भावेंद्रियाणि पुनस्तदावरणवीर्यातरायक्षयोपशमस्य वैचित्र्यादिति मंतव्यं, तेषां परस्परं तद्वतश्च भेदाभेदं प्रत्यनेकांतोपपत्तेः । न हि परस्परं तावदिद्रियाणामभेदैकांतः स्पर्शनेन स्पर्शस्येव रसादीनामपि ग्रहणप्रसक्तेरिंद्रियांतरप्रकल्पनानर्थक्यात् । कस्यचिद्वैकल्ये साकल्ये वा सर्वेषां वैकल्यस्य साकल्यस्य वा प्रसंगात् । नापि भेदैकांतस्तेषामेकत्वसंकलनज्ञानजनकत्वाभावप्रसंगात् । संतानांतरेंद्रियवत् मनस्तस्य जनकमितिचेन्न, इंद्रियनिरपेक्षस्य तज्जनकत्वासंभवात् । इंद्रियापेक्षं मनोनुसंधानस्य जनकमितिचेत् , संतानांतरेंद्रियापेक्षं कुतो न जनकं ? प्रत्यासतेरभावादितिचेत् , अत्र का प्रत्यासत्तिः ? अन्यत्रैकात्मतादात्म्याद्देशकालभावस्य प्रत्यासत्तीनां व्यभिचा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org