________________
द्वितीयोऽध्यायः ।
३२५ कोत्र विशेषः? स्थावरा इत्याह;
पृथिव्यतेजोवायुवनस्पतयः स्थावराः ॥ १३ ॥ पृथिवीकायिकादिनामकर्मोदयवशात्पृथिव्यादयो जीवाः पृथिवीकायिकादयः स्थावराः प्रत्येतव्या न पुनरजीवास्तेषामप्रस्तुतत्वात् ॥ कुतस्तव बोद्धव्या इत्याह;
जीवाः पृथ्वीमुखास्तत्र स्थावराः परमागमात् । सुनिर्वाधात्प्रबोद्धव्या युक्त्या एकेंद्रिया हि ते १ संति पृथिवीकायिकादयो जीवा इत्यागमात् पृथिवीकायिकादिसिद्धिः । कुतस्तदागमस्य प्रामाण्यनिश्चय इतिचेत् , सर्वथा बाधकरहितत्वात् । न ह्यस्य प्रत्यक्षं बाधकं तदविषयत्वात् । पृथिव्यादयो अचेतना एव व्यापारव्याहाररहितत्वाद्भस्मादिवत् इत्यनुमानं बाधकमिति चेन्न, अस्य सुषुप्तादिनानेकांतात् । तस्यापि पक्षीकरणमयुक्तं समाधिस्थेनानेकांतात् , पक्षस्य प्रमाणवाधानुषंगात् । सांख्यस्य मुक्तात्मना व्यभिचारात् प्रत्यागमो बाधक इतिचेन्न, तस्याप्रमाणत्वापादनात् स्याद्वादस्य प्रमाणभूतस्य व्यवस्थापनात् । तदेवमागमात्सुनिर्बाधात् पृथिवीप्रमुखाः स्थावराः प्राणिनो बोद्धव्याः । युक्तेश्च, ज्ञानं क्वचिदात्मनि परमप्रकर्षमायाति अपकृष्यमाणविशेषत्वात् परिमाणवदित्यतो यत्र तदपकर्षपर्यंतस्तेऽस्माकमेकेंद्रियाः स्थावरा एव युक्त्या संभाविताः । ननु च भस्मादावनात्मन्येव विज्ञानस्यात्यंतिकापकर्षस्य सिद्धेर्न स्थावरसिद्धिरितिचेन्न, स्वाश्रय एव ज्ञानापकर्षदर्शनात् अनात्मनि तस्यासंभवादेव हान्यनुपपत्तेः । प्रध्वंसो हि हानिः सत एवोपपद्यते नासतोनुत्पन्नस्य बंध्यापुत्रवत् कचिदात्मन्यप्यत्यंतनाशो ज्ञानस्यास्तीतिचेन्न, सतो वस्तुन उत्पन्नविनाशानुपपत्तेः । कर्मणां कथमत्यंतविनाश इतिचेत्, क एवमाह ? तेषामत्यंतविनाश इति । कर्मरूपाणां हि पुद्गलानामकर्मरूपतापत्तिर्विनाशः सुवर्णस्य कटकाकारस्याकटकरूपतापत्तिवत् । ततो गगनपरिमाणादारभ्यापकृष्यमाणविशेष परिमाणं यथा परमाणौ परमापकर्षपर्यंतप्राप्तं सिद्धं तथा ज्ञानमपि केवलादारभ्यापकृष्यमाणविशेषमेकेंद्रियेषु परमापकर्षपर्यंतप्राप्तमवसीयते । इति युक्तिमत्पृथिवीकायिकादिस्थावरजीवप्रतिपादनं ॥ के पुनर्विशेषतस्त्रसा इत्याह;
दींद्रियादयस्त्रसाः ॥ १४ ॥ द्वे स्पर्शनरसने इंद्रिये येषां ते द्वींद्रियाः कृम्यादयस्ते आदयो येषां ते इमे द्वींद्रियादय इति व्यवस्थावाचिनादिशब्देन तद्गुणसंविज्ञानलक्षणान्यपदार्था वृत्तिरवयवेन विग्रहो समुदायस्य वृत्त्यर्थत्वात् ॥
ते च प्रमाणतः सिद्धा एवेत्याह;त्रसाः पुनः समाख्याताः प्रसिद्धा द्वींद्रियादयः । इत्येवं पंचमिः सूत्रैः सर्वसंसारिसंग्रहः॥१॥ विग्रहगत्यापन्नस्य संसारिणोऽसंग्रह इतिचेन्न, तस्यापि त्रसस्थावरनामकर्मोदयरहितस्यासंभवात् तद्वचनेन संगृहीतत्वात् । सोपि नैकेंद्रियत्वं द्वींद्रियादित्वं वातिक्रामति सूक्तत्वप्रसंगात् । ततो भवत्येव पंचभिः सूत्रैः सर्वसंसारिसंग्रहः ॥ न कानिचिदिंद्रियाणि नियतानि संति यत्संबंधादेकेंद्रियादयो व्यवतिष्ठत इत्याशंकां निराकर्तुकामः सूरिरिदमाह;
पंचेंद्रियाणि ॥ १५॥ संसारिणो जीवस्य संतीति वाक्यार्थः । किं पुनरिंद्रियं ? इंद्रेण कर्मणा स्पृष्टमिंद्रियं स्पर्शनादींद्रियनामकर्मोदयनिमित्तत्वात् । इंद्रस्यात्मनो लिंगमिंद्रियं इति वा कर्ममलीमसस्यात्मनः खयमानुपल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org