________________
३२४
तत्त्वार्थश्लोकयार्तिके
[ सू० १२ विशेषतश्च । इहेष्टं हि प्रवचनं तस्य विशेषः समनस्केतरजीवप्रवचनं तस्य विशेषः समनस्केतरजीवप्रकाशि वाक्यं, संति संज्ञिनो जीवाः संत्यसंज्ञिन इति । ततश्च ते व्यवतिष्ठते सर्वथा बाधकाभावात् ॥ .. अत्र वसा एव संसारिणः समनस्कामनस्का इति केषांचिदाकूतं, तदपसारणायाह;
संसारिणस्त्रसस्थावराः ॥ १२॥ त्रसनामकर्मोदयापादितवृत्तयस्त्रसाः प्रत्येतव्याः न पुनस्त्रस्यंतीति त्रसाः पवनादीनां त्रसत्वप्रसंगात् गर्भादिष्वत्रसत्वानुषंगाच्च, स्थावरनामकर्मोदयोपजनितविशेषाः स्थावराः । स्थानशीलाः स्थावरा इतिचेन्न, वाय्वादीनामस्थावरत्वप्रसंगात् । इष्टमेवेतिचेन्न, समयार्थानवबोधात् । न हि वाय्वादयस्त्रसा इति समयार्थः । त्रसाश्च स्थावराश्च त्रसस्थावराः । सग्रहणमादावल्पाक्षरत्वादभ्यर्हितत्वाच । संसारिण एव त्रसस्थावरा इत्यवधारणान्मुक्तानां तद्भावव्युदासः, बसस्थावरा एव संसारिण इत्यवधारणाद्विकल्पांतरनिवृत्तिः ॥ कुत पुनरेवं प्रकाराः संसारिणो व्यवतिष्ठत इत्याह;
त्रसास्ते स्थावराश्चापि तदन्यतरनिहवे । जीवतत्त्वप्रभेदानां व्यवस्थानाप्रसिद्धितः॥१॥ . स्थावराः एव सर्वे जीवाः परममहत्वेन निष्क्रियाणां चलनासंभवात्रसत्वानुपपत्तेरिति त्रसनिह्नवस्तावन्न युक्तः, खयमिष्टानां जीवतत्त्वप्रभेदानां व्यवस्थानाप्रसिद्धिप्रसंगात् सर्वगतात्मन्येवात्रैव नानात्मकार्यपरिसमाप्तिः । सकृन्नानात्मनः संयोगो हि नानात्मकार्य तत्रैकत्रापि प्रयुज्यते नभसि नानाघटादिसंयोगवत् । एतेन युगपन्नाना शरीरेंद्रियसंयोगः प्रतिपादितः । युगपन्नाना शरीरेष्वात्मसमवायिनां सुखदुःखादीनामनुपपत्तिविरोधात् इतिचेत् , युगपन्नानाभेर्यादिष्वाकाशसमवायिनां विततादिशब्दानामनुपपत्तिप्रसंगात् तद्विरोधस्याविशेषात् । तथाविधशब्दकारणभेदान्न तदनुपपत्तिरितिचेत् सुखादिकारणभेदातदनुपपत्तिरप्येकत्रात्मनि मा भूत् विशेषाभावात् । विरुद्धधर्माध्यासादात्मनो नानात्वमितिचेत् , तत एवाकाशनानात्वमस्तु । प्रदेशभेदोपचाराददोष इतिचेत् , तत एवात्मन्यदोषः । जननमरणादिनियमोपि सर्वगतात्मवादिनां नात्मबहुत्वं साधयेत् , एकत्रापि तदुपपत्तेर्घटाकाशादिजननविनाशवत् । न हि घटाकाशस्योत्पत्तौ पटाद्याकाशस्योत्पत्तिरेव तदा विनाशस्यापि दर्शनात् । विनाशे वा न विनाश एव जननस्यापि तदोपलंभात् स्थितौ वा न स्थितिरेव विनाशोत्पादयोरपि तदा समीक्षणात् । सति बंधे न मोक्षः सति वा मोक्षे न बंध स्यादेकत्रात्मनि विरोधादितिचेन्न, आकाशेपि सति घटवत्त्वे घटांतरमोक्षाभावप्रसंगात् । सति वा घटविश्लेषे घटांतरविश्लेषप्रसंगात् । प्रदेशभेदोपचारान्न तत्प्रसंग इतिचेत् , तत एवात्मनि तत्प्रसंगः । कथमेक एवात्मा बद्धो मुक्तश्च विरोधादितिचेत्, कथमेकमाकाशं घटादिना बद्धं मुक्तं च युगपदिति समानमेतच्चोद्यम् । नभसः प्रदेशभेदोपगमे जीवस्याप्येकस्य प्रदेशभेदोस्त्विति कुतो जीवतत्त्वप्रभेदव्यवस्था । ततस्तामिच्छता क्रियावंतो जीवाश्च नभतो असर्वगता एवाभ्युपगंतव्या इति त्रससिद्धिः । वसा एव न स्थावरा इति स्थावरनिह्नवोपि न श्रेयान् , जीवतत्त्वप्रभेदानां व्यवस्थानाप्रसिद्धिप्रसंगात् । जीवतत्त्वसंतानांतराणि हि व्यवस्थापयन्न प्रत्यक्षाब्यवस्थापयितुमर्हति तस्य तत्राप्रवृत्तेः । व्यापारव्याहारलिंगात्साधयतीतिचेत् न, सुषुप्तमूर्छितांडकाद्यवस्थानां संतानांतराणामवस्थानुषंगात्तत्र तदभावात् । आकारविशेषात्तत्सिद्धिरितिचेत् , तत एव वनस्पतिकायिकादीनां स्थावराणां प्रसिद्धिंरस्तु । कः पुनराकारविशेषो वनस्पतीनां आहारलाभालाभयोः पुष्टिज्ञानलक्षणः । ततो यदि वनस्पत नामसिद्धिरात्मनां तदा संतानांतराणामपि मूर्छितादीनां कुतः सिद्धिरिति जीवतत्त्वप्रभेदं व्यवस्थापयता त्रसस्थावरयोरन्यतरनिह्नवोऽनभिधेयः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org