________________
द्वितीयोऽध्यायः।
३२३
मात्मन्येकत्र लीयत इत्यप्ययुक्तं, तस्यानित्यत्वप्रसंगात् । तथा च कृत्स्नस्तदेकत्वप्रवादः इत्यसावपि दृष्टे. ष्टबाधितः । यदि पुनः संसारिमुक्ता इति द्वंद्वो निर्दिश्यते तदाप्यर्थीतरप्रतिपत्तिः प्रसज्येत संसारिण एव मुक्ताः संसारिमुक्ता इति, तथा संसारिमुक्तैकत्वप्रवादः स्यात् स च दृष्टेष्टबाधितः, संसारिणां मुक्तखभावतयाश्रयसंवेदनात् संसारित्वेनैवानुभवात् मुक्तिसाधनाभ्युपगमविरोधाच्च मुक्तस्यापि संसार्यात्मकत्वाप्र• च्युतेः । संसारिमुक्तमिति द्वंद्वनिर्देशेपि संसार्येव मुक्तं जीवतत्त्वमित्यनिष्टार्थप्रतीतिप्रसंगात् तदेकत्वप्रवाद एव स्यात् , स च दृष्टेष्टबाधित इत्युक्तं । च शब्दोनर्थक इतिचेन्न, इष्टविशेषसमुच्चयार्थत्वात् । नो संसारिणः सयोगकेवलिनः संसारिणः नोसंसार्यसंसारित्वव्यपेतास्त्वयोगकेवलिनोभीष्टास्ते येन समुच्चीयते । नोसंसारिणः संसारिण एवेति चेन्न, तेषां संसारिवैधाद्भवांतरावाप्तेरभावात् । मिथ्यादर्शनाविरतिप्रमादकषायाणां संसारकारणानामभावात् । न चैवमसंसारिण एव ते, योगमात्रस्य संसारकारणस्य कर्मागमनहेतोः सद्भावात् । क्षीणकषायाः संयोगकेवलिवन्नो संसारिण एवेति चेन्न किंचिदनिष्टं । अयोगकेवलिनो मुक्ता एवेति चेन्न, तेषां पंचाशीतिकर्मप्रकृतिसद्भावात् , कृत्वकर्मविप्रमोक्षाभावादसंसारित्वायोगात् । न चैवं ते नोसंसारिणः केवलिनः संसारिणो संसार्यसंसारित्वव्यपेताश्चायोगकेवलिनो हीष्टास्ते संसारकारणस्य योगमात्रस्याप्यभावात् तत एव न संसारिणस्तत्रितयव्यपेतास्तु निश्चीयते । तथान्ये वर्णयंति-मुक्तानां परिणामांतरसंक्रमाभावादुपयोगस्य गुणभावप्रदर्शनार्थ चशब्दोपादानमिति, तत्र बुद्ध्यामहे तेषां नित्योपयोगसिद्धेः पुनरुपसंहारप्रादुर्भावात् । तत्रोपयोगव्यवहाराभावात् गुणीभूतोत्र भूय योग इति चेति । संसारिग्रहणमादौ कुत इति चेत् , संसारिणां बहुविकल्पत्वात्तत्पूर्वकत्वान्मुक्तेः। खयं वेद्यत्वाच्चेत्येके, उत्तरत्रयप्रथमं संसारिप्रपंचप्रतिपादनार्थ चेत्यन्ये ॥ यद्येवं किं विशिष्टाः संसारिण इत्याह सूत्रं;
समनस्कामनस्काः ॥ ११ ॥ मनसो द्रव्यभावभेदस्य सन्निधानात्समनस्काः तदसंनिधादमनस्काः । समनस्काश्चामनस्काश्च समनस्कामनस्का इति समनस्कग्रहणमादौ युक्तमभ्यर्हितत्वात् । संसारिमुक्तप्रकरणात् यथासंख्यप्रसंग इति चेत् तथेष्टसंसारिणामेव मनस्कत्वान्मुक्तानाममनस्कत्वादित्येके । तदयुक्तं । सर्वसंसारिणां मनस्कत्वप्रसंगात् । कुतस्तर्हि यथासंख्यप्रसंगः, पृथग्योगकरणात् । यथासंख्यं तदभिसंबंधेष्टौ संसारिणो मुक्ताश्च समनस्कामनस्का इत्येकयोगः क्रियेत उपरि संसारिवचनप्रत्यासत्तेश्च । संसारिणस्त्रसस्थावरा इत्यत्र हि संसारिण इति वचनं समनस्कामनस्का इत्यत्र संबध्यते त्रसस्थावरा इत्यत्र च मध्यस्थत्वात् ततो न यथासंख्यसंप्रत्ययः । अथवा संसारिणो मुक्ताश्चेत्यत्र संसारिण इति वचनमनेन संबध्यते न मुक्ता इति तेषां प्रधानशिष्टत्वान्मुक्तानामप्रधानशिष्टत्वात् । तथा सति समनस्कामनस्काः त्रसस्थावरा इति यथासंख्याप्रयोगः, सर्वत्रसानां समनस्कत्वासिद्धेः मध्यस्थसंसारिग्रहणाभिसंबंधेपि वा पृथग्योगकरणान्न त्रसस्थावरयथासंख्यामिसंबंधः स्यात् अन्यथैकमेव योगं कुर्वीत, तथा च द्विः संसारग्रहणं न स्यात् ततः संसारिण एव केचित्समनस्काः केचिदमनस्का इति सूत्रार्थो व्यवतिष्ठते ॥ कुतस्ते तथा मता इत्याह;
समनस्कामनस्कास्ते मताः संसारिणो द्विधा । तद्वेदनस कार्यस्य सिद्धेरिष्टविशेषतः ॥ १॥ समनस्काः केचित्संसारिणः शिक्षाक्रियालापग्रहणसंवेदनस्य कार्यस्य सिद्धेरन्यथानुपपत्तेः, केचित्पुनरमनस्काः शिक्षाद्यपाहिवेदनकार्यस्य सिद्धेरन्यथानुपपत्तेः । इत्येतावता द्विविधाः संसारिणः सिद्धाः इष्ट
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org