________________
३२२ तत्त्वार्थश्लोकवार्तिके
[ सू०१० त्वसिद्धरविशेषात् । अर्थातरभूतेन संबंधेनाप्यपरः संबंधो लक्षणमिति मतं, कथमनवस्थापरिहारः ? सुदूरमपि गत्वा यदि संबंधः संबंधिनः कथंचिदनन्यत्वाल्लक्षणमिष्यते तदोपयोग एवात्मनो लक्षणमिष्यतां तस्य कथंचित्तादात्म्योपपत्तेः ॥ तस्योपयोगस्य भेदप्रतिपादनार्थमाह;
स दिविधोष्टचतुर्भेदः ॥९॥ स उपयोगो द्विविधस्तावत् , साकारो ज्ञानोपयोगः सविशेषार्थविषयत्वात् , निराकारो दर्शनोपयोगः सामान्यविषयत्वात् । तत्राद्योऽष्टभेदश्चतुर्भेदोन्य इति संख्याविशेषोपादानात्पूर्व ज्ञानमुक्तं अभ्यर्हितत्वानिश्चीयते । एतत्सूत्रवचनादेव यथोक्तोपयोगव्यक्तिव्यापि सामान्यमुपयोगो खलक्षणमिति दर्शयति
स द्विविधोष्टचतुर्भेद इत्युक्तेः सूरिणा स्वयम् । शेषभावत्रयात्मत्वस्यैतल्लक्ष्यत्वसिद्धितः ॥१॥
जीवस्योपयोगसामान्यमिह लक्षणं निश्चीयते इति शेषः, स द्विविध इत्यादिसूत्रेण तद्विशेषकथनात् । अष्टाभ्यो ज्ञानव्यक्तिभ्यश्चतसृभ्यो दर्शनव्यक्तिभ्यश्चान्ये शेषा अष्टौ क्षायोपशमिकभेदाः सप्त च क्षायिकभेदाः परिगृह्यते । भावत्रयं पुनरौपशमिकौदयिकपारिणामिकविकल्पं प्रत्येयं । शेषाश्च भावत्रयं च शेषभावत्रयं तदात्मा खभावो यस्य जीवस्य स शेषभावत्रयात्मा तस्य भावः शेषभावत्रयात्मत्वं तस्यैतलक्षत्वसिद्धेः प्रतिपादितोपयोगव्यक्तिगतसामान्येन लक्ष्यत्वोपपत्तेरित्यर्थः ॥
एवं सूत्रद्वयेनोक्तं लक्षणं लक्षयेनरं । कायाद्भेदेन संश्लेषमापनादपि तत्त्वतः ॥२॥ यथा जलानलयोः संश्लेषमापन्नयोरप्युष्णोदकावस्थायां द्रवोष्णखभावलक्षणं भिन्नं भेदं साधयति तथा कायात्मनोः संश्लेषमापन्नयोरपि सूत्रद्वयोक्तं लक्षणं भेदं लक्षयेत्सर्वत्र भेदस्यैव भेदव्यवस्थाहेतुत्वात् । तदभावे प्रतिभासभेदादेरभेदकत्वात् ॥ के पुनर्जीवस्य भेदा इत्याह;
संसारिणो मुक्ताश्च ॥ १०॥ जीवस्येत्यनुवर्तनाद्भेदा भवतीत्यध्याहारः । आत्मोपचितकर्मवशादात्मनो भवांतरावाप्तिः संसारः तत्संबंधात् संसारिणो जीवविशेषाः । निरस्तद्रव्यभावबंधा मुक्तास्ते जीवस्य सामान्यतोभिहितस्य भेदा भवंतीति सूत्रार्थः । ततो नोपयोगेन लक्षणेनैक एव जीवो लक्ष्य इत्यावेदयति;लक्ष्याः संसारिणो जीवा मुक्ताश्च बहवोन्यथा । तदेकत्वप्रवादः स्यात्स च दृष्टेष्टबाधितः॥१॥
संसारिण इति बहुत्वनिर्देशाद्बहवो जीवा लक्षणीयास्तथा मुक्ताश्चेति वचनात्ततो न द्वंद्वनिर्देशो युक्तः संसारमुक्ताविति । तन्निर्देशे हि संसार्येक एवं मुक्तश्चैकः परमात्मेति प्रवादः प्रसज्येत । न चासौ श्रेयान् दृष्टेष्टबाधितत्वात् । संसारिणस्तावदेकत्वें जननमरणकरणादिनियमो नोपपद्यते । प्रांतोसावितिचेन्न, भवत इव सर्वस्य तद्भांतत्वनिश्चयप्रसंगात् । ममैव तन्निश्चयस्तदविद्याप्रक्षयादितिचेन्न, सर्वस्य तदविद्याप्रक्षयप्रसंगात् अन्यथा त्वन्नोभेदप्रसक्तिविरुद्धधर्माध्यासात् । ममाविद्याप्रक्षयो नान्येपामित्यप्यविद्याविलसितमेवेति चेत्, सर्वोप्येवं संप्रतिपद्यते तवैव इत्थं प्रतिपत्तौ परेषामप्रतिपत्तौ तु न कदाचिद्विरुद्धधर्माध्यासान्मुच्यते । ततोयं प्रत्यात्मदृष्टेनात्मभेदेन बाधितः संसार्यात्मैकत्ववादः । तथेष्टेनापि प्रतिपाद्यप्रतिपादकभावादिनेति प्रदर्शितप्रायं । तथा मुक्तात्मनोप्येकत्वे मोक्षसाधनाभ्यासवैफल्यं, ततोन्यस्य मुक्तस्यासंभवात् । संभवे वा मुक्तानेकत्वसिद्धिः । यो यः संसारी निर्वाति स स पर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org