________________
३२६
तत्त्वार्थश्लोकवार्तिके
-
व्ध्यसमर्थस्य हि यदर्थोपलब्धौ लिंगं निमित्तं तदिंद्रियमिति भाष्यते । नन्वेवमात्मनोर्थज्ञानमिंद्रियलिंगादुपजायमानमनुमानं स्यात् । तच्चायुक्तं । लिंगस्य परिज्ञानेनुमानानुदयात् । तस्यानुमानांतरापरिज्ञानेऽनवस्थानुषंगादिति कश्चित् । तदसत् । भावेंद्वियस्योपयोगलक्षणस्य खसंविदितत्वात्तदवलंबिनोर्थज्ञानस्य सिद्धेः । न चैतदनुमानं परोक्षविशेषरूपं, विशदत्वेन देशतः प्रत्यक्षत्वाविरोधात् । परोक्षसामान्यमन्यत्तु मुख्यतस्तदिष्टमेव परप्रत्ययापेक्षस्य परोक्षत्ववचनात् ॥ कथं पुनः पंचैवेंद्रियाणि जीवस्येत्याह ;पंचेंद्रियाणि जीवस्य मनसोनिंद्रियत्वतः । बुद्ध्यहंकारयोरात्मरूपयोस्तत्फलत्वतः ॥ १ ॥ वागादीनामतो भेदासिद्धेधसाधनत्वतः । स्पर्शादिज्ञानकार्याणामेवंविधविनिर्णयात् ॥ २ ॥ न हि मनः षष्ठमिंद्रियं तस्येंद्रियवैधर्म्यादनिंद्रियत्वसिद्धेः । नियतविषयाणींद्रियाणि, मनः पुनरनियतविषयमिति तद्वैधर्म्यं प्रसिद्धमेव । करणत्वाद्विंद्रलिंगत्वादिंद्रियं मन इतिचेत्, तदत्र धूमादिनानेकांतात् । तदपि हि करणमात्मनोर्थोपलब्धौ लिंगं च भवति न चेंद्रियमिति । बुद्ध्यहंकारयोरिंद्रियत्वान्न पंचैवेंद्रियाणीतिचेत् न, तयोरात्मपरिणामयोरिंद्रिय / निंद्रियफलत्वात् । वाक्पाणिपादपायूपस्थानां कर्मेंद्रियत्वान्न पंचैवेत्यप्ययुक्तं, तेषां स्पर्शनांतर्भावात् । तत्रानंतर्भावेतिप्रसंगात् । पंचानामेव बुद्धिसाधनत्वाच्चेंद्रियाणां पांचविध्यनिर्णयः कर्तव्यः स्पर्शादिज्ञानकार्याणि हि तानि । तथाहि - स्पर्शनादिज्ञानेंद्रियाः करणसाधनाः क्रियात्वादिंद्रियक्रियावत् । स्वसंवित्तिक्रिययानेकांत इतिचेन्न, तस्या अपि समनस्कानामंतःकरणकारणत्वात् परेषां खशक्तिविशेषकरणत्वात् । न चैकत्रात्मनि कर्तृकरणरूपविरोधः प्रतीतिसिद्धत्वादिति निरूपितं प्राक् । ततः स्पर्शादिज्ञानेभ्यः कार्यविशेषेभ्यः पंचभ्यः पंचेंद्रियाणीति सामर्थ्यात् मनोनिंद्रियं षष्ठमिति सूत्रकारेण निवेदितं भवति । तेनैतैर्व्यवस्थितैर्योगो द्वित्रिचतुः पंचेंद्रियाः संज्ञिनश्च सा इति निश्चीयते ॥
तानि पुनरिंद्रियाणि पौगलिकान्येकविधान्येवेति कस्यचिदाकूतमपाकुर्वन्नाह ;
द्विविधानि ॥ १६ ॥
द्विः प्रकाराणीत्यर्थः प्रकारवाचित्वाद्विधशब्दस्य । शक्तींद्रियाणि व्यक्तींद्रियाणि चेति द्विविधानि केचिन्मन्यते, मूर्तान्यमूर्तनि वेत्यपरे । सूत्रकारास्तु द्रव्येंद्रियाणि भावेंद्रियाणि चेति चेतसि निधायैवमाहुः ॥
यद्येवं कानि द्रव्येंद्रियाणीत्याह; -
निर्वृत्त्युपकरणे द्रव्येंद्रियम् ॥ १७ ॥
[सू० १७
निर्वर्त्यत इति निर्वृत्तिः सा द्वेषा बाह्याभ्यंतरभेदात् । तत्र विशुद्धात्मप्रदेशवृत्तिरभ्यंतरा तस्यामेव कर्मोदयापादितावस्थाविशेषः पुद्गलप्रचयो बाह्या । उपक्रियतेनेनेत्युपकरणं । तदपि द्विविधं बाह्याभ्यंतरभेदात् । तत्र बाह्यं पक्षपुटादि, कृष्णसारमंडलाद्यभ्यंतरं । निर्वृत्तिश्चोपकरणं च निर्वृत्त्युपकरणे द्रव्ये - यमिति जात्यपेक्षयैकवचनं ॥ कुतः पुनस्तानि प्रतिपर्यंत इत्याह; -
Jain Education International
द्विविधान्येव निर्वृत्तिस्वभावान्यनुमिन्वते । सिद्धोपकरणात्मानि तच्युतौ तद्विदच्युतेः ॥ १ ॥ बाह्याभ्यंतरोपकरणेंद्रियाणि तावत्प्रसिद्धान्येव तद्व्यापारान्वयव्यतिरेकानुविधायिनां स्पर्शादिज्ञानानामुपलंभात् । बाह्याभ्यंतरनिर्वृत्तिस्वभावानि चेंद्रियाणि तत एवानुमीयंते व्यापारवत्खप्युपकरणेंद्रियेषु विषयालोकमनस्सु च संनिहितेषु सत्यपि च भावेंद्रिये कदाचित्स्पर्शादिज्ञानानुत्पत्तेरन्यथानुपपत्तेस्तच्युतावेव तद्विदयुतिसिद्धेः ॥
For Private & Personal Use Only
www.jainelibrary.org