________________
३२० तत्त्वार्थश्लोकवार्तिके
[सू०८ प्रमाणतेति घटते । नन्वेवमध्यक्षसंविदि प्रतिभासमानः सदृशपरिणामो विशेष एव स्थात् स्पष्टप्रतिभासविषयस्य विशेषत्वादितिचेत् , तर्हि प्रत्यक्षे प्रतिभासमानो विशेषः सदृशपरिणाम एव स्यात् स्पष्टावभासगोचरस्य सदृशपरिणामत्वादित्यपि ब्रुवाणः कुतो निषिध्यते ? प्रतीतिविरोधादितिचेत् , तत एव सामान्यस्य विशेषतामापादयन्निषिध्यतां प्रत्यक्षे सदृशपरिणामस्याप्रतीतेः सकलजनमनोधिष्ठानत्वात् भ्रांताध्यक्षे सादृश्यप्रतीतिर्बाधकसद्भावादितिचेत् , किं तद्बाधकं । वृत्तिविकल्पादि दूपणमिति चेन्न, तस्यानेकव्यक्तिव्यापि सामान्यविषयत्वात् । न हि वयं सदृशपरिणाममनेकव्यक्तिव्यापिनं युगपदुपगच्छामोन्यत्रोपचारात् । यतस्तस्य खव्यक्तिप्वेकदेशेन वृत्तौ सावयवत्वं, सावयवेषु चैकदेशांतरेण वृत्तेरनवस्थानं यतश्च प्रत्येकपरिसमाप्त्या वृत्तौ व्यक्त्यंतराणां निःसामान्यत्वमेकत्र व्यक्तौ कालयेन परिसमाप्तत्वात् सर्वगतत्वाच्च तस्य व्यक्त्यंतराले खप्रत्ययकर्तृत्वापत्तिरन्यथा कर्तृत्वाकर्तृत्वयोर्धर्मयोः परस्परविरुद्धयोरध्यासादेकत्वावस्थानं खव्यक्तिदेशेभिव्यक्तौ तदंतराले चानभिव्यक्तौ तस्याभिव्यक्तेतराकारप्रसक्तिः सर्वथा नित्यस्यार्थक्रियाविरोधादयश्च दोषाः प्रसज्येरन् । ननु च सदृशपरिणामपि प्रतिव्यक्तिनियते स्याद्वादिनाभ्युपगम्यमाने तद्वत्त्वापत्तिरावश्यकी तस्यां च सत्यां ससमानपरिणामेष्वप्येकैकव्यक्तिनिष्ठेषु समानप्रत्ययोत्पत्तेः सदृशपरिणामांतरानुषंगादनवस्थानेषु समानपरिणामांतरमंतरेण समानप्रत्ययोत्पत्तौ खंडादिव्यक्तिप्वपि समानप्रत्ययोत्पत्तिस्तमंतरेण स्यात्ततः सदृशपरिणामकल्पनमयुक्तमेवेति कश्चित् । तस्यापि विसदृशपरिणामकल्पनानुपपत्तिरेतदोषानुषंगात् । वैसादृश्येप्वपि हि प्रतिव्यक्तिनियतेषु बहुविसदृशप्रत्ययोपजननाद्वैसदृशांतरकल्पनायामनवस्थानमवश्यं भावितेषु वैसादृश्यांतरमंतरेण विसदृशप्रत्ययोत्पत्तौ सर्वत्र वैसदृशकल्पनमनर्थकं तेन विनापि विसदृशप्रत्ययसिद्धेरिति कथं विसदृशपरिणामे कल्पनोपपद्येत ? यत एव सदृशेतरपरिणामविकल्पमखिलं खलक्षणमनिर्देश्यं सर्वथेतिचेत् कथमेवमसादृश्यं न स्यात् । न हि किंचित्तथा पश्यामो यथा क्रियते परैः सदृशेतरपरिणामात्मनोन्तर्वहिर्वा वस्तुनोनुभवात् । यदि पुनर्वैसादृश्यं वस्तुखरूपं तत्र विसदृशप्रत्ययो वस्तुन्येव न वस्तुव्यतिरिक्ते वैसदृश्ये तस्याभावात् कल्पनयानु ततोपोद्धृतेर्वान्तरतया वैसादृश्ये विसदृशप्रत्यय औपचारिक एव न मुख्यो यतो वैसादृश्यांतरकल्पनप्रसंग इति मतं, तदा सादृश्यमपि वस्तुस्वरूपं तत्र सदृशप्रत्ययो वस्तुन्येव न वस्तुव्यत्तिरिक्ते सादृश्ये तस्या भावांतरतयापोद्धृते सदृशपरिणामे सदृशप्रत्ययो भोक्तर्येव स मुख्यो मतः । साहश्यांतरकल्पनादनवस्थाप्रसक्तिरिति समाधानं वादिप्रतिवादिनोः समानमाक्षेपवदुपलक्ष्यते । ततो वस्तु सत्सामान्यविशेषवत्तत्र च प्रवर्तमानो विकल्पो वस्तुनिर्भासं संवादकत्वादनुपप्लव एव प्रत्यक्षवत् तादृशाच्च विकल्पालक्ष्यलक्षणभावो व्यवस्थाप्यमानोन्यबुद्ध्यारूढ एव यतः सांवृतः स्यात् । पारमार्थिकश्च लक्ष्यलक्षणभावः सिद्धः सन्नयं जीवोपयोगयोः कथंचित्तादात्म्यादुपपद्यते अम्युणवत् । कश्चिदाहनोपयोगलक्षणो जीवस्तदात्मकत्वात् विपर्ययप्रसंगादिति, तं प्रत्याह । नातस्तत्सिद्धेः । उभयथापि त्वद्वचनासिद्धेः खसमयविरोधात् केनचिद्विज्ञातात्मकत्वात् तदात्मकस्य तेनैव परिणामदर्शनात् क्षीरनीरवत् । निःपरिणामे त्वतिप्रसंगार्थस्वभावसंकराविति । स चायमाक्षेपः समाधानं न विधेर्जीवोपयोगयोस्तादात्म्यैकांताश्रयो नयाश्रयश्च प्रतिपत्तव्यः । अत्रापरः प्राह-उपयोगस्य लक्षणत्वानुपपत्तिर्लक्ष्यस्यात्मनोसंबंधात् । तथाहि । नास्त्यात्मानुपलंभादकारणत्वादकार्यत्वात् खरविषाणादिवदिति । तदयुक्तं । साधनदोषदर्शनात् । अनुपलंभादयो हि हेतवस्तावदसिद्धाः प्रत्यक्षानुमानागमैरात्मनोऽनाद्यनंतस्योपलंभात् । योगिप्रत्यक्षस्य तदुपलंभकस्यानुमानस्यागमस्य च प्रमाणभूतस्य निर्णयात्तदनुपलंभोसिद्ध एव वा अनैकांतिकश्च चार्वाकस्य परचेतोवृत्तिविशेषैः । तथा पर्यायार्थादेशात् पूर्वपूर्वपर्यायहेतुकत्वादुत्तरोत्तरात्म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org