________________
·
द्वितीयोऽध्यायः ।
३२१
I
पर्यायस्याकारणत्वादित्ययमप्यसिद्धो हेतुः द्रव्यार्थादेशाद्विरुद्धश्च । तथाहि । अस्त्यात्मा अनाद्यनतोऽकारणत्वात् पृथिवीत्वादिवत् । प्रागभावेन व्यभिचार इतिचेन्न, तस्य द्रव्यार्थादेशेऽनुपपद्यमानत्वादनुत्पादव्ययात्मकत्वात् सर्वद्रव्यस्य । पृथिवीद्रव्यादिभ्योऽर्थांतरभूतस्तु प्रागभावः परस्याप्यसिद्ध एवान्यथा तस्य तत्त्वांतरत्वप्रसंगात् । पश्चात्कार्यत्वादिति हेतुः सोप्यसिद्धः सुखादेरात्मकार्यस्य पर्यायार्थार्पणात् प्रसिद्धेः कादाचित्कार्यविशेषस्याभावादकार्यत्वमनैकांतिकं, मुर्मुराद्यवस्थेनाग्निना कार्यत्वाभावोऽकार्यत्वं विरुद्धं । तथाहि—सर्वदास्त्यात्माऽकार्यत्वात् पृथिवीत्वादिवत् । न प्रागभावेतरेतराभावोत्पन्नाभावैरनैकांतस्तेषां द्रव्यार्थाश्रयणेनुपपत्तेः । पर्यायार्थाश्रयणे कार्यत्वात् । कुटस्य हि प्रागभावः कुशूलः स च कोशकार्य कोशस्य च शिवकः स च स्थासांतरकार्यमिति कुटपट्योरितरेतराभावः कुटपटात्मकत्वात्कार्यः चेतनाचेतनयोरत्यंताभावोपि चेतनात्मकत्वात् कार्य इति । परस्य तु पृथिव्यादिभ्योर्थांतरभूताः प्रागभावादयो न संत्येवान्यथा तेषां तत्त्वांतरत्वप्रसंगात् । तथेतरेतराभावात्यंताभावयोः सर्वदास्तीति प्रत्ययविषयत्वात् न ताभ्यामनेकांतः खरविषाणादिदृष्टांतश्च साध्यसाधनविकल्पः, खरविषाणादेरप्येकांतेन नास्तित्वानुपलभ्यमानत्वाद्यसिद्धेः । गोमस्तकसमवायित्वेन हि यदस्तीति प्रसिद्धं विषाणं तत्खरादिमस्तकसमवायित्वेन नास्तीति निश्चीयते, मेषादिसमवायित्वेन च प्रसिद्धानि रोमाणि कूर्मसमवायित्वेन च न संति, नोपलभ्यंते च वनस्पतिसमवायित्वेन प्रसिद्धास्तित्वोपलभं कुसुमं गगनसमवायित्वेन नास्तित्वानुपलभ्यमानत्वधर्माधिकरणं दृष्टं न पुनः सर्वत्र सर्वदा सर्वथा किंचिन्नास्तित्वानुपलंभाधिकरणं प्रसिद्धं विरोधात् । ततो नात्मनः सर्वथा सर्वत्र सर्वदा नास्तित्वे साध्ये तथानुपलंभादिहेतूनां निदर्शनमस्ति साध्यसाधनविकल्पस्यानिदर्शनत्वात् । तथात्मा नास्तीति पक्षश्च प्रत्यक्षानुमानागमबाधितोवगम्यत इति साधने दोषदर्शनात् नातः साधनादात्मनिन्हवसिद्धिर्यतोस्य नोपयोगो लक्षणं स्यात् । किं च, स एवाहं द्रष्टा स्पष्टा स्वादयिता घ्राता श्रोतानुस्मर्ता नेत्यनुसंधानप्रत्ययो गृहीतृकृतः करणे अविज्ञानेषु वा संभाव्यमावात् तेषां खविषयनियतत्वात् परस्परविषयसंक्रमाभावात् गर्भादिमरणपर्यंतो महांश्चैतन्यविवर्तो दर्शनस्पर्शनाखादनाघ्राणश्रवणानुस्मरणलक्षणचैतन्यविशेषाश्रयो गृहीतस्तद्धेतुरिति चेन्न, तस्यैवात्मत्वेन साधितत्वादनाद्यनंतत्वोपपत्तेः । न चायं निर्हेतुकः कादाचित्कत्वादिति परिशेषादात्मसिद्धेश्च नात्मनोभावो युक्तः । किंच, अस्मदादेरात्मास्तीति प्रत्ययः संशयो विपर्ययो यथार्थनिश्चयो वा स्यात् ? संशयश्चेत् सिद्धः प्रागात्मा अन्यथा तत्संशयायोगात् । कदाचिदप्रसिद्धस्थाणुपुरुषस्य प्रतिपत्तुस्तत्संशयायोगवत् । विपर्ययश्चेत्तथाप्यात्मसिद्धिः कदाचिदात्मनि विपर्ययस्य तन्निर्णयपूर्वकत्वात् । ततो यथार्थ - निर्णय एवायमात्मसिद्धिः । नन्वेवं सर्वस्य वेष्टसिद्धिः स्यात् प्रधानादिप्रत्ययस्यापि सर्वविकल्पेषु प्रधानाद्यस्तित्वसाधनात्, तस्यैतदसाधनत्वे कथमात्मास्तीति प्रत्ययस्यात्मास्तित्वसाधनत्वमिति कश्चित् । तदसत् । प्रधानस्य सत्त्वरजस्तमोरूपस्याविरुद्धत्वात् तद्धर्मस्यैव नित्यैकत्वादेर्निराकरणात् । एवमीश्वरस्यात्मविशेषस्य ब्रह्मादेर्वाभिमतत्वात् तद्धर्मस्य जगत्कर्तृत्वादेरपाकरणात् सर्वथैकांतस्यापि सर्वथैकांत - रूपतया कदाचित्प्रसिद्धेस्तस्य सम्यक्त्वेन श्रद्धानस्य निराचिकीर्षितत्वात् । सर्वथा सर्वस्य सर्वत्र संशयविपर्ययानुपपत्तेः । नन्वेवमात्मनि सत्यपि नोपयोगस्य लक्षणत्वमनवस्थानादितिचेन्न, उपयोगसामान्यस्यावस्थापितत्वात् । परापरोपयोगविशेषणत्वानुपरमात्तस्य लक्षणत्वोपपत्तेः । सर्वथोपरमे पुनरनुस्मरणाभावप्रसक्तेः । संतानिकत्वादनुस्मरणादिरितिचेन्न, तस्यात्मनिहवे संवृत्ते सतोनुस्मरणादिहेतुत्वाद्योगात् । परमार्थसत्त्वे वा नाममात्रभेदात् उपयोगसंबंधी लक्षणं जीवस्य नोपयोग इति चेत्, स तर्हि जीवस्यार्थांतरभूतेनोपयोगेन स संबंधो यदि जीवादन्यस्तदा न लक्षणमर्थांतरवत् अन्यथोपयोगस्यापि लक्षण
૪૧
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org